मञ्जुश्रीमूलकल्प · अध्याय 10
बोधिसत्त्वपिटकान्महायानवैपुल्यसूत्रादार्यमञ्जुश्रियमूलकल्पात् सप्तमः पटलविसरात् चतुर्थः पटविधानपटलविसरः परिसमाप्त इति ॥
अष्टमः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिर्मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । ये ते मञ्जुश्रीः त्वया निर्दिष्टा सत्त्वा तेषामर्थाय इदं पटविधानं विसरमाख्यातम् । ते स्वल्पेनैवोपायेन साधयिष्यन्ते । तेषामर्थाय साधनोपयिकं गुणविस्तरप्रभेदविभागशो कर्मविभागं समनुभाषिष्यामि । तं शृणु साधु च सुष्ठु च मनसि कुरु भाषिष्ये । सर्वसत्त्वानामर्थाय ॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत् । साधु साधु भगवन् सुभाषिता ते ऽस्मद्विभावनोद्योतनकरीं मन्त्रचर्यागुणनिष्पत्तिप्रभावनकरीं वार्णाम् । तद्वदतु तं भगवान् । यस्येदानीं कालं मन्यसे । अस्माकमनुकम्पार्थम् ॥
अथ भगवान् शाक्यमुनिः सर्वावन्तं पर्षन्मण्डलमवलोक्य स्मितमकार्षीत् । अथ भगवतः शाक्यमुनिर्मुखद्वारात् नीलपीतस्फटिकवर्णादयो रश्मयो निश्चरन्ति स्म । समनन्तरनिश्चरिता च रश्मयो सर्वावन्तं पर्षन्मण्डलं अवभास्य त्रिसाहस्रमहासाहस्रं लोकधातुं सर्वमारभवनं जिह्मीकृत्य सर्वनक्षत्रद्योतिशैलगणप्रभां यत्रेमौ चन्द्रसूर्यौ महर्धिकौ महानुभावौ तया प्रभया ते ऽपि जिह्मीकृतौ नावभास्यन्ते, निष्प्रभाणि च भवन्ति । न विरोचन्ते जिह्मीकृतानि च संदृश्यन्ते सर्वमणिमन्त्रौपधिरत्नप्रभां निःप्रभीकृत्य पुनरेव भगवतः शाक्यमुनेः मुखद्वारान्तर्धीयते स्म ॥
अथ खलु वज्रपाणिर्बोधिसत्त्वो महासत्त्वः तत्रैव पर्षन्मण्डले सन्निपतितो ऽभूत् सन्निषण्णः । स उत्थायासनात् सत्त्वरमाणरूपो भगवतश्चरणयोर्निपत्य भगवन्तमेतदवोचत् - नाहेतुकं नाप्रत्ययं बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति । को भगवन् हेतुः, कः प्रत्ययो स्मितस्य प्राविष्करणाय ॥
एवमुक्ते, भगवान् वज्रपाणिं बोधिसत्त्वमामन्त्रयते स्म । एवमेतद् वज्रपाणे एवमेतत् । यथा वदसि तत् तथा । नाहेत्वप्रत्ययं तथागतानां विद्यते स्मितम् । अस्ति हेतुः अस्ति प्रत्ययः । यो इदं सूत्रेन्द्रराजं मञ्जुश्रीमूलकल्पा विद्याचर्यानुष्ठानकर्मसाधनोपयिकसमवशरणधर्ममेघानिःश्रितं समनुप्रवेशानुवर्तकं करिष्यन्ति धारयिष्यन्ति वाचयिष्यन्ति श्रद्धास्यन्ति पुस्तकलिखितं कृत्वाः पूजयिष्यन्ति वन्दनचूर्णानुलेपनधूपमाल्यैः छत्रध्वजपताकैः विविधैर्वा प्रकारैर्वाद्यविशेषैर्वा नानातूर्यताडावचरैः । अन्तशः अनुमोदनासहगतं वा चित्तसन्ततिर्वा प्रतिअलप्स्यन्ते रोमहर्षणं सञ्जनं वा करिष्यन्ति विद्याप्रभावशक्तिं वा श्रुत्वा संहृष्यन्ते अनुमोदिष्यन्ते चर्यां वा प्रतिपत्स्यन्ते । व्याकृतास्ते मया अनुत्तरायां सम्यक् सम्बोधो सर्वे ते भविष्यन्ति । बुद्धा भगवन्तः । अत एव जिनाः स्मितं कुर्वन्ति नान्यथा इति ॥
आदौ तावद् दृष्टसमयः कृतपुरश्चरणः लब्धाभिषेकः अस्मिन् कल्पराजमूलमन्त्रहृदयं उपहृदयं वा अन्यतरं वा मन्त्रं गृहीत्वा एकाक्षरं वा अन्यं वा यथेप्सितं महारण्यं गत्वा त्रिंशल्लक्षाणि जपे फलोदकाहारः मूलपर्णभक्षो वा कृतपुरश्चरणो भवति ॥
ततो पर्वतायमभिरुह्य ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य, आत्मना पूर्वाभिमुखो कुशविण्डकोपविष्टः श्वेतपद्मानां श्वेतकुङ्कुमाभ्यक्तानां लक्षमेकं भगवतः शाक्यमुनेः सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां पटस्याधस्तान्निवेदयेत् । कर्पूरधूपं च यथाविभवतः दहेत् । देवपुत्रनागानां च पूजा कुर्यात् । यथालब्धैः पुष्पैः । ततो ऽर्धरात्रकालसमये शुक्लपूर्णमास्यां प्रातिहारकप्रतिपूर्णायां पटस्याग्रतः अग्निकुण्डं कृत्वा पद्माकारं श्वेतचन्दनकाष्ठैरग्निं प्रज्वाल्य कुङ्कुमकर्पूरं चैकीकृत्य, अष्टसहस्राहुतिं जुहुयात् । यथाविभवतः कृतरक्षः ॥
ततः भगवतः शाक्यमुनेः रश्मयो निश्चरन्ति समन्ताच्च पटः एकज्वालीभूतो भवति । ततः साधकेन सत्त्वरमाणरूपेण पटं त्रिःप्रदक्षिणीकृत्य सर्वबुद्धबोधिसत्त्वप्रत्येकबुद्धार्यश्रावकाणां प्रणम्य पटं ग्रहीतव्यम् ॥
अतीतेन पूर्वलिखितसाधकपटान्तदश ततो गृहीतमात्रोत्पतति । अच्छटामात्रेण ब्रह्मलोकमतिक्रामति । कुसुमावतीं लोकधातुं सम्प्रतिष्ठति । यत्रासौ भगवां सङ्कुसुमितराजेन्द्रस्तथागतः तिष्ठति ध्रियते यापयति धर्मं च देशयति आर्यमञ्जुश्रियं च साक्षात् पश्यति धर्मं शृणोति अनेकान्यपि बोधिसत्त्वशतसहस्रा पश्यति तांश्च पर्युपास्ते महाकल्पसहस्रं अजरामरलीली भवति । पटस्तत्रैव तिष्ठति सर्वबुद्धबोधिसत्त्वाधिष्ठितो भवति तेषां चाधिष्ठानं सञ्जानीते क्षेत्रशतसहस्रं चाक्रामति कायशतसहस्रं वा दर्शयति अनेकऋद्धिप्रभावसमुद्गतो भवति आर्यमञ्जुश्रियश्च कल्याणमित्रो भवति नियतं बोधिपरायणो भवतीति ॥
बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद् अष्टम उत्तमसाधनौपयिककर्मपटलविसरात् प्रथमः समाप्त इति ॥
अथ नवमः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः सर्वावती पर्षन्मण्डलोपनिषण्णां देवसङ्घानामन्त्रयते स्म । शृण्वन्तु भवन्तो मार्षा मञ्जुश्रियस्य कुमारभूतस्य चर्यामण्डलमन्त्रसाधकमोपयिकं रक्षार्थं साधकस्य परमगुह्यतमं परमगुह्यहृदयं सर्वतथागतभाषितं महाविद्याराजम् । येन जप्तेन सर्वमन्त्रा जप्ता भवन्ति । अनतिक्रमणीयो ऽयं भो देवसङ्घाः अयं विद्याराजा । मञ्जुश्रियो ऽपि कुमारभूतो ऽनेन विद्याराज्ञा आकृष्टो वशमानीतो सम्मतीभूतः । कः पुनर्वादः तदन्ये बोधिसत्त्वाः, लौकिकलोकोत्तराश्च मन्त्राः । सर्वविघ्नांश्च नाशयत्येष महावीर्यः प्रभावः एकवीर्यः एक एव सर्वमन्त्राणाम् अग्रमाख्यायते । एक एव एकाक्षराणामक्षरमाख्यायते । कतमं च तत् । एकाक्षरं सर्वार्थसाधकं, सर्वकार्यकरणं सर्वमन्त्रच्छेदनं दुष्टकर्मिणां सर्वपापप्रनाशनं सर्वमन्त्रप्रतिपूरणं शुभकारिणं सर्वलौकिकलोकोत्तरमन्त्राणामुपर्युपरिवर्तते अप्रतिहतसर्वतथागतहृदयसर्वाशापारिपूरक कतमं च तत् । तद्यथा - कऌल्हीं । एष स मार्षा परमगुह्यतमं सर्वकर्मिकं एकाक्षरं नाम विद्याराजा अनतिक्रमणीयः सर्वसत्त्वानाम् । अधृष्यः सर्वभूतानां मङ्गलं सर्वबुद्धानां साधकः सर्वमन्त्राणां प्रभुः सर्वलोकानाम् ईश्वरो सर्ववित्तेशानां मैत्रात्मको सर्वविद्विष्टानां कारुणिको सर्वजन्तूनां नाशकः सर्वविघ्नानां संक्षेपतः यथा यथा प्रयुज्यते तथा तथा करोति असाधितो ऽपि कर्माणि करोति । मन्त्रजपता यं स्पृशति स वश्यो भवति वस्त्राण्यभिमन्त्र्य प्रावरेत् सुभगो भवति । दन्तकाष्ठमभिमन्त्र्य भक्षये दन्तशूलमपनयति । श्वेतकरवीरदन्तकाष्टमभिमन्त्र्य भक्षयेत् अप्रार्थितमन्नमुत्पद्यते । अक्षिशूले सैन्धवं चूर्णयित्वा सप्तवारानभिमन्त्र्य अक्षि पूरयेत् अक्षिशूलमपनयति । कर्णशूले गजविष्ठोत्थितांगर्जानसम्भवां छत्रिकां केधुकपत्रावनद्धां मृद्वाग्निना पचेत् । सुकेलायितां सुखोष्णं सैन्धवचूर्णपूतां कृत्वा सप्ताभिमन्त्रितेन कर्णां पूरयेत् । तत्क्षणादुपशमयति । प्रसवनकाले स्त्रियाया वा मूढगर्भायाः शूलाभिभूतायाः आटरुषकमूलं निष्प्राणकेनोदकेन पीषयित्वा नाभिदेशं लेपयेत् । सुखेनैव प्रसवति नष्टशल्यो वा पुरुषः पुराणघृतं अष्टशतवारानभिमन्त्र्य पाययेल्लेपयेद् वा तत्प्रदेशं तत्क्षणादेव निःशल्यो भवति । अजीर्णविशूईचिकायातिसारे मूलेषु सौवर्चलं सैन्धवं वा अन्यं लवणं सप्तवारानाभिमन्त्र्य भक्षये तस्माव्द्याधेर्मुच्यते तदह एव स्वस्थो भवति । उभयातिसारे सद्यातिसारे वा मातुलुङ्गफलं पीपयित्वा निष्प्राणकेनोइदकेन तस्मादाबाधान्मुच्यते । सकृज्जप्तेन तु जप्तेन वा वन्ध्यायाः स्त्रिया वा अप्रसवधर्मिण्याः प्रसवमाकांक्षता अश्वगन्धमूलं गव्यघृतेन सह पाचयित्वा गव्यक्षीरेण सह पीषयित्वा गव्यक्षीरेणैवाद्वाल्य पञ्चविंशत्परिजप्तं ऋतुकाले पायये स्नानान्ते च परदारवर्जी गृही काममिथ्याचारवर्जितः स्वदारमभिगच्छे । स्वपतिं वा जनयते सुतं त्रिपञ्चवर्षप्रसवनकालातिरेकं वा अनेकवर्षविष्टब्धो वा परमन्त्रतन्त्रोषधपरमुद्रितपरदुष्टकृतं वा गर्भधारणविधृतं वा व्याधिसमुत्थितं वा अन्यं वा यत्किञ्चि व्याधिं परविधृतस्थावरजङ्गमकृत्रिमाकृत्रिमगरादिप्रदत्तं वा सर्वमूलमन्त्रौषधिमित्रामित्रप्रयोगकृतं वा सप्तविंशतिवारां पुराणघृतमयूरचन्द्रकं ( वैद्य 58 ) चेकीकृत्य पीषयेत् । ततः सुपिष्टं कृत्वा शर्करेण सह योज्य हरीतकीमात्रं भक्षयेत् । सप्तदिवसानि च शर्करोपेतं शृतं क्षीरं पाययेद् अभिमन्त्र्य पुनः पुनः । मस्तकशूले काकपक्षेण सप्ताभिमन्त्रितेन उमार्जायेत् स्वस्थो भवति । स्त्रीप्रदरादिषु रोगेषु आलम्बुषमूलं क्षीरेण सह पीषयित्वा नीलिकामूलसंयुक्तमष्टशताभिमन्त्रितं क्षीरेणालोड्य पाययेत् । एवं चातुर्थएकाहिकद्व्याहिकत्र्याहिकसाततिकं नित्यज्वरविषमज्वरादिषु पायसं घृतसंयुक्तं अष्टशताभिमन्त्रितं भक्षापयेत् । स्वस्थो भवति ॥
एवं डाकिनीग्रहगृहीतेषु आत्मनो मुखमष्टशतवारानभिमन्त्र्य निरीक्षयेत् । स्वस्थो भवति । एवं मातरवालपूतनवेतालकुमारग्रहादिषु सर्वामानुषदुष्टदारुणगृहीतेषु आत्मनो हस्तमष्टशताभिमन्त्रितं कृत्वा गृहीतकं मस्तके स्पृशेत् । स्वस्थो भवति ॥
एकजप्तेनात्मरक्षा द्विजप्तेन सहायरक्षा तृजप्तेन गृहरक्षा चतुर्जप्तेन ग्रामरक्षा पञ्चजप्तेन यामगोचरगतरक्षा भवति । एवं यावत्सहजप्तेन कटकचक्ररक्षा कृता भवति । एतानि चापराणि अन्यानि च क्षुद्रकर्माणि सर्वाणि करोति असाधिते ऽपि । अथ साधयितुमिच्छति क्षुद्रकर्माणि कार्याणि । एकान्तं गत्वा विविक्तदेशे समुद्रगामिनीं सरित्समुद्भवे समुद्रकूले गङ्गानदीकूले वा अथवा महानदीकूलमाश्रित्य शुचौ प्रदेशे उडयं कृत्वा त्रिस्नायी त्रिचैलपरिवर्ती मौनी भिक्षभैक्षाहारसाधकः यावकपयो फलाहारो वा त्रिंशल्लक्षाणि जपेत् सिद्धिनिमित्तं ततो दृष्ट्वा ततो साधनमारभेत् । ज्येष्ठं पटं तत्रैव देशे तस्मिं स्थाने पटस्य महतीं पूजां कृत्वा सुवर्णरूप्यमयी ताम्रमृत्तिकमयैर्वा प्रदीपकैः तुरुष्कतैलपूर्णैः गव्यघृतपूर्णैर्वा प्रदीपकैः प्रत्यग्रवस्त्रखण्डाभिः खण्डाभिः कृतवर्तिभिः लक्षमेकं पटस्य प्रदीपानि निवेदयेत् । सर्वाणि समं समन्तात् समनन्तरप्रदीपितैः प्रदीपमालाभिः पटस्य रश्मयो निश्चरन्ति । समनन्तरनिश्चरितै रश्मिभिः पटः समन्तज्वालमालाकुलो भवति । उपरिष्टाच्चान्तरिक्षे दुन्दुभयो नदन्ति । साधुकारश्च श्रूयते ॥
ततो विद्याधरेण सत्त्वरमाणरूपेण साधकपटान्तकोणं पूर्वलिखितपटः निःसृतं अर्घं दत्त्वा प्रदक्षिणीकृत्य सर्वबुद्धां प्रणम्य ग्रहेतव्यम् । ततो गृहीतमात्रेण सर्वप्रदीपगृहीतैः सत्त्वैः सार्धं समुत्पतति एकाधिकविमानलक्षणं वा गच्छन्ति । दिव्यतूर्यप्रतिसंयुक्ते मधुरध्वनिगीतवादितनृत्योपेतैः विद्याधरीभिः समन्तादाकीर्णं तं साधकं विद्याधरचक्रवर्तिराज्ये अभिपेचयन्ति । सह तैः प्रदीपधारिभिः अजरामरलीली भवति । महाकल्पस्थायी भवति । उदितादित्यसङ्काशः दिव्याङ्गशोभी विचित्राम्बरभूषितः । त एवास्य किङ्कराः । तैः सार्धं विचरति । सर्वविद्याधरराजास्य दासत्वेनोपतिष्ठन्ते । विद्याधरचक्रवर्ती भवति । चिरञ्जीवी अधृष्यो भवति । सर्वसिद्धानां परमसुभगो भवति । विद्याधरकन्यानां वशेता भवति । सर्वद्रव्यानां बुद्धबोधिसत्त्वांश्च पूजयति । ततो भवति क्षणमात्रेण ब्रह्मलोकमपि गच्छति । शक्रस्यापि न गणयति । किं पुनस्तदन्यविद्याधराणाम् । अन्ते चास्य बुद्धत्वं भवति । आर्यमञ्जुश्रियश्चास्य + + + + + + + + + + + + + + + + + + साधनं भवति । उत्तप्ततरम् । ( वैद्य 59 ) तत एकान्ते गत्वा विगतजने निःसङ्गसङ्गरहिते महारण्यमनुप्रविश्य यत्र स्थाने पद्मसरं सरितोपेतं एकपर्वताश्रितं पर्वताग्रमभिरुह्य एकाक्षरं विद्याराजं मञ्जुश्रीकल्पभाषितं वा तथागतान्यबोधिसत्त्वभाषितं वा अन्यतरं मन्त्रं गृह्य तेषां यथेप्सतः पद्ममूलफलाहारो पयोपयोगाहारो वा विद्या षट्त्रिंशल्लक्षाणि जपेत् । जपान्ते च तेनैव विधिना पूर्वनिर्दिष्टेन ज्येष्ठं पटं प्रतिष्ठाप्य पद्मपुष्पाणां श्वेतचन्दनकुङ्कुमाभ्यक्तानां खदिरकाष्टैरग्निं प्रज्वाल्य पूर्वपरिकल्पितां पद्मां षट्त्रिंशत् सहस्राणि जुहुयात् ॥
ततो होमावसाने भगवतः शाक्यमुनेः पटस्य रश्मयो निश्चरन्ति । ततो साधकमवभास्य मूर्धान्तर्धीयन्ते । समनन्तरस्पृष्टश्च साधकः पञ्चाभिज्ञो भवति । बोधिसत्त्वलब्धभूमिः दिव्यरूपी यथेष्टं विचरते । षट्त्रिंशत्कल्पां जीवति । षट्त्रिंशद्बुद्धक्षेत्रानतिक्रामति । तेषां च प्रभावं समनुपश्यति । षट्त्रिंशद्बुद्धानां प्रवचनं धारयति । तेषां च पूजोपस्थानाभिरतो भवति । अन्ते च बोधिपरायणो भवति । आर्यमञ्जुश्रीकल्याणमित्रपरिगृहीतो भवति । यावद् बोधिनिष्ठं निर्वाणपर्यवसानम् इति ॥
बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रीमूलकल्पान्नवमः पटलविसराद् द्वितीयः उत्तमसाधनोपयिककर्मपटलविसरः परिसमाप्त इति ॥
अथ दशमः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः पुनरपि कर्मसाधनोत्तमं भाषते स्म । इह कल्पराजे अन्यतमं मन्त्रं गृहीत्वा गङ्गामहानदीमवतीर्य नौयानसंस्थितः गङ्गायाः मध्ये क्षीरोदनाहारः त्रिंशल्लक्षाणि जपेत् यथेष्टदिवसैः । ततो जपान्ते सर्वान् नागां पश्यति । ततः साधनमारभे तत्रैव नौमध्ये अग्निकुण्डं कारयेत् पद्माकारम् । ततो नागकेसरपुष्पैः पटस्य महतीं पूजां कृत्वा ज्येष्ठं पटं पश्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वाभिमुखं कुशविण्डकोपविष्टः नागकेसरपुष्पं एकैकं सप्ताभिमन्त्रितं कृत्वा खदिरकाष्ठेन्धनाग्निप्रज्वालिते जुहुयात् । यावत् त्रिंशसहस्राणि श्वेतचन्दनकुङ्कुमपूतानां नागकेसरपुष्पां नान्येषां नागानां दर्शनमवेक्ष्यं सिद्धद्रव्यैश्च प्रलोभयन्ति । न ग्रहीतव्यानि ॥
ततो होमान्ते नौयानेन सार्द्धमुत्पतति । विद्याधरचक्रवर्ती भवति । सर्वनागेन्द्रराजाश्चास्यानुचरा भवन्ति । भृत्या इव तिष्ठन्ते । त्रिंशत्यन्तरकल्पां जीवति । स्वच्छन्दचारी चास्य भवति । अप्रतिहतगतिः आर्यमञ्जुश्रियं साक्षात् पश्यति । स मूर्ध्नि स्पृशति स्पृष्टमात्रश्च पञ्चाभिज्ञो भवति । नियतं बुद्धत्वमधिगच्छति । अपरमपि उत्तमकर्मोपयिकसाधनं भवति । गङ्गामहानदीमवतीर्य एककाष्ठेनैव विल्ववृक्षमयेन नौयानं कृत्वा सुदृष्टं सुकृतं तत्र समाभिरूह्य बिल्वकाष्ठकमयं वाहनं तेनैव तां नौ अनुसाधकेनैव व्यक्तेन निपुणतरेण वाहये गङ्गामहानदीमपरित्यज्य बाहयेत् समन्तात् । तिर्यग् दीर्घं वा । अतो ऽन्यतरं मन्त्रं गृहीत्वा मूलमन्त्रषडक्षरसकृत् अष्टाक्षर एकाक्षरं वा क्रोधदूतीदूत अपरा वा अन्यतरं वा मन्त्रं गृहीत्वा ज्येष्ठं पटं तत्रैव अश्चान्मुखं प्रतिष्ठाप्य आत्मनश्च पूर्वामुखं प्रथमतः पश्चाद् यथेष्टं भवति क्षीरयावकफलाहारो वा उदककन्दमूलफलाहारो वा मौनी त्रिः कालस्नायी त्रिचेलपरिवर्ती शुक्लकर्मसमाचारी सुशुक्लबुद्धिः । प्रथमं तावत् पटस्याग्रतः यथोपदिष्टपूर्वदृष्टविधिः विद्यां षष्टिलक्षाणि जपेत् । ततो जपान्ते नौर्महासमुद्राभिगामिनी भवति ॥
ततो साधकेनोपकरणानि सङ्गृह्य पूर्वस्थापितकानि कुर्यात् तत्रैव नौयाने । ततो महासमुद्रं गच्छता न भेतव्यम् । नापि निवारयितव्या । न च शक्यन्ते निवर्त्तापयितुं वर्जयित्वा साधकशात् ॥
ततो मुहूर्तमात्रेणैव महासमुद्रं प्रविशति योजनसहस्रस्थितापि, किं पुनः स्वल्पमध्वानम् । तत्र प्रविष्टः सरितालये साधनकर्ममारभेत् । खदिरकाष्ठैरग्निं प्रज्वाल्य पूर्वकारिताग्निकुण्डे कुम्भकारकारिते वा मृद्भाण्डे नागकेसरकिञ्जल्काहुतीनां श्वेतचन्दनकर्पूरव्यामिश्राणां स्वल्पतराणां प्रभूततरप्रमाणानां वा षष्टिलक्षाणि जुहुयात् ॥
जुह्वतश्च लङ्कापुरिवासिनो राक्षसा बहुरूपधारिणः हाहाकारं कुर्वन्ताः नागपुरिभोगवतीवासिनाश्च नागराजानः उत्तिष्ठन्ते विविधरूपधारिणो क्रूरतराः सौम्यतराश्च । ते नागराक्षसाश्च एवमाहुः - उत्तिष्ठतु भगवानुत्तिष्ठतु भगवानिति । अस्माकं स्वामी भवत् । एवं असुराः यक्षाः देवाः महोरगाः सिद्धाः सर्वमानुषाश्च प्रलोभयन्ति । नोत्थातव्यं ( वैद्य 61 ) न भेतव्यं च । ततो विद्याधरेण मन्त्रं जपता वामहस्ते तर्जन्या तर्जयितव्या । ततो विद्रवन्ति इतश्चामुतश्च प्रपलायन्ते नश्यन्ति च । ततो होमावसाने सा नौतं साधकं गृहीत्वा क्षणेनाकनिष्ठभवनं गच्छन्ति । अपराण्यपि लोकधातुं गच्छत्यागच्छति च बोधिसत्त्वचित्तविदो भवति पञ्चाभिज्ञः महर्द्धिको भवति महानुभावः । आर्यमञ्जुश्रियं चास्य सततं पश्यति । सर्वनागाः सर्वराक्षसाः सर्वदेवाः सर्वासुराः सर्वसत्त्वा चास्य वश्या भवन्ति । आज्ञाकराः स्थापयित्वा सर्वबुद्धबोधिसत्त्व प्रत्येकबुद्धार्यश्रावकानामिह मन्त्रसिद्धानां च । ते चास्य मैत्रात्मका भवन्ति अनुमन्तारः यावत्सर्वसत्त्वानामधृष्यो भवति ॥
अपरमपि कर्मोपयिकोत्तमसाधनं भवति । बिल्वकाष्ठैर्महता नौयानं कारापये । एककाष्ठदारुसङ्घातैर्वा महतावस्थानं च कुर्यात् । गङ्गामध्यस्थे द्वीपकं तत्रस्थं नौयानं कुर्या । तस्मिंश्च नौयाने विंशोत्तरशतं पुष्पाणां प्रदीपव्यग्रहस्तानां नौयानमभिरूढानां शुक्लाम्बरवसनानां कृतरक्षाणां ज्येष्ठपटपूर्वविधिसंस्थापितकस्याग्रतः संस्थापयेत् । ततो पटस्य महतीं पूजां कृत्वा नागकेसरचूर्णानां कुङ्कुमश्वेतचन्दनकर्पूरव्यामिश्राणां खदिरानले आहूतीसहस्राणि षट्त्रिंश जुहुयात् ॥
ततो होमावसाने सा नौ क्षणमात्रेण ब्रह्मलोकं गच्छति । आगच्छति च । यथेष्टं विचरते । आर्यमञ्जुश्रियं साक्षात् पश्यति । दृष्टमात्रश्च भूमिप्राप्तो भवति पञ्चाभिज्ञः चिरकालजीवी महाकल्पस्थायी महाविद्याधरचक्रवर्तिराजा भवति । ते चास्य प्रदीपधरा सिद्धविद्याधरा भवन्ति । सहायका तैः सार्द्धं यथेष्टं विचरते स्वच्छन्दगामी भवति । बुद्धान्यं भगवतां पूजाभिरतो भवति । अन्ते च बुद्धत्वं नियतं भवति । अपरमपि कर्मोपयिकसाधनोत्तमो भवति ॥
नदीकूले समुद्रकूले वा हिमवन्तगिरौ तथा ।
पर्वते विन्घ्यराजे ऽस्मिं साधयेत् कर्ममुत्तमम्
सह्ये मलये चैव अर्बुदे गन्धमादने ।
तृकूटे पर्वतराजे ऽस्मिं शाधयेत् कर्ममुत्तमम्
महासमुद्रे तथा शैले वृक्षाढ्ये पुष्पसम्भवे ।
एते देशेषु सिध्यन्ते मन्त्रा वै जिनभाषिता
विविक्तदेशे शुचौ प्रान्ते ग्राम्यधर्मविवर्जिते ।
सिध्यन्ते मन्त्रराट् सर्वे तथैव गिरिगह्वरे
प्रान्तशय्यासने रम्ये तथैव जिनवर्णिते ।
दुष्टसत्त्वविनिर्मुक्ते सिध्यन्ते सर्वमन्त्रराट्
धार्मिके नृपे देशे शौचाचाररते जने ।
मातपितृभक्ते च द्विजवर्णाविवर्जिते ।
देवता सिद्धिमायान्ति तस्मिं स्थाने तु नान्यथा
भागीरथीतटे रम्ये युमने चैव सुशोभने ।
सिन्धुनर्मदवक्षे च चन्द्रभागे शुचौ तटे
कावेरी सरस्वती चैव सिता देवमहानदी ।
सिद्धिक्षेत्राण्येतानि उक्ता दशबलात्मजैः
दशबलैः कथिताः क्षेत्राः उत्तरापथपर्वताः ।
कश्मीरे चीनदेशे च नेपाले काविशे तथा
महाचीने तु वै सिद्धि सिद्धिक्षेत्राण्यशेषतः ।
उत्तरां दिशिमाश्रित्य पर्वताः सरिताश्च ये
पुण्यदेशाश्च ये प्रोक्ता यवगोधूमभोजिनः ।
सत्त्वा दयालवो यत्र सिद्धिस्तेषु ध्रुवा भवेत्
श्रीपर्वते महाशैले दक्षिणापथसंज्ञिके ।
श्रीधान्यकटके चैत्ये जिनधातुधरे भुवि
सिद्ध्यन्ते तत्र मन्त्रा वै क्षिप्रः सर्वार्थकर्मसु ।
वज्रासने महाचैत्ये धर्मचक्रे तु शोभने
शान्तिं गतः मुनिः श्रेष्ठो तत्रापिः सिद्धि दृश्यते ।
देवावतारे महाचैत्ये सङ्कश्ये महाप्रातिहारिके
कपिलाह्वये महानगरे वरे वने लुम्बिनि पुङ्गवे ।
सिद्ध्यन्ते मन्त्रराट् तत्र प्रशस्तजिनवर्णिते
गृध्रकूटे तथा शैले सदा सीतवने भुवि ।
कुसुमाह्वये पुरधरे रम्ये तथा काशीपुरी सदा
मधुरे कन्यकुब्जे तु उज्जयनी च पुरी भुवि ।
वैशाल्यां तथा चैत्ये मिथिलायां च सदा भुवि
पुरीनगरमुख्यास्तु ये वान्ये जनसम्भवा ।
प्रशस्तपुण्यदेशे तु सिद्धिस्तेषु विधीयते
एते चान्ये च देशा वै ग्रामजनपदकर्वटा ।
पत्तना पुरवरा श्रेष्ठा पुण्या वा सरिताश्रिता
तत्र भिक्षानुवर्ती च जपहोमरतो भवेत् ।
लपने चाभ्यवकाशे च शून्यमायतने सदा
पूर्वसेवां तु कुर्वीत मन्त्राणां सर्वकर्मसु ।
मध्यदेशे सदा मन्त्री जपेन्मन्त्रं समन्ततः
जापप्रवृत्तो सदायुक्तंः त्यागाभ्यासात् मन्त्रवित् ।
शीलाचारसुसत्यश्च सर्वभूतहिते रतः
श्राद्धो मन्त्रचर्यायां पूर्वमेव जपे व्रती ।
शुचौ देशे सुक्षेत्रे म्लेच्छतस्करवर्जिते
सरीसृपादिषु सर्वेषु वर्जितं च विरिष्यते ।
फलपुष्पसमोपेते प्रशस्ते निर्मलोदके
सर्वे मन्त्रविन्मन्त्रं नान्यदेशेषु कीर्त्यते ।
देवालये श्मशाने वा एकस्थावरलक्षिते
एकलिङ्गे तथा प्रान्ते सर्वे मन्त्रं तु मन्त्रवित् ।
आत्मरक्षां सखायां तु कृत्वा वै स पुरश्चरी
मन्त्रयुक्तो सदा मन्त्री सेवेन्मन्त्रमुत्तमम् ।
महारण्ये महावृक्षे कुसुमाढ्ये फलोद्भवे
+ + + + + + + + + + + + + + पर्वताग्रे तु निम्नगे ।
उदकस्थाने शुचौक्षे च महासरित्तटे वरे
सेवेत मन्त्रं मन्त्रज्ञो स्थानेष्वेह + + + + ।
प्राग्देशे च लौहित्ये महानद्ये नदीशुभे
कामरूपे तथा देशे वर्धमाने पुरोत्तमे ।
यत्रासौ निम्नागा श्लिष्टातिपुण्याग्रसरिद्वरा
तस्मिं स्थाने सदाजापी भजेत सुविगां शुचिः ।
पूर्वसेवं तु तस्माद्वै कुर्यात्सर्वकर्मसु
गङ्गाद्वारे तथा नित्यं गङ्गासागरसङ्गमे ।
शुचिर्जपेत् मन्त्रं वै प्रयोगे चैव सव्रतः
महाश्मशानान्येतानि जापी तत्र सदा जपेत् ।
विमलोदकानि सरितानि कृमिभिर्वर्जितानि च
अतएव जपी तत्र जपेन्मन्त्रं समाहितः ।
न पुण्यं तत्र वै किञ्चिद् दृश्यते लोकचेष्टितम्
किन्तु मन्त्रापदेशेन किञ्चित्कालं वसेत वै ।
अन्यत्र वा ततो गच्छे समये सोमग्रहे त्रवत्
समयप्राप्तो वसत्तत्र किञ्चित्कालं तु नान्यथा ।
अन्यत्र वा ततो क्षिप्रं गच्छे शक्ता तु मन्त्रवित्
सुगतध्युषितचैत्येषु भूतलेषु सदा वसेत् ।
लोकतीर्थानि सर्वाणि कुदृष्टिपतितानि च
अन्यानि तीर्थस्थानानि मन्त्रविद् वर्जये सदा ।
न वसेत् तत्र मन्त्रज्ञो कुहेतुगतिमुद्भवाम्
आक्रान्तं जिनवरैर्यस्तु भूतलं प्रत्येकखड्गिभिः ।
बोधिसत्त्वैर्महासत्त्वैः श्रावकैर्जिनवरात्मजैः
तानि सर्वाणि देशानि सेवेन्मन्त्रविन्मन्त्रजापी ।
पूर्वमेवं प्रयत्नेन तस्मिं स्थाने सदाचरे
विधिदृष्टेन मन्त्रज्ञो जपेन्मन्त्रं पुनः पुनः ।
पापं ह्यशेषं नाशयति जपहोमैश्च देहिनाम् ।
तस्मात् सर्वप्रयत्नेन जपेन्मन्त्रं सुसमाहितमिति
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0