मञ्जुश्रीमूलकल्प · अध्याय 46
आर्यमञ्जुश्रीमूलकल्पात् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् सर्वतथागताचिन्त्यधर्मधातुमुद्रामुद्रिता त्रिचत्वारिंशतिमः स्वचतुर्थो मुद्रापटलविसरः ।
अथ षट्चत्वारिंशः पटलविसरः ।
अथखलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु त्वं मञ्जुश्रीः पञ्चममुद्रापटलविसरं त्वदीयं सर्वतथागतधर्मकोशानुप्रविष्टं परमगुह्यतमं धर्मधात्वसंख्येयाचिन्त्यमुद्रामुद्रितं सर्वमन्त्रचर्यानुप्रविष्टं परमरहस्यतमं सर्वलोकोत्तरोत्कृष्टतमं सर्वलौकिकानुचरितां मोद्यतमं कतमं च तद् भाषिष्ये ऽहम् । पूर्वं तथागतैः भाषितवन्तः ॥
अथ मञ्जुश्रीः कुमारभूतो बोधिसत्त्वो महासत्त्वः पुनरपि उत्थायासनाद् भगवतः चरणयोर्निपत्य भगवन्तमेतदवोचत् । तत् साधु भगवां देशयतु सर्वमन्त्रचर्यानुप्रविष्टां सर्वसत्त्वानामर्थाय अस्माकं चानुकम्पामुपादाय महाप्रणिधानमहानिर्हारमहाबोधिमण्डोपसङ्क्रमणचर्यापरिपूरणताय पञ्चमं महामुद्रापटलविसरं संक्षेपतः पञ्च चैव महामुद्राः । अपर्यन्ता च स्थितमुद्रां आह्वाननविसर्जनसर्वकर्मार्थसर्वमनोरथमाशापारिपूरणतायै सर्वमन्त्रतन्त्रमहामुद्रानुप्रवेशनतायै सर्वसत्त्वसन्तोषणमहासमयसर्वमुद्रानुप्रवेशनतायै यस्येदानीं कालं मन्यश्चेति ॥
एवमुक्तस्तु भगवतो शाक्यसिंह नरोत्तम ।
मञ्जुप्रतिभो धीमां तूष्णीं तस्थौ तदान्तरे
इयं वसुमती कृत्स्ना षड्विकारं प्रकम्पिरे ।
सर्वभूतगणा त्रस्ता क्षुभितं चापि ऋषालयाः
तृधातुगतयः सत्त्वास्तत्क्षणादेव मागताः ।
दृष्ट्वा आगतां सत्त्वा वव्रे वाणी ऋषिसत्तमः
शाक्यकुलजो दक्षः मुद्रां देशे तु तत्क्षणात् ।
यं बद्ध्वा पुरुषा प्राज्ञा नियतं बोधिपरायणाः
सर्वमन्त्राश्च सिद्धेयु सौगता ये च लौकिका ।
पञ्च चैव महामुद्रा बद्धा मुनिवरैः पुरा
अधुना शाक्यमुद्देक्ष्यः बद्ध्वैता तृभवालये ।
स्वयमेव भगवां शास्तु हस्तोत्तानतां कृथा
वेणिकाकारमावेष्ट्य मध्यमाङ्गुलि नामयेत् ।
कन्यसौ संस्पर्शयेद् धीमां उभा अङ्गुष्ठ उच्छ्रये
अङ्कुञ्च्यमञ्जल्याकारं दर्शयेन्मञ्जुरवेहिताम् ।
एषा मुद्रा महामुद्रा सर्वबुद्धानुवर्णिनी ।
सर्वथा साधिता देवी पूर्णेति च गीयते
तदेव हस्तौ भ्रामयित्वा तु नाभिदेशे तु संन्यसेत् ।
आशासम्पादिनी क्षिप्रं महापुण्या हिता हि सा ।
मनोरथेति समाख्याता दुर्दान्तदमनी सदा
तदेव हस्तौ संन्यस्य मुष्टियोगेन वेष्टयेत् ।
उरः स्थाने सदा न्यस्या तृतीया भवति सुनिर्मला
चतुर्थी तु भवेत् सा तु शिरःस्थाने सुमुद्रया ।
पञ्चमी तु भवे ज्येष्ठा मुक्ता सर्वगतां नु गुणान्
लोकधात्री तु सा ज्ञेया प्रसिद्धा सर्वकर्मसु ।
एष एव सदायोगः प्रयोक्तव्यः सर्वकर्मसु
आकृष्टावङ्गुलितर्जन्यौ आकृष्य वश्यता हिता ।
विक्षिप्तैर्विसर्जनं कुर्यात् मनसा मोक्ष एव तु ।
सर्वे दर्शयेत् क्षिप्रं सर्वकर्मार्थसाधयोदिति
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0