भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 6

6.1

बोधिसत्त्वपिटकावतंसक्रान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पात् पञ्चमः
पटलविसरः । द्वितीयः पटविधानविसरः समाप्तः ॥
षष्ठः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः अपरमपि पटविधानरहस्यं तृतीयं कन्यसं नाम । यः सर्वसत्त्वानामयत्नेनैव सिद्धिं गच्छेयुः । पूर्वनिर्दिष्टेनैव विधिना शिल्पिभिः सुगतवितस्तिप्रमाणं तिर्यक् तथैव समं चतुरस्रं पूर्ववत् पटश्चित्रापयितव्यः पूर्वनिर्दिष्टैरङ्गैः ॥
आदौ तावदार्यमञ्जुश्रीः सिंहासनोपनिषण्णः बालदारकरूपी पूर्ववत् धर्मं देशयमानः समन्तप्रभा अर्चिषो निर्गच्छमानश्चारुरूपी चित्रापयितव्यः । वामपार्श्वे आर्यसमन्तभदः रत्नोपलस्थितः चमरव्यग्रहस्तः चिन्तामणिवामविन्यस्तकरः प्रियङ्गुश्यामवर्णः पूर्ववच्चित्रापयितव्यः । दक्षिणपार्श्वे आर्यमञ्जुश्रियस्य रत्नोपलस्थितः आर्यावलोकितेश्वरः पूर्ववत् । चमरव्यग्रहस्तः वामहस्तारविन्दविन्यस्तः समन्तद्योतितमूर्तिरभिलेख्यः । अधश्च सिंहासनात् कनकवर्णः पर्वतो यावत् पटान्ते चित्रापयितव्यः । पटान्तकोणस्य आर्यमञ्जुश्रियस्य सिंहासनस्याधस्ताद् दक्षिणपार्श्वे यमान्तकः क्रोधराजा पूर्ववच्चित्रापयितव्यः । धूपकटच्छुकव्यग्रहस्तः यथापूर्वं तथैव साधकः । उपरिष्टादार्यमञ्जुश्रियस्य सङ्कुसुमितराजेन्द्रस्तथागतचिअत्रापयितव्यः षोडशाङ्गुलप्रमाणः रत्नपर्वतगुहालीनः । कूटागारसदृशाः प्राग्भारपर्वता दश चित्रापयितव्याः । समन्ताच्च तत्पटं पर्वताकारवेष्टितं लिखेत् । उपरिष्टाच्च पटकोणावस्थितौ पर्वतप्राग्भारसंश्लिष्टौ उत्पतमानविमानपुष्पौघमुत्सृजमानौ शुद्धावासकायिकौ देवपुत्रौ शुद्धश्च नाम विशुद्धश्च नाम पूर्ववच्चित्रापयितव्यौ । नानापुष्पाभिकीर्णं च तत् पटमभिलिखापयितव्यमिति ॥
एतत् कथितं सर्वं त्रिविधं पटलक्षणम् ।
कन्यसं नामतो ह्येतत् पटः श्रेयो क्षुद्रकर्मसु

6.2

यत् कृतं कारितं चापि पापं कर्म सुदारुणम् ।
कल्पकोटिसहस्राणि दर्शनात् पटमुच्यते

6.3

पटं तु दृष्टमात्रं वै तत्क्षणादेव मुच्यते ।
बुद्धकोटीसहस्राणि सत्कुर्याद् यो हि बुद्धिमां ।
कन्यसं तु पटं दृष्ट्वा कला नायाति षोडशीम्

6.4

यत् पुण्यं सर्वबुद्धानां पूजा कृत्वा तु तापिनाम् ।
तत् पुण्यं प्राप्नुयाद् विद्वां कन्यसे पटदर्शने ।
शोभनानि च कर्माणि भोगहेतोः इहाचरेत्

6.5

यावन्ति केचन मन्त्रा ब्रह्मेन्द्रऋषिभाषिताः ।
वैनतेयेन तु प्रोक्ताः वरुणादित्यकुबेरयोः

6.6

धनाद्यैः राक्षसैः सर्वैर्दानवेन्द्रैर्महोरगैः ।
सोमवायूअमाद्यैश्च भाषिता हरिहरादिभिः ।
सर्वे मन्त्रा इहानीताः सिध्यन्ते पटमग्रतः

6.7

शान्तिकानि सदा कुर्यात् पौष्टिकानि तथा इह ।
दारुणानि च वर्जीत गर्हिता जिनवरैस्त्विहेति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc