भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 43

43.1

- बोधितत्त्वलिप्सुरिति ॥
बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् आर्यमञ्जुश्रियमूलकल्पात् चत्वारिंशतिमः महाकल्पराजविसरात् सर्वकर्मसाधनोपयिकः परिसमाप्त इति ।
अथ त्रिचत्वारिंशः पटलविसरः ।
अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीये मण्डलविधाने सर्वकर्मेषु सर्वतन्त्रमन्त्रेषु आह्वानन विसर्जन जप नियम होम साधन रक्षाविधानादिषु सर्वकर्मेषु महामुद्रं एक एव महावीरमसङ्ख्येयेषु सबुद्धकोटिभाषितं चाभ्यनुमोदितं च कतमं च तत् ॥
शृणुस्व मञ्जुरव श्रीमां गम्भीरार्थसुतत्वधीः ।
यं बध्वा जापिनः सर्वे .........

43.2

महामुद्रां महापुण्यां महामङ्गलसम्मतम् ।
महाब्रह्मसमं पुण्यं पवित्रं पापनाशनम्

43.3

महाक्षेमङ्गमं श्रेष्ठं निर्वाणपदमच्युतम् ।
शिवं शान्तं तथा ज्येष्ठं शीतीभूतं परायणम्

43.4

सर्वमुद्रेश्वरं ख्यातं सर्वमुद्रेषु मूर्धजम् ।
सर्वतन्त्रेश्वरं नाथं ख्यातं त्रिभवालये

43.5

ऊर्जितं च त्रिधा दिव्यं भौमदिव्या येष्वपि ।
साक्षाद् बुद्धमिव चिह्नं सर्वसत्त्वाश्रयं विभुम्

43.6

प्रपुष्टत्रिभवे नित्यं सर्वमुद्रैस्तु मुद्रराट् ।
रक्षार्थं जापिनां नित्यं सर्वकर्मेषु मन्त्रिणाम्

43.7

रक्षोघ्नमगदं ख्यातं मङ्गल्यमघनाशनम् ।
उत्कृष्टं सर्वकर्मेषु दुष्टसत्त्वनिवारणम्

43.8

दुर्दान्तदमको लोके महामुद्रो ऽयं प्रगीयते ।
सर्वमत्रेषु युक्तो वै त्रिजन्मगतमन्त्रिणाम्

43.9

हन्युर्विघ्नान् स सर्वत्र सर्वकर्मेषु मन्त्रिणाम् ।
त्रिधा योनिगतां मन्त्रामावाहयति तत्क्षणात्

43.10

पुनर्नयति तां लोकं पुनर्नाशयते हि ताम् ।
पातयत्येव सर्वत्र कृत्स्नां चैव महीतले

43.11

पुनः कीलयते मुद्रां बन्धनोरुन्धनादिभिः क्रियैः ।
पीडनोत्सादनो मुद्रः शोषणो विध्वंसनस्तथा ।
पुनर्जीवादनः ख्यातो मन्त्रिणां त्रिभुवनालये

43.12

शान्तिकेषु च कर्मेषु महामुद्रो ऽयं प्रयुज्यते ।
शुभो ऽथ सर्वमन्त्राणां शुद्धो निर्मलपापहा ।
सर्वार्थसाधनो लोके प्रसिद्धः सर्वमग्रतः

43.13

लौकिकानां च मन्त्राणामग्र्या लोकोत्तरास्तथा ।
श्रेष्ठाः सर्वकर्मार्थे तथा शान्तिकपौष्टिके

43.14

नित्यं क्षेमङ्गमो मुद्रः प्रयुक्तः सर्वमन्त्रिभिः ।
नित्यो ऽयमपराजितो ह्युक्तः ग्रः सर्वमन्त्रैस्तु योजितः

43.15

परम्परास्थो भूतकोटिस्थः धर्मधात्वेश्वरो निजौ ।
अनक्षरो ऽभिलाप्यश्च अक्षरो नित्यमक्षरो

43.16

धर्मनैरात्मभूतस्थः अभूतो भूतमुद्भवः ।
विरजस्को नेञ्ज्यश्च निष्ठो शून्यः स्वभावतः

43.17

अकनिष्ठस्तथा ज्येष्ठः शुभो निर्वाणगामिनः ।
पन्थानो ऽनुत्तरां बोधो प्रत्येकार्ह सम्भवो

43.18

धर्ममेघस्तथा शान्तः निःसृता सैन्यवारिजः ।
तत्त्वार्थपरमार्थज्ञ उभयार्थार्थपूरकः

43.19

महामुद्रो महौजस्कः सर्वबुद्धैः समुद्रितो ।
महार्थो महावीर्य एकवीरो महर्द्धिकः

43.20

+ + + + + + + + + सर्वकर्मार्थसाधकः ।
अनेकाकारवरोपेत अनेकाकारसम्भवम्

43.21

सर्वंज्ञपदविदं ज्ञेयमशेषो शेषनैष्ठिकम् ।
ज्ञानं ज्ञेयं महोच्छेयं विघुष्टं मुनिवराजितम्

43.22

सर्वभूतसुराभ्यर्च्य प्रत्येकार्हथ पूजितम् ।
महामुद्रोत्तमं धर्मं अच्युतं पदमुत्तमम्

43.23

आदौ तावच्छुचौ देशे एकवृक्षे महानगे ।
महोदधितटे रम्ये मेध्यस्थण्डिल्यमाश्रिते

43.24

सरित् कूपे पुलिने वा देवमन्दिरशोभने ।
मारारेर्भवने चापि विहारावसथ मन्दिरे

43.25

विजने सिक्तसंसृष्टे पुष्पप्रकरभूषिते ।
सुगन्धगन्धोदकासिक्ते सुधूपे धूपधूपिते

43.26

प्राङ्मुखः उदङ्मुखो वापि शान्तिकपौष्टिकयोश्चापि ।
दक्षिणे रौद्रकर्मार्थे तं जिनैर्वर्जितं सदा

43.27

श्रीसौभाग्यवश्यार्थमाजश्चाहेतुतः सदा ।
पश्चान्मुखं तु बध्नीयान्महामुद्रबरं परम्

43.28

उच्चदृष्टि यदा बुद्धे उत्तिष्ठं देहसिद्धये ।
अधः पातालं गच्छेदसुरेश्वरतां व्रती

43.29

शुचिदेहसमाचारः शुचिमन्त्रसमन्त्रवित् ।
तदा मुद्रवरं युञ्ज्य स्नातोपस्पृश्य जप्तधीः

43.30

उभौ च हस्तौ प्रक्षाल्यौ मृद्गोमयसुगन्धिनम् ।
शुचितोय सदा शुद्धे कृमिजन्तुविवर्जिते

43.31

नवारिस्रुते शुचे शौचे उभे हस्ते ऽथ पूजिते ।
सयोज्येथ मुष्टिस्थौ सम्पुटाकारचेष्टितौ

43.32

ईषिच्छुषिरौ समन्तात् षडङ्गुलौ उच्छ्रितौ ।
उभयाङ्गुष्ठमध्यस्थौ कन्यष्ठाङ्लिनामितौ

43.33

कृत्वाथ हृदयोद्देशे शुक्लवस्त्रावगुण्ठिते ।
दर्शयेत् सर्वकर्मेषुं साधने + + + + +

43.34

सर्वभूते वै क्षिप्रं कृष्टमात्रेण ईप्सितम् ।
एष मञ्जुरवो मुद्रः सर्वकर्मार्थसाधक इति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc