मञ्जुश्रीमूलकल्प · अध्याय 38
कन्याकर्तितसुत्रेण ब्राह्मण्या वा अरतिसम्भवाया गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा अनेन मन्त्रेण - ओम् हर हर बन्ध बन्ध शुक्रधारणि सिद्धार्थे स्वाहा - मामक्यया मुद्रासंयुक्ता मन्त्रं जपेत् । ततः सूत्रकं कट्यां बन्धयेत् । त्रिगुणपरिवेष्टितं कृत्वा शुक्रबन्धः कृतो भवति । कामधात्वेश्वरो ऽपि शक्तः स्वप्ने मनोविघातमुत्पादयितुम् । किं पुनः स्वप्नविनायकाः । विधिना नाविधिना सरागस्य न वीतरागस्य कामधात्वेश्वरस्यापि ऋषिणो दुहितरश्च अशक्ता मनोविघातमुत्पादयितुं विविधरूपधारिण्यः रागिणाम् । किं पुनः तदन्यः स्त्रियः मानुषामानुषोद्भवाः ॥
एवं विधिना प्रातरुत्थाय विसर्ज्य दन्तधावन मुखं प्रक्षाल्य शुचिना जलेन स्नात्वा निष्प्राणके विमलोदकेन पूर्ववद् विधिना पूर्वाभिमुखस्थितेन मुद्रां बन्धीयात् । मन्त्रांश्च जपेत् । दीर्घायुषो भवति सर्वकर्मसमर्थः । महाव्याधिभिर्मुच्यते । सर्वजनप्रियो भवति । अमित्राणां प्रत्यङ्गिरमुपजायते । दृष्टमात्राश्च सर्वग्रहक्रव्यादकश्मलादयः प्रपलायन्ते । परबलं स्तम्भयति । दर्शनमात्रेणैव सर्वकर्मां करोति शुचिनाशुचिना विधानेनाविधानेन ॥
एवमस्य असङ्ख्येया मुद्रामन्त्रगणपरिवृतो ऽयं कल्पराजा । असङ्ख्येयैश्च बुद्धैर्भगवद्भिर्भाषिता भाषिष्यन्ते च । मयाप्येतर्हि शाक्यमुनिना तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितो ( वैद्य 331 ) महता पर्षन्मण्डलमध्ये । न्वमपि कुमार मञ्जुश्रीः सन्नियुक्तो ऽयं शासनपरिसंरक्षणार्थं धर्मधातुचिरसंरक्षणार्थं च मयि परिनिर्वृते धर्मकोटिनिश्रिते भूतकोटिपर्यवसाने शान्तीभूते महाकरुणावर्जितमानसेन सत्त्वानां हितार्थाय भाषितो ऽयं मया युगान्ते महाभैरवे काले वर्तमाने रत्नत्रयापकारिणां दुष्टराज्ञां दुष्टसत्त्वानां च निवारणार्थाय विनयनार्थाय च भाषितो ऽयं कल्पराजा विस्तरविभागशः सर्वसत्त्वानामर्थायेति ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चत्रिंशतिमः मन्त्रमुद्रानियमकर्मविधिपटलविसरः परिसमाप्त इति ॥
अथाष्टात्रिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्रीः
संक्षेपतः मुद्राणां लक्षणं मन्त्राणां च सविस्तरम् ।
संक्षेपतश्च मण्डलानां विधिः समयानुवर्तनम्
+ + + + + + + + + + मुद्रास्थानं च तेषु वै ।
सरहस्यं सर्वमन्त्राणां सर्वमन्त्रेषु मण्डलम्
एतत् सर्वं पुरा प्रोक्तं सर्वबुद्धैर्महर्द्धिकैः ।
मन्त्राणां गतिमाहात्म्यं कथितं सर्वकुलेष्वपि
आदिमद्भिः पुरा बुद्धैः सत्त्वानां हितकारणात् ।
प्रवर्त्य मन्त्रचक्रश्च धर्मचक्रमनुत्तरम्
शान्तिचक्रानुगा याता भूतकोटिं समाशृताः ।
शान्तिं जगाम सर्वे ते बुद्धा लोकमहर्द्धिका
एतत् सर्वं पुरा ख्यातमादिमद्भिस्तथागतैः ।
अहमप्यपश्चिमे लोके देशेयं त्वयि मञ्जुश्रधीः
एतत् कृत्वा तदा वाच्यं बुद्धस्येदं महाद्युतेः ।
कुमारो मञ्जुघोषो वै प्राञ्जलिं कृतमग्रतः
उवाच वदतां श्रेष्ठं सम्बुद्धं द्विपदोत्तमम् ।
वदस्व धर्मं महाप्राज्ञ लोकानां हितकारणम्
संक्षेपार्थमविस्तारं गुणमाहात्म्यफलोदयम् ।
एवमुक्तस्तु मञ्जुश्रीस्तूष्णीम्भूतस्तस्थुरे
अथ ब्रह्मेश्वरः श्रीमां कलविङ्करुतस्वनः ।
कथयामास तत् सर्वं मुद्रामण्डलसंस्थितम्
मन्त्रं तन्त्रं तदा काले शुद्धावासोपरि स्थितो ।
कथयामास सम्बुद्धः शाक्यसिंहो नरोत्तमः
शृणु त्वं कुमार मञ्जुश्रीः मुद्राणां विधिसम्भवम् ।
मन्त्राणां तन्त्रयुक्तीनां गुणमाहात्म्यविस्तरम्
आदौ सर्वतथाचिह्नं सत्त्वासत्त्व यथा च तम् ।
आकारं चरितं चेष्टा सर्वमिङ्गितभाषितम्
द्विहस्तपादयोर्मूर्ध्ना एकहस्ताङ्गुलयोजना ।
सर्वं तं मुद्रमिति प्रोक्तं आदिबुद्धैः पुरातनैः
कलशं छत्रं तथा पद्मं ध्वज पताकं तथैव च ।
मत्स्य वज्र तथा शङ्खः कुम्भश्चक्रस्तथैव च
विविधा प्रहरणा लोके यावन्तस्ते परिकीर्तिता ।
उत्पलाकारमुद्रं च सर्वे ते मुद्रानुमण्डले
अनुपूर्वमिह स्थिता तथैते विधियुक्तमुदाहृता ।
सदृशाकारस्वरूपेण सर्वासां चैव लिखेत् सदा
मण्डले मुद्रमित्युक्त्वा सामान्येष्वेव सर्वतः ।
यथास्थानसुविन्यस्तं मुद्रास्ते परिकीर्तिताः
मण्डलेष्वेव सर्वेषु स्वाकारं चैव योजयेत् ।
चक्रवर्ती तथा चक्रं उष्णीषे सितमुद्भवे
सितातपत्रं मुख्येन मण्डले तु समालिखेत् ।
बुद्धानां धर्मचक्रं वै पद्मं पद्मकुले तथा
वज्रं वज्रकुले प्रोक्तं गजं गजकुलोद्भवे ।
तथा मणिकुले कुम्भं नियुज्यात् सर्वमण्डले
दिव्यार्यौ च कुलौ मुख्यौ श्रीवत्सस्वस्तिकौ लिखेत् ।
आलिखेद् यक्षकुले श्रेष्ठे फलं फलजसम्भवम्
महाब्रह्मे हंसमालिख्य शक्रस्यापि सवज्रकम् ।
महेश्वरस्य लिखेच्छूलं वृषं चापि समालिखेत्
त्रिशूलं पट्टिशं चापि स्कन्दस्यापि सशक्तिकम् ।
विष्णोश्चक्रमालिख्य गदांश्चापि सदानवाम्
नानाप्रहरणा देवा विविधासनसम्भवाम् ।
याना च विविधाश्चापि तेषां मध्यं लिखेत् सदा
सरूपसंक्रान्तिप्रतिबिम्बं यथास्थितम् ।
एषामन्यतरं ह्येकं लिखेत् सर्वत्र मण्डले
एकद्विकसमायुक्ता तृप्रभृत्यमसङ्ख्यका ।
मण्डला जिनवरैः प्रोक्ता वेदिकापङ्क्तितत्समा
यदोद्दिश्य मण्डलं प्रोक्तं तं मध्ये तु निवेशयेत् ।
आलिखेज्जिनकुले गर्भे बुद्धं वापि सुमध्यमे
अभ्यन्तरस्थं तदा बिम्बं शास्तुनो चापि मालिखेत् ।
द्वितीयं पद्मकुले न्यस्तं तृतीयं वज्रकुलं लिखेत्
एवं सर्व तदालिख्य अनुपूर्व्या सुरासुराम् ।
सर्वभूम्यां ततः पश्चाद् यक्षराक्षसमानुषाम्
तीर्थिकानां ततो लिख्य अनुपूर्व्या यथास्थितम् ।
दिक्पालां च तथालिख्य सर्वांश्चैव विविधागताम्
संक्षेपादेकबिन्दुस्तु द्विप्रभृत्यमसङ्ख्यकाम् ।
आलिखेन्मण्डलं यावदुपर्यन्तं दिशमाशृतम्
अप्रमेय तदा प्रोक्ता क्ष्मातलो मण्डले ऽस्य वै ।
एकबिन्दुप्रभृत्यादि अपर्यन्ते वसुधातले
मण्डलस्य विधिः प्रोक्तो निर्दिष्टं त्रिविधस्य तु ।
उत्तमं मध्यमं चैव कन्यसं चैव कीर्तितम्
उत्तमे उत्तमा सिद्धिर्मध्यमे मध्य उदाहृतम् ।
कन्यसे क्षुद्रसिद्धिस्तु कथितं जिनवरैः पुरा
त्रिधा सर्वे मनोभिश्च सिद्धिरुक्ता जिनोत्तमैः ।
महासत्त्वैर्महासिद्धिर्मध्यसत्त्वे तु मध्यमा
तृतीया क्षुद्रजन्तूनां क्षुद्रकर्म उदाहृतम् ।
चित्तं प्रसादे बुद्धत्वं उत्तमे सफलोदयम्
नियतं प्राप्यते सत्त्वो मण्डलादर्शनेन वै ।
मध्यचित्तस्तदा काले प्रत्येकं बोधिमाप्नुयात्
इतरे नियतं प्रोक्तां श्रावकत्वमनादरात् ।
अबन्ध्यं फलमाहात्म्यं गतिशान्ति उदाहृतम्
मण्डलादर्शनस्वर्गं नियतं तस्य भविष्यति ।
एव मुद्रवरां सर्वां मन्त्राश्चैव सविस्तराम्
नियुक्तास्त्रिविधाश्चैव त्रिःप्रकारा सुखावहा ।
मुद्रा मण्डला प्रोक्ता मन्त्राणां कथ्यते हितम्
एकाक्षरप्रभृत्यादि यावत्सङ्ख्यं प्रमाणतः ।
कथिता वचना मन्त्रे यावन्त्यस्ता प्रकीर्तिताः
वाक्प्रलापां रुदितं हसितं क्रन्दितं तथा ।
सर्वजल्पप्रजल्पं वा सर्वमन्त्रहितं भवेत्
त्रिविधा ते च मन्त्राश्च त्रिप्रकारा समोदिता ।
यथैव मण्डले ख्यातः मुद्रामन्त्रेषु वै तथा
विधिरेषा समायुक्ता निर्दिष्टा लोकनायकैः ।
तथैव तत् त्रिधा याति अनेकधा चापि सहस्रधा
त्रिविधं त्रिःप्रकारं तु त्रिधा चैवमसङ्ख्यकाः ।
चित्तायतं हि मन्त्रं वै न मन्त्रं चित्तवर्जितम्
चित्तमन्त्रसमायुक्तः संयुक्तः साधयिष्यति ।
तथागतकुले ये मन्त्रा ये च पद्मकुले तथा
ये च पद्मकुले गीता कुलेष्वेव च मापरैः ।
सलौकिका सर्वमन्त्रा वै सर्वे त इह निःसृताः
जिने जिनसुतैर्यो मन्त्रो भाषितः सत्त्वकारणात् ।
तां जपेद् यो ऽभियुक्तश्च नियतं बुद्धो हि सो भवेत्
मध्यस्था ये तु मन्त्रा वै तं जपेद् यो ऽभिजापिनः ।
प्रत्येकबुद्ध आख्यातो नियतं तस्य गोत्रतः
ये ऽन्यमन्त्रे प्रवृत्ता वै प्रत्येकार्हभाषितैः ।
सलौकिकैश्च सत्त्वे वै अभियुक्तो मन्त्रजापिनः
स भवेन्नियतं गोत्रस्थो श्रावकाणां महर्द्धिकाम् ।
तत्रापि कर्म प्रयोक्तव्यः उत्कृष्टे ऽधममध्यमे
शान्तिके बुद्धबोधिः स्यात् पौष्टिके वापि खड्गिनाम् ।
इतरैः क्षुद्रमन्त्रैस्तु श्रावको बोधिमुच्यते
तत्रापि चित्तं द्रष्टव्यं तत् त्रिधा परिभिद्यते ।
पुनश्च भिद्यते बहुधा असङ्ख्यं चापि भेदत इति
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0