भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 50

50.1

आर्यमञ्जुश्रियमूलकल्पात् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् सप्तचत्वारिंशतिमः पटलविसरात् तृतीयः चतुःकुमार्योपयिकसर्वसाधनजपनियममुद्राओषधितन्त्रमन्त्रसर्वकर्मपटलविसरं परिसमाप्त इति ॥
अथ पञ्चाशः पटलविसरः ।
अथ खलु भगवां वज्रपाणिर्यक्षसेनापतिः तस्यां पर्षदि सन्निपतितो ऽभूत् । सन्निषण्णः उत्थायासनादेकांशमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य स येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - यो हि भगवं मञ्जुश्रिया कुमारभूतेन क्रोधराजा यमान्तको नाम भाषितः तस्य कल्पं विस्तरशो भगवता न प्रकाशितम् । नापि मञ्जुश्रिया कुमारभूतेन । अहं भगवं पश्चिमता जनतामवेक्ष्य भगवता परिनिर्वृते शासनान्तर्धानकालसमये वर्तमाने महाभैरवकाले युगाधमे सर्वश्रावकप्रत्येकबुद्धविनिर्मुक्ते बुद्धक्षेत्रे तथागतशासनसंरक्षणार्थं धर्मधातुचिरस्थित्यर्थं सर्वदुष्टराज्ञां निवारणार्थं रत्नत्रयापकारिणां निग्रहार्थं वैनेयसत्त्वकौशलाचिन्त्यबोधिसत्त्वचर्यापरिपूरणार्थं अचिन्त्यसत्त्वपाकमभिनिर्हरणार्थं च पश्चिमे भगवं काले पश्चिमे सुगतसमये शासनविप्रलोपे वर्तमाने य इमं यमान्तकं नाम क्रोधराजानं यथाविधि कल्पविनिर्दिष्टं प्रयोक्ष्यति तस्य सिद्धिः भविष्यति । नियतं च दुष्टराज्ञां शासनापकारिणां च सत्त्वानां महायक्षाणां महोत्साहिनां निग्रहानुग्रहप्रवृत्तानां महाकरुणाविरहितानां तेषामयं क्रोधराजा प्रयोक्तव्यः नान्येषाम् ॥
अथ भगवां तूष्णीम्भावेन बुद्धविकुर्वणाधिष्ठानं नाम समाधिं समापद्यते स्म । मञ्जुश्रीः कुमारभूतो ऽपि तूष्णीम्भावेन स्थितो ऽभूत् । सर्वावन्तश्च पर्षन्मण्डल षड्विकारं प्रकम्पमजायत ।
भीताश्च देवसङ्घा उक्त्रस्ताः सर्वबालेशाः ।
सर्वदेवाश्च नागाश्च दानवेन्द्राः समातराः

50.2

सर्वे च ग्रहमुख्याद्या देवसङ्घाः प्रकम्पिरे ।
मानुषा प्रकम्पे भिन्नमनसो दुष्टचित्ताश्च पूतनाः

50.3

आर्त्ता भीताः ततस्ते वै रौद्रचित्ता नराधिपाः ।
शरणं ते तदा जग्मुः धर्मराजस्य शासनम्

50.4

गुह्यकेन्द्रस्य यक्षस्य वज्रपाणिमहाद्युतेः ।
मञ्जुघोषस्य ते भीताः कुमारस्यैव मन्त्रराट् ।
समयं च तदा चक्रे मञ्जुघोषस्य अन्तिके

50.5

परित्रायस्व भो बाल सर्वसत्त्वानुकम्पक ।
निर्दहिष्यामि नो अद्य क्रूरकमन्त्रैः सुदारुणैः ।
क्रोधेन मूर्च्छिता ह्यद्य प्रतिष्ठाम महीतले

50.6

ततस्तां बोधिसत्त्वा वै बालरूपी महाद्युतिः ।
मा भैष्ठथ सुराः सर्वे यक्षराक्षसदानवा

50.7

समयं वो मया ह्युक्तः अलङ्घ्यः सर्वदेवतैः ।
मानुषामानुषाश्चापि सर्वभूतैस्तु केवलैः

50.8

मैत्रचित्त सदा भूत्वा तन्मन्त्रं स्मरते सदा ।
सम्बुद्धं द्विपदामग्र्यं शाक्यसिंहं नरोत्तमम्

50.9

तेनैव भाषितं मन्त्रं उष्णीषाद्याः सलोचनाः ।
त्रैलोक्यगुरवश्चकी तेजोराशिं जयोद्भवम्

50.10

विजयोष्णीषमन्त्राद्यां पद्मपाणिं सलोकितम् ।
अवलोकितनाथं च भृकुटी तारां यशस्विनीम्

50.11

देवीं च सितवासिन्यां महाश्वेता यशोवतीम् ।
विद्यां भोगवतीं चापि हयग्रीवश्च मन्त्रराट्

50.12

एते ह्यब्जकुले मन्त्रा प्रधाना जिननिःसृता ।
एकाक्षरश्चक्रवर्ती वा मन्त्राणामधिपतिं प्रभुम्

50.13

स्मृत्वा देवदेवं च मन्त्रनाथं महाद्युतिम् ।
क्रोधमप्रभवो तस्य यमान्तो नाम नामतः

50.14

अवलोकितनाथस्य चेतांसि करुणोदयाः ।
महाकरुणाकृष्टमनसो पूर्वबुद्धैः प्रकाशिता

50.15

सा तारा तारयते जन्तूं अवलोकितभाषिता ।
विद्या समाधिजा आर्या स्त्र्याख्या संज्ञारूपिणी

50.16

बोधिसत्त्वो ऽथ चरते बोधिचारिकमुत्तमाम् ।
लोकधातुसहस्राणि असङ्ख्या बहुधा पुनः

50.17

पर्यटन्त तदा देवी सत्त्वानां हितकारणा ।
स्त्रीरूपधारिणी भूत्वा मन्त्ररूपेण देहिनाम्

50.18

विधिनेयतदां सत्त्वां बोधियानेति योजयेत् ।
चर्या बोधिसत्त्वानां अचिन्तेयं प्रकाशिता

50.19

वज्रपाणिं तथा वीरं मन्त्राणामधिपतिं स्मरेत् ।
मामकीं कुलन्दरीं देवीं त्रैलोक्यप्रतिपूजिताम्

50.20

शङ्कुला मेखलां चैव वज्रमुष्टिं यशस्विनीम् ।
क्रोधेन्द्रतिलकं शत्रुं नीलदण्डं सभैरवम्

50.21

एते दूतिगणाः क्रोधाः विद्याध्यक्षाः प्रकीर्तिताः ।
प्रधानां वज्रकुले सर्वे अस्मद्रक्षिता हि ते

50.22

गजगन्धं तथा लोके बोधिसत्त्वं महर्द्धिकम् ।
महास्थानगतं धीमं बोधिसत्त्वं महर्द्धिकम्

50.23

ज्येष्ठं तनयमुख्यं तु समन्तभद्रं सुशोभनम् ।
यः स्मरेत् तदा काले भयं तेषां न विद्यते

50.24

माणिभद्रं तथा नित्यं जम्भलं यक्षमुत्तमम् ।
सर्वश्रावकप्रत्येकं बुद्धानां च कुतो भयम्

50.25

स्मरणात् पूजनात् तेषां महारक्षा प्रकीर्त्तिता ।
बृहत् फलं तदा देवां पुण्याभां च असंज्ञका

50.26

स्त्रीरूपधारिणां देवीं वीतरागां महर्द्धिकाम् ।
रत्नत्रये च पूजां वै प्रसन्ना जिनशासने

50.27

तेषां न विद्यते किञ्चित् मित्रामित्रभयं यदा ।
समयं तत्र इत्युक्तः अलङ्घ्यं सर्वमन्त्रिभिः

50.28

एतत् क्रोधवरे ख्यातं यमान्तस्यैव वर्णिते ।
समये च स्थितां सत्त्वां अभक्षाः सर्वमानुषाः

50.29

ततस्ते हृष्टमनसः सर्वे देवा ह्यमानुषाः ।
समये तस्थिरे सर्वे जिनपुत्रानुबुद्धिना

50.30

यक्षसेनापतिः क्रुद्धः वचनं चेत् पराभवम् ।
सम्प्रकम्प्य तदा सर्वां लोकधातुमसङ्ख्यकाम्

50.31

निरर्थं क्रोधराजं तु किमर्थमिदं प्रकाशितम् ।
जिनपुत्रैस्तदा पूर्वं सत्त्वानां विनयकारणात्

50.32

प्रभावं क्रोधराजस्य उद्यष्टं च पुरातनम् ।
एवमुक्तास्ततो वज्री वज्रं निक्षिप्यं तस्थुरे

50.33

ततः प्रहस्य मतिमां बालरूपी महर्द्धिकः ।
कुमारो मञ्जुघोषो वै इमां वाचमुदीरयेत्

50.34

मा प्रदुष्य महायक्ष वज्रपाणि महर्द्धिक ।
मया प्रकाशितो ह्येष क्रोधराजो महर्द्धिकः

50.35

तवैव मन्त्रं दास्यामि यथेच्छं सम्प्रकाशय ।
त्वया न शक्यं क्रोधस्य प्रभावं परिकीर्तितम्

50.36

तयैव संस्थितो ह्येष देहस्थ इह दृश्यते ।
आकृष्टः तेन वै तुभ्यं हृदयं ते यदि पृच्छसि

50.37

न शक्यं निवर्त्तितुं ह्यत्र क्रोधाविष्टो हि वै प्रभो ।
यथेच्छं सम्प्रकाशयस्व समयं त्यक्त्वानुमन्यतः

50.38

अस्नाते प्रसुप्ते च ग्राम्यधर्मानुवर्त्तिते ।
तैलाभ्यक्ते अरक्षे च दुष्टचित्तेषु वा सदा

50.39

त्यक्तो मन्त्रवरैः सर्वैः अप्रसन्नेषु शासने ।
वैचिकित्सो तथा मर्त्यो अश्राद्धेषु दुःस्थिते

50.40

सद्धर्मरत्नसङ्घे च प्रतिक्षेप्तव्याः समाहिते ।
नग्नके च सदोच्छिष्टे अशुच्याचारगोचरे

50.41

अगुप्ते ह्यमन्त्रयुक्ते च नित्योच्छिष्टे हि निर्घृणे ।
देवावसथचैत्येषु विहाराङ्गणमण्डले

50.42

मैथुनाभिरता तत्र तेषां क्रोधो विनाशयेत् ।
समयभ्रष्टा प्रसन्नाश्च मन्त्रयुक्तिमजानका

50.43

इषिस्खलितगताचारा तेषां क्रोधो निपातयेत् ।
सर्वेषां मानुषां लोके अप्रमादो न विद्यते

50.44

प्रमादमभिरागिन्यः समयभ्रंशानुच्छिद्रिणे ।
हन्यन्ते क्रोधराजेन अप्रयुक्तैस्तु मन्त्रिभिः

50.45

सर्वथा बालिशाः सर्वे प्रमादा वशगामिनः ।
वीतरागां सदा मुक्त्वा प्रत्येकार्हश्रावकाम्

50.46

सर्वे वै क्रोधराजस्य वध्या दण्ड्याश्च सर्वतः ।
एवमुक्तास्तु मञ्जुश्री करुणाविष्टेन चेतसाम्

50.47

अचिन्त्यं चर्यबुद्धानां बोधिसत्त्वां महर्द्धिकाम् ।
एवमुक्त्वा ततः सर्वां तूष्णीम्भूतो हि तस्थुरे

50.48

अथ वज्रधरः श्रीमां भूयो वज्रं परामृशेत् ।
गृह्य वज्रं तदा तुष्टो लब्ध्वानुज्ञां प्रभाषत इति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc