मञ्जुश्रीमूलकल्प · अध्याय 51
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् अष्टचत्वारिंशत्तमः यमान्तकक्रोधराजपरिवर्णनमन्त्रमाहात्म्यनियमपटलविसरः परिसमाप्त इति ॥
अथ एकपञ्चाशः पटलविसरः ।
अथ खलु वज्रपाणिर्गुह्यकाधिपतिः सर्वावन्तं महापर्षन्मण्डल मवलोक्य सर्वांस्तां शुद्धावासोपरिनिषण्णां भूतसङ्घानामन्त्रयते स्म । शृण्वन्तु भवन्तो मार्षा यमान्तकस्य क्रोधराजस्यापरिमितबलपराक्रमस्य दुर्दान्तदमकस्य वैवस्वतजीवितान्तकरस्य दुष्टसत्त्वनिग्रहतत्परस्य महाबोधिसत्त्वस्य मञ्जुश्रियभाषितस्य महाबोधिसत्त्वस्यादौ तावत् पटविधानं भवति ॥
न तिथिर्न च नक्षत्रं नोपवासो विधीयते ।
अरीणां भयमुत्पन्ने पटमेतं लिखापयेत्
गृह्य कृष्णे निशापक्षे चतुर्दश्याष्टमौ तिथौ ।
श्मशाने मृतकं प्राप्य ब्राह्मणस्य अम्बरं तम्
गृह्य ततो रात्रौ असृणां रङ्गयेत् ततः ।
भूयो जलशौचं तु सुशुष्कं कारयेत्ततः
क्रूरं चित्रकरं क्रुद्धं भीषणे चापि लेखयेत् ।
श्मशाने कृष्णपक्षे च त्रिरात्रेणैव समापयेत्
अष्टमीं चतुर्दशीरात्रौ महावसादीपदीपितः ।
तत्र स्थितः चित्रकरः दक्षिणाभिमुखः सदा
कपाले मानुषासीने कृतरक्षः समाहिते ।
स्वयं वा आलिखेन्मन्त्री अरिदुःखभयार्दितः
प्रथमे रात्रिमारब्धे अरीणो ऽपि महद् भयम् ।
द्वितीये महाज्वरेणापि आविष्टः शत्रुमूर्च्छितः
तृतीये मुञ्चते प्राणां परलोकगतो भवेत् ।
कुतस्तस्य भवेच्छान्ति अप्रसन्नेन मन्त्रिणा
देहं शुष्यति शत्रोर्वै गृहभङ्गोपजायते ।
लिखनात् पटमेवं तु यमान्तस्य महाभये
पण्मुखं षट्चरणं लेख्यं कृष्णवर्णं वृकोदरम् ।
....... क्रुद्धं व्याघ्रचर्मनिवसनम्
नानाप्रहरणं घोरं दण्डहस्तं भयानकम् ।
रक्तनेत्रं सरोषं च त्रिनेत्रगतिचिह्नितम्
ऊर्ध्वकेशं सजालं वै धूम्रवर्णं क्वचित् तथा ।
कृष्णाञ्जननिभं घोरं प्रावृण्मेधसमप्रभम्
कृतान्तरूपसङ्काशं महिषारूढं तु आलिखेत् ।
क्रूरकर्मं महाभीमं रौद्रं रुद्रघातकम्
यमजीवितनाशं वै उद्यन्तं सत्त्वघातकम् ।
क्रूरं भृशं सर्वकर्माणं भीषणापतिदारुणम्
भयस्यापि भयत्रासं मारकं सर्वदेहिनाम् ।
एतत् क्रुद्धवरं लिख्य आत्मशोणितवर्णकैः
व्यतिमिश्रमुज्ज्वलैर्लेख्य महावसागव्यमिश्रितैः ।
कपालभाजनैश्चापि मानुषास्थिसुसम्भवैः
कूर्चकैर्वर्किकैर्मुक्तो मृतकेशसुसम्भवैः ।
अभुञ्जानस्तथालिख्य स्वयं वा चित्रकरेण वा
प्रभूतबलिपुष्पाद्यैः रक्तमाल्यैर्वरचन्दनैः ।
महामांसवसाधूपैर्वसादीपैश्च भूषितम् ।
कारयेत् पटवरमादौ अन्ते मध्ये च पूजना
परिस्फुटं तु फटं कृत्वा वित्तं दत्त्वा तु शिल्पिने ।
प्रभूतं चापि मूल्यं वै येन वा तुष्यते सदा ।
अवध्यं तस्य कर्तव्यं धर्मं चापि सहाभयम्
यथेप्सितं तस्य कुर्वीत वीरमूल्यं समासतः ।
सफलं शिल्पिने कर्म निरामिषं चापि वर्जयेत्
तथा तथा प्रयुञ्जीत यथासौ सम्प्रतुष्यते ।
महारक्षा च कर्तव्या अन्यथा मृयते ह्यसौ
सकुटुम्बो नश्यते कर्मी आत्मनश्चापि रक्षयेत् ।
जप्तविद्येन कर्त्तव्यं नान्येषां विधिरुच्यते
परिस्फुटं तु पटं कृत्वा दृष्ट्वा वा मनसेप्सितम् ।
सर्वां च कारयेत् कर्मां रौद्रां शत्रूपघातकाम्
गृह्य पटवरं गच्छेद् यथेष्टं यत्र वाञ्छितम् ।
महायक्षां महाराज्ञां महावित्तसगर्विताम्
महामानातिमानानां क्रूरां क्रूरकर्मिणाम् ।
रत्नत्रयापकारीणां नास्तिक्यां मन्त्रवर्जिताम् ।
अपूजकानां तु मन्त्राणां तद्भक्तासृतनिन्दकाम्
जापिनां निन्दका ये च तेषां चैव पराभवा ।
तेषां प्रयोगः कर्त्तव्यः विधिदृष्टेन कर्मणा
अधर्मिष्ठां तथा नित्यां सर्वसत्त्वानुतापिनाम् ।
तेषां तु कर्म प्रयुञ्जीत सद्यः प्राणोपरोधिनम्
गृह्यारिष्टफलं पत्रं त्वचं चापि समूलतः ।
काञ्जिकं आम्लसंयुक्तं मानुषास्थिसचूर्णितम्
कटुतैलविषं चैव अम्लवेतसमार्द्रकम् ।
राजिकं रुधिरं चैव मानुषोद्भवसम्भवम्
गृह्य सर्वं समायुक्तं पटं स्थाप्य विवेकतः ।
दक्षिणाभिमुखो भूत्वा पटश्चापि उदङ्मुखः
कृत्वाग्निकुण्डं यथेष्टं वै शुक्लकाष्ठैः कटुमुद्भवैः ।
ज्वालयं कटकैश्चापि तस्मिं कुण्डे समाहितः ।
पुह्यात् सर्वसमायुक्तं विधिनिर्दिष्टहौमिकम्
अग्निराहूय मन्त्रैस्तु क्रोधराजस्य वै पुनः ।
बद्ध्वा शूलमुद्रं तु सर्वकर्मेषु वा इह
सहस्राष्टमाहुतिं दद्यादग्निकुण्डे सरोषतः ।
प्रथमे पुत्रमरणं सत्त्वे प्राप्ते तु तं भवेत्
द्वितीये चापि भार्या वै पार्षद्याः सनायकाः ।
तृतीये मरणं तस्य यस्योद्दिश्यं हि तत् कृतम्
अर्धरात्रे यदा जापः क्रियते पटसन्निधौ ।
शत्रूणां च वधार्थाय तत् तथैवानुवर्तते
राष्ट्रभङ्गं भवेत् तस्य सेनायां मारिसम्भवम् ।
अग्निदाहं महावातं महावृष्टिश्च जायते
समस्तं सर्वतश्चक्रं परचक्रेण हन्यते ।
विविधोपद्रवा तस्य महाव्याधिसमाकुलम्
देहं शुष्यति सर्वं वै तस्य राज्ञो न संशयः ।
अमानुषाकीर्ण सर्वन्तं गृहं तस्य समाकुलम्
धृतिं न लभते शय्यां आवर्तं च महीतले ।
राक्षसैः प्रेतक्रव्यादैः गृहं तस्य समावृतम्
आर्त्तो बिभेति सर्वत्र तीव्रदुःखैः सुदुःखितः ।
अशक्ता रक्षितुं तस्य महेश्वराद्या भुवि देवता
ब्रह्माद्या लोकपालाश्च शक्राद्या त्रिदशेश्वराः ।
सर्वमन्त्राः सर्वदेवाश्च सर्वलौकिकसम्भवा
दुष्टारे मानिने क्रुद्धे तदन्तं तस्य जीवितम् ।
अर्धरात्रे तु मध्याह्ने भाषितो यत्र जापिनः ।
क्रुद्धो वेवस्वतः साक्षाद् यमराजावकल्पते
यथेष्टं कृष्णपक्षे च पटं संस्थाप्य महीतले ।
महतिं पूजां बलिं कृत्वा श्मशानारण्यसम्भवे
एकवृक्षे तथा लिङ्गे शैले प्रान्ते गुहासु वा ।
एकाकी अद्वितीयश्च सदा कर्म समारभेत्
महारण्ये विविक्ते च शून्ये देवकुलेषु च ।
शून्ये मन्दिरे नद्यां अम्बुधेः तटमाश्रिते
तत्र देशे समीपे वा तत्रस्थे वा यथेप्सितम् ।
योजनाशतमभ्यन्तर सदा कर्माणि कारयेत्
एतत् प्रमाणकर्माणि कारयेच्छुचिना सदा ।
अप्रमेयस्थितो वापि गतदेशामितः शुचिः
अचिन्त्यमन्त्रविषये अचिन्त्यं मन्त्रगोचरम् ।
अचिन्त्यो ऋद्धिमन्त्राणां अचिन्त्यं सिद्धिजापिनाम् ।
अचिन्त्यं दृश्यते कर्म फलं चापि अचिन्त्यकम्
क्रोधराजस्य यमान्तकस्य महात्मने ।
कर्मं ऋद्धिविषयं विकुर्वणं च महोदयम् ।
अचिन्त्यं रूपिणां सिद्धि दृश्यते ह महीतले
अशक्ता रक्षयितुं सर्वे बोधिसत्त्वा महर्द्धिकाः ।
किं पुनर्लोकिका मन्त्राः सग्रहा मातराश्च ताः
ईशानश्च सविष्णुर्वा स च स्कन्दो पुरन्दरः ।
समये धारिता ते ऽपि सजिना जिनपुत्रकाः
बोधिसत्त्वा महात्मानो दशभूमिसमासृताः ।
प्रत्येकबुद्धा ह्यर्हन्त वीतरागा महर्द्धिकाः ।
अशक्ता रक्षयितुं ते ऽपि समयं तैः पुरा कृतम्
संक्षेपेण तु वक्ष्यामि शृणुध्वं भूतकांक्षिणा ।
नान्यो निवर्त्तने शक्तः अप्रसन्नेन जापिने ।
कुतस्तस्य भवेच्छान्तिरतुष्टे मन्त्रवरे इह
यदा प्रसन्नमनसः करुणार्द्रा व भवेत् कदा ।
जापिनः क्रोधराजस्य यमान्तस्य महात्मने ।
तदादौ लभते शान्तिं धृतिं वा जीवधारणम्
पिचुमन्दं कटुतैलं च काञ्जिकं विषपञ्चमम् ।
रुधिरं मानुषं मांसं लवणं त्रिकटुकं पुनः
राजिकं शङ्खचूर्णं च अम्लवेतसमार्द्रकम् ।
धुर्धूरकस्य तु मूलानि कोशातक्या तथैव च
एरण्डमूलं यवक्षारं कुसुम्भं चापि कण्टकम् ।
मदनोद्भवमूलं च लशुनं गृञ्जनकं तथा
पलाशशाखोटकं चैव ससुरासवा ।
सर्वान्येतानि समं कृत्वा जुहुयात् अग्नौ पटसन्निधौ
हुते सहस्रमष्टे तु शत्रुनाशः समूलतः ।
सर्वां वा राजिकां हन्या पारिषद्यां शुभाशुभाम्
समूलोद्धरणं तस्य द्वितीये सन्ध्ये तु जुह्वता ।
तृतीये समनुप्राप्ते सन्ध्ये जुह्वत जापिना
दुर्भिक्षं भवते तस्य जने चापि सनैगमे ।
अनावृष्टिमहामार्यः राक्षसाकीर्णसर्वतः
अग्निदाहं शिलापातं वज्रनिर्घातसाशनिः ।
जनपदं देशविषयं वा यवाः तस्य नराधिपे
बह्नोपद्रवसम्पातं वरचक्रागमं तथा ।
अनेकधा बहुधाश्चापि तस्य देशे उपद्रवाः ।
जायन्ते विविधाकाराः महालक्ष्मीप्रणाशनैः
धुर्धूरकमूलं जुहुयादेकं उन्मत्तिस्तस्य जायते ।
कटुकं जुह्वतो नित्यं महादाहेन गृह्यते ।
अत्यम्लं जुह्वतो मग्नौ महाज्वरं शीतसम्भवम्
सम्भवेत् तस्य देहस्थः दुष्टराज्ञां बलगर्विताम् ।
महायक्षां धनिनां क्रूरां महासैन्यसमासृताम् ।
द्विरात्रे सप्तरात्रे वा मरणं तस्य जीवितम्
यो यस्य देवताभक्तः नक्षत्रो वा नामतो लिखेत् ।
श्मशानाङ्गारैः कृतिं कृत्वा पटस्याग्रतभूसृतम् ।
आक्रम्य पादतो मूर्ध्ना सङ्क्रुद्धो जपमाचरेत्
अकस्माद् विविधैः शूलैः गृह्यते ऽसौ नराधिपः ।
महाव्याधिसमाक्रान्तः मृयते वापि तत्क्षणात्
पशुना हन्यते चापि व्यङ्गो वा भवते पुनः ।
भक्ष्यते राक्षसै क्रूरैः कश्मलामानुषोद्भवैः
क्रव्यादैः पूतनैश्चापि पिशाचैः प्रेतमातरैः ।
तत्क्षणाद्धन्यते चापि आत्मनश्चापि सेवकैः
अथ वज्रधरः श्रीमां इत्युक्त्वा परिषेत्तदा ।
सर्वबुद्धां नमस्कृत्य तूष्णीम्भूतो ततः स्थिरे
लोकानां हितकाम्यार्थं पुनरेवमुमूचत ।
सर्वां यक्षगणां मन्त्रः यक्षीणां च स सर्वतः
उवाच बोधिसत्त्वो वै यक्षसेनापतिस्तदा ।
यक्षीणां पटलं वव्रे सर्वकर्मोपसंहितम् ।
सर्वाकर्षं वशं चैव सर्वशल्याननुद्धरम्
मैथुनार्थी यदा मन्त्री रागान्धो वाथ मूढधीः ।
न शक्य प्रतिपक्षेण सुगताज्ञैर्निवारितुम्
अनादिमति संसारे पुराभ्यस्तं सुदुःखितैः ।
दुःखा दुःखतरं तेषां गतिरुक्ता तथागतैः
शोभनां गतिमाप्नोति ब्रह्मचारी जितेन्द्रियः ।
भद्रं शिवं च निर्दिष्टमन्त्रे शान्तिमवाप्नुयात्
त्रियानसमतारूढः माप्नुयान्ते सुनिर्वृतिम् ।
विपरीताः कुगतिग्रस्ता ये रागान्धा तपस्विनाम् ।
संसारगहने घोरे भ्रमन्ति गतिपञ्चके
तेषां दुःखितामर्थे कामभोगं तु वर्ण्यते ।
ते निर्वृता सर्वपापा तु त्रिधा दोषनिवर्तिता ।
शास्तुराज्ञासमाविष्टा मुच्यन्ते सर्वबन्धना इति
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0