भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 42

42.1

बोधिसत्त्वपिटकावतंसकान् महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाद् एकूनचत्वारिंशतिमो गरुडपटलपरिवर्तः ।
अथ द्विचत्वारिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रये स्म । अस्ति मञ्जुश्रीः त्वदीयसर्वसाधनोपयिकमण्डलविधाने सर्वमन्त्रतन्त्रेषु मुद्रापटलसमयरहस्यम् यैः सर्वसन्त्रासमयं नातिक्रमन्ति, समयसञ्चोदितमनुप्रविष्टा भवन्ति सर्वलौकिकलोकोत्तरमण्डलेषु सामान्यसाधनोपयिकसर्वमन्त्रतन्त्रेषु सर्वे सुदह्येते परमरहस्यतमा परमसौभाग्यतमा परमाश्चर्याद्भुततमाः । यैर्विना न शक्यन्ते सर्वमन्त्रा आराधयितुं साधयितुम् । पूर्वं सर्वतथागतैर्भाषितवन्तः । एतर्हि अहं च भाषिष्ये सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय सर्वमन्त्रजापिनां महामन्त्रको शनित्यौत्सुक्यधर्मधात्वचिन्त्यमहायाननैरात्म्यधर्ममेघमनुप्रवेशनतायै कतमं च तत् भाषिष्ये ऽहम् ॥
शृणु मञ्जुरव सर्वगुह्यमुद्रासमोदिताम् ।
यथा तथा स्वयं वाच्यं पुरा गीतमृषिसत्तमैः

42.2

कृत्स्नमुद्रागणं ह्यग्रं गुह्यमन्त्रार्थिनां सदा ।
सर्वकालेषु योज्येदं सर्वकर्मेषु मण्डले

42.3

अथ मञ्जुरवः श्रीमां विहसन् पङ्कजेक्षणः ।
निरीक्ष सुगतं श्रेष्ठं सर्वधर्मीश्वरं प्रभुम्

42.4

कृताञ्जलिपुटो वीरः जिनपुत्रो महर्द्धिकः ।
उवाच मधुरां वाणीं दिव्यशब्दार्थभूषिताम्

42.5

साधु साधु महाप्राज्ञ धर्मचक्रानुबर्तकम् ।
धर्मतत्त्वार्थमन्त्रत्वं यस्त्वं भाषयसे विभोः

42.6

एवमुक्त्वा तु सुगतं शाक्यसिंहं नरोत्तमम् ।
अथ मञ्जुरवः श्रीमां तूष्णीं तस्थुस्तदन्तरे

42.7

इत्याह भगवां बुद्धो धर्मधात्वेश्वरस्तदा ।
शृणोथ भूतगणाः सर्वैः देवसङ्घा महर्द्धिका

42.8

मण्डले भुवि मर्त्यानां दरिद्रा वाथ दुःखिताम् ।
आलिखन्तानां भुवि मुद्राणां सान्निध्यं वो भविष्यथ

42.9

ये च वै सर्वबुद्धानां प्रत्येकार्हथखड्गिणाम् ।
श्रावकानां तु ये मुद्राः कथिता मुनिवरैः

42.10

सर्वलौकिकमुद्रास्तु जिनाब्जकुलवज्रिण ।
सर्वमुद्रास्तु सर्वत्र सर्वकर्मेषु योजिता ।
तानहमभिसंक्षेपाद् वक्ष्ये ऽहं सर्वमन्त्रिणाम्

42.11

यत् पूर्वं कथितं मन्त्रं सर्वं मण्डले च कर्मसु ।
स्थानं होमो जपः कर्म तं तथैव प्रयोजयेत्

42.12

मण्डले आदितो लेख्य मुद्रो ऽयं बुद्धनिर्मितः ।
सितं छत्रो ऽथ बुद्धानां समन्तज्वालो ऽथ भूषणम्

42.13

पञ्चरङ्गिकचूर्णैस्तु समन्तान्मणिराजितम् ।
विचित्ररङ्गोज्ज्वलं श्रेष्ठं इन्द्रायुधसमप्रभम्

42.14

एष मुद्रो महामुद्रो बुद्धानां मूर्द्धजो वरः ।
तस्य दक्षिणतः पात्रं समन्ताज्ज्योतिमालिनम्

42.15

तदनन्तरे खखवरकः दंष्ट्रा जीबरजो पर ।
श्रीवत्सस्वस्तिकश्चक्रकरकं चापि वर्णितम्

42.16

पुस्तको ध्वजमित्याहुः पताकं च तदन्तरे ।
घण्टा पश्चिमजो मुद्रः कथितं लोकपुङ्गवैः

42.17

छत्रे वामतः पद्मं मणिमुद्रो तदन्तरे ।
तदन्तरे वज्रमित्याहुस्त्रिसूच्याकारसम्भवम्

42.18

उत्पलं तु गतामुद्रः सलिलः सलिलाश्रितः ।
तोयश्च तदन्त्ये वै तोयधाराभिनिःश्रितः

42.19

तदन्ते कुण्डलौ ज्ञेयौ भूषालौ शोभनौ तथा ।
तदन्ते ऽथ महाशैलः चतुरत्नो ऽथ उज्ज्वलः

42.20

तदन्ते महोदधिर्लेख्यः विचित्रो रङ्गोज्ज्वलः ।
तदन्ते ऽथ महावृक्षः सफलो दलभूषितः

42.21

एष बृक्षो महामुद्रो वामपार्श्व जान्तजाम् ।
सितातपत्रो ऽथ बुद्धानां मुद्रोह्युक्तो वरोग्रजः

42.22

मन्त्रे ऽथ खड्गिनां ज्ञेयः प्रत्येकजिनयो वरः ।
चीवरं मुद्रवरो ह्युक्तः सर्वश्रावकसम्भवः

42.23

आर्याणामर्हतां लोके दंष्ट्रा चैव प्रगीयते ।
तत्फलोदधिगतां लोके श्रीवत्सो मुद्रमिष्यते

42.24

खखरकश्च महामुद्रः पत्येकजिनजो ऽपरः ।
धर्मचक्रो ऽथ मुद्रो वै सर्वदृष्टिविदालकः ।
कथितं धर्ममुद्रं तु कारकाक्षेपजः स्मृतः

42.25

प्रज्ञापारमितां लोके जिनधातुर्मुद्रो ऽथ पुस्तकः ।
ध्वजपताका महामुद्रौ विघुष्टौ लोकपूजितौ

42.26

सर्वाकृष्टौ महावीर्यौ सर्वमुष्णीषसम्भवौ ।
घण्टापश्चिमो मुद्रः प्रत्येकार्हमूर्धजः

42.27

बुद्धमुद्रे तु वामे वै पद्मो लोकेशसम्भवः ।
मुनिमुद्रस्तथा ज्ञेयः समन्तज्योतिलाभिने

42.28

वज्रं वज्रिणेमुद्रा बोधिसत्त्वस्य धीमतः ।
उत्पलं मञ्जुघोषस्य कुण्डलः क्षितिगर्भिण्ये

42.29

महातोयतो मुद्रः कथितो गगनालये ।
महाशैलो ऽथ मुद्रेयं सर्वदृष्टिविदालिने

42.30

महोदधि तथा मुद्र सुगतात्मज सागरे ।
महावृक्षस्तथा मुद्र उद्घुष्टो लोकविश्रुतः

42.31

सर्वांश्च जिनपुत्रांस्तु मुद्रो ऽयं त्रिभवालये ।
घण्टासमीपजे स्थाने आलिखेज्जिनवर्णितम्

42.32

मुद्रं सर्वमुद्राणां चतुरस्राकारसम्भवम् ।
विचित्रं रङ्गजोपेतं चारुवर्णं विराजकम्

42.33

+ + + + + समन्तान्मणिभूषितम् ।
ज्वालामालिनं दीप्तं पञ्चरङ्गोज्ज्वलं शुभम्

42.34

पिण्डिकाकारमुद्यन्तं इन्दुमर्कनिभं शुभम् ।
+ + + + + विराजन्तं महाद्युतिम् ।
एष मुद्रो महावीर्यः सर्वमन्त्रालयः शुभः

42.35

त्रिविधानां तु मन्त्राणां ज्येष्ठमध्यमकन्यसाम् ।
स्थानो ऽयं मुद्रमुख्योक्तः सर्वकर्मार्थसाधकः ।
एतदभ्यन्तरं लेख्यो महामुद्रागर्भमण्डले

42.36

यो यस्य मण्डले मन्त्रः संयोक्ता लोकविश्रुते ।
तदेव मध्ये आलेख्यं छत्रस्येव महीतले

42.37

तन्मध्ये मण्डले चापि रूपकं मुद्रमेव वा ।
वरदा रूपका लेख्या मञ्जुघोषोदयस्तथा

42.38

सर्वे वै मन्त्रनाथास्तु सर्वमन्त्रार्थवा सदा ।
न चेद् भुवि मुद्राणामालिखेद् विधिचेष्टिताम्

42.39

तन्न्यस्तौ पूर्णकुम्भस्तु विजयेत्याहुर्मनीषिणः ।
बहिःस्था मण्डले चापि मुद्रामालिखेद् व्रती

42.40

यथोक्तैः पूर्वनिर्दिष्टैर्द्वितीये मण्डले जपी ।
स्थानेष्वेव सर्वत्र दिग्विदिशश्चापि सर्वतः

42.41

आलिखेत् सर्वदेवानामृषियक्षगरुत्मनाम् ।
मुद्रामालिखेद् धीमां पिशाचोरगराक्षसाम्

42.42

परतीर्थ्येमतां सिद्धां किन्नरा कटपूतनाम् ।
क्रव्यादव्यन्तरांश्चैव सकूष्माण्डं दूषको नारकोत्सहाम् ।
सर्वसत्त्वां भृवांश्चैव रूपारूप्यकामजाम्

42.43

द्वितीये मण्डले नित्यं आरूप्यं सुरजोद्भवम् ।
आलिखेन्मुद्रनित्याग्रं त्रिकोणाकारसम्भवम्

42.44

पूर्वायां दिशि मासृत्य रेखमाश्लिष्टमुज्ज्वल ।
एतत् सुरमुख्यानामारूप्यानां महर्द्धिकाम् ।
मुद्रा समाधिजेत्याहुरादिबुद्धैस्तु वर्णितम्

42.45

ततोत्तरे तु तथा रेखे ब्रह्मणः पद्मजोद्भव ।
रूपावचरमित्याहुर्मन्त्रं त्रिभुवनालये

42.46

तदेव दक्षिणा रेखा गर्भमण्डलतो बहिः ।
दक्षिणं दिशमाशृत्य मुद्रेः कामजो वरः

42.47

निर्दिष्टो मुनिमुख्यैस्तु कामधात्वेश्वरे परे ।
मुद्रो ऽयं निर्मितो लोके सर्वदेवसमन्दिरे

42.48

रुद्रेन्द्रवसुमुख्यानां विष्णुतीर्थ्यां दिगम्बराम् ।
अर्कवासवमौषध्यां विवश्वयमचिह्विताम्

42.49

लोकपालां बहिस्तां तां यथामन्दिरदिक्षु ताम् ।
तथाचालिखेत् सर्वांस्तथा मुद्रांस्तु योजयेत्

42.50

यो यस्य वाहनः ख्यातः प्रहरणावेषधारिणम् ।
तं तथैव तथा मुद्रो निर्दिष्टो लोकपूजितैः

42.51

एष मुद्रगणो ह्युक्तः सर्वलोकोत्तरः शुभः ।
लौकिकामथ सर्वत्र सर्वकर्मेषु साधकः

42.52

निर्दिष्टा मुद्रमुख्याश्च सर्वमुद्रो ऽथ मन्त्रिणाम् ।
आलेख्य तु भुवि मर्त्त्यैस्तु जापिभिः सिद्धिकामदैः

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc