मञ्जुश्रीमूलकल्प · अध्याय 37
इति ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्रात् चतुःत्रिंशतिमः द्वितीयमुद्राविधिपटलविसरः परिसमाप्त इति ॥
(एतद्ग्रन्थान्ते ऽन्तिमस्य पटलविसरस्य त्रिपञ्चाशत्तमस्य समाप्त्यनन्तरं महामुद्रापटलविसरो नाम कश्चिदपरश्चतुस्त्रिंशत्तमः पटलविसरो लिखित उपलभ्यते । स गतस्य चतुस्त्रिंशत्तमस्यैव प्रकारभेदो भवितुमर्हतीत्यतः कारणादिहैव योज्यते ।)
अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । सर्वांश्च बोधिसत्त्वां सर्वसत्त्वांश्च पर्षत्सन्निपतितां । शृण्वन्तु भूतगणाः सर्वे देवपुत्राश्च महर्द्धिकाः अस्ति मञ्जुश्रियः कुमारभूतस्य बोधिसत्त्वस्य महासत्त्वस्य कल्पविसरे समुद्रापटलसाधनोपयिकं सर्वमन्त्रतन्त्रचर्यानुप्रविष्टानां सत्त्वानां बोधिसम्भारकारणं । यथा सिध्यन्ति सर्वमन्त्राः क्षिप्रतरमाकृष्यन्ते सर्वकर्माणि सर्वेषां सर्वतः मुद्राणि भवन्ति । यैः मुद्रिताः क्षिप्रतरं वशा भवन्ति । तं शृण्वन्तु भवन्तो । भाषिष्ये ऽहं सर्वसत्त्वानामर्थाय । सर्वमन्त्राणां मुद्राणि भवन्ति ॥
अथ खलु भगवां शाक्यमुनिः सर्वबुद्धधर्माणां मुद्रालङ्कारतथागतगुणमाहात्म्यसमुद्रमुद्रा नाम समाधिं समापद्यते स्म । समनन्तरसमापन्नस्य भगवतः सर्वतथागताः सर्वमुद्रासमयं भाषते स्म । तस्मात् समाधेरुत्थाय सर्वतथागतमुद्रामुद्रितं महामुद्रापटलविसरं सर्वमन्त्राणां भाषते स्म ॥
आदौ तावत् सर्वमन्त्रकुलेषु हृदयानि भवन्ति । पूर्वमुच्चारयेद् द्विसप्त एकवाराम् । ततो मुद्रा बन्धितव्या, नान्यथादिति । कतमं च तत् । सर्वतथागतानां हृदयम् । जिनजिक् । एष स मार्षाः सर्वतथागतानां हृदयः सर्वकर्मिकः । तथागतकुले सर्वमुद्रा बन्धितब्या । ततः कर्म समारभेत् । आरोलिकु । अवलोकितस्य हृदयः सर्वकर्मिकः पद्मकुले सर्वमुद्राबन्धयता अयं जप्तव्यः सर्वसाधनोपयिक सर्वकर्मसु । वज्रधृक् । एष स मार्षा वज्रपाणेः हृदयम् । सर्ववज्रकुलेषु च जपता मुद्रा बन्धितव्या । सुरारक् । एष सर्वदेवानां सर्वमुद्राबन्धयता सर्वकर्मसु प्रयोक्तव्यः । सर्वदेवानां हृदयः । यक्षातक् । सर्वयक्षाणां हृदयः । पिनाधृक् । रुद्रस्य हृदयः । ष्ठों । एष स मार्षा एकाक्षरं नाम हृदयम् । सर्वलौकिकलोकोत्तराणां सर्वभूतकूष्माण्डपूतनक्रव्यादादिषु नक्षत्रग्रहमातरकुमारकुमारिकाणां मनुष्यामनुष्यसर्वसङ्ख्यातविद्याधरऋषिप्रभृतीनां सर्वसत्त्वानां सर्वगतिसूत्रकर्मावबद्धानां सर्वभूतानामुक्तानां च वीतरागानां महर्द्धिकामहर्द्धिकाणां तृदोषशमनानां त्रिपङ्कनिमग्नानां सर्वसत्त्वानामर्थाय अयमेकाक्षरो मन्त्रः सर्वेषां हृदयं भवति । सर्वकर्माणि करोति । सर्वमुद्राश्च बन्धितव्या । जपं कुर्वाण अनेनैव हृदयेन जपः कर्तव्यः । सततं बुद्धाधिष्ठितो भवति । महाप्रभावो ऽयं महानुशंसः सर्वकर्मसु मुद्रादिकमण्डलुविधानपटसाधनोपयिकेषु सत्त्वानुपूर्वं प्रयोक्तव्यः । सर्वं साधयति । यन्मनसाभिरुचितं साधकेनेति ॥
ततो मुद्राणि भवन्ति शतं चाष्टसाधिकम् ।
उष्णीषमुद्रा प्रथमं कुर्याच्चक्रिणे जिने ।
ततः परमलोके स पद्ममुद्रेति कथ्यते ॥ म्म्क्_36.6(="1") ॥
तृतीयं वज्रमुद्रं तु वज्रपाणिसमाविशे ।
चतुर्थं देवतामुद्रं स्वस्तिकं तु विनिर्दिशेत् ॥ म्म्क्_36.7(="2") ॥
पञ्चमं खड्गमुद्रा तु राक्षसानामिहोच्यते ।
षष्ठं गदमुद्रा तु यक्षाणा मे प्रकीर्तिता ॥ म्म्क्_36.8(="3") ॥
सप्तमं असुराणां तु मन्त्राणां वज्रमुष्टिसमोदिता ।
अष्टमं शूलमुद्रा तु सर्वक्रोधेषु पठ्यते ॥ म्म्क्_36.9(="4") ॥
नवमं पुष्पमुद्रा तु यक्षयक्षीषु कीर्त्तिता ।
दशमं मुद्गरं विन्द्यात् फरमेकादशं परम् ॥ म्म्क्_36.10(="5") ॥
द्वादशं शक्तिनिर्दिष्टा कार्त्तिकेयस्य बालिशः ।
मञ्जुघोषस्य विख्यातमुत्पलं तु प्रयोजयेत् ।
त्रयोदशानां सङ्ख्या निर्दिष्टा मुनिभिः सत्त्वदेशिभिः ॥ म्म्क्_36.11(="6") ॥
चतुर्दशं तु भवेच्छङ्खो भेरी पञ्चादशा स्मृता ।
पटहो षोडशा ज्ञेयो दुन्दुभिः सप्तदशो परः ॥ म्म्क्_36.12(="7") ॥
अष्टादश तथा बद्धमूनविंशत् करणमुच्यते ।
विंशत् परशु निर्दिष्टा सङ्ख्याया तु प्रमाणतः ॥ म्म्क्_36.13(="8") ॥
सितपत्रा तथाच्छत्रं उष्णीषाणां प्रकीर्त्तितम् ।
चीवरं पात्रनिर्दिष्टं खखरं तु मतः परम् ॥ म्म्क्_36.14(="9") ॥
कृपा मैत्री तथा प्रज्ञा ध्यानशील तथापि च ।
क्षान्तिदानादिकं षट्कं निर्दिष्टं लोकनायकैः ॥ म्म्क्_36.15(="10") ॥
बुद्धानां कथिता ह्येते षट् पारमिताश्रवात् ।
त्रिंशच्चक्रिणे मुद्रा कथिता लोकपुङ्गवैः ॥ म्म्क्_36.16(="11") ॥
एकाक्षरस्य वीरस्य मन्त्राणामधिपतेर्विभो ।
लोकेश्वरस्य विद्यानां कथिताष्टविंशति साधिका ॥ म्म्क्_36.17(="12") ॥
सिताख्या महाश्वेता तथा पण्डरवासिनी ।
भृकुटी च तथा देवी बुद्धानां हृदयोद्भवा ॥ म्म्क्_36.18(="13") ॥
ताराया कथ्यते मुद्रा उत्पलं तु नियोजयेत् ।
हयग्रीवस्य तु भीमस्य मुद्रा वक्त्र इति स्मृता ॥ म्म्क्_36.19(="14") ॥
वज्रपाणे तथा मुद्रा त्रिंश एक भवन्ति ते ।
सर्वे प्रहरणा तस्य नानाकारा युधिष्ठिता ॥ म्म्क्_36.20(="15") ॥
चत्वारो ऽपि महामुद्रा प्रोक्ता मारमण्डले ।
रुद्रस्य शूलनिर्दिष्टो + + + + + + + + ॥ म्म्क्_36.21(="16") ॥
ब्रह्मस्याक्षमालं तु विष्णोश्चक्रमितिस्तथा ।
+ + + + + + + + यमदण्डमतः परां ॥ म्म्क्_36.22(="17") ॥
एतत् सर्वं देवानां सर्वयक्षनराधिपां ।
सर्वभूतानां तथा मुद्रा सर्वसत्त्वसमाश्रिता ॥ म्म्क्_36.23(="18") ॥
सरागवीतरागाणां त्रिधा धातु स्थिता परां ।
सर्वलोकसमावृत्त्यु त्रिधा स्थावरजङ्गमा ॥ म्म्क्_36.24(="19") ॥
धात्वाख्यामसङ्ख्येयां ये सत्त्वा भूतवादिनः ।
सर्वेषाणां तु सर्वत्र एकमुद्रादिहोच्यते ॥ म्म्क्_36.25(="20") ॥
एवमष्टशतं प्रोक्तं शतमेकं साष्टसाधिकम् ।
तेषां च गुणविस्तारं प्रभावं च इहोच्यते ॥ म्म्क्_36.26(="21") ॥
यथा मनुष्याणां भवेत् सिद्धिः संयुक्ता मन्त्रयोजिता ।
करोत्यन्यप्रयोगैश्च अङ्गुलीभिः सशोभिता ॥ म्म्क्_36.27(="22") ॥
विन्यस्ता करयोर्मध्ये क्षिप्रमर्थकरा परा ।
तेषामादि वक्ष्ये शृणुध्वं भूतिकांक्षिणः ॥ म्म्क्_36.28(="23") ॥
आदौ तावच्छुचौ देशे शुक्लवस्त्र शुचाम्बरः ।
शुचिकर्मसमाचारो शुचौ देशे सदारतः ।
बन्धयेत् प्राङ्मुखो भूत्वा स्थितो स्तूपस्य चग्रतो ॥ म्म्क्_36.29(="24") ॥
नाशिष्याय प्रदातव्यं रौद्रकर्मान्तचारिणे ।
अभय अदाताय समयानुप्रवेशिने ॥ म्म्क्_36.30(="25") ॥
भक्तो जिनपुत्राणां बुद्धानां चापि शासने ।
अनुत्पादितचित्तस्य नादेयं मुद्रसम्पदा ॥ म्म्क्_36.31(="26") ॥
भक्तानां जिनपुत्राणां बोधिसत्त्वानां च धीमताम् ।
प्रत्येकबुद्धानार्हतानां पूजितानां ददेत् सदा ॥ म्म्क्_36.32(="27") ॥
सुस्थितो बोधिचर्यायामाचार्यो बहुमतः सदा ।
सर्वमन्त्रप्रयोगेषु + + + उत्कृष्ट सदा ।
तेन मुद्रा तदा देया शिष्यस्याविचिकित्सतः ॥ म्म्क्_36.33(="28") ॥
तथा मन्त्रप्रयोगज्ञः शुचिर्दक्षः कुलान्वितः ।
आचार्यो धार्मिको धीमां अभिषिक्तो दृष्टमण्डलः ॥ म्म्क्_36.34(="29") ॥
तेनोपदर्शिता मन्त्राः शिष्यो गृह्येत तन्त्रवित् ।
शिष्येण कार्यस्तथा प्रेमो बुद्धस्येव गुरोस्तथा ।
अन्यथा न सिद्धि मन्त्राणां सर्वमुद्रेषु वा सदादिति ॥ म्म्क्_36.35(="30") ॥
आदौ तावत् शुचिर्भूत्वा प्राङ्मुखो शुक्लचन्दनेन हस्तमुद्वर्त्य, पूर्वं तावत् समयमुद्रा बन्धितव्या । भगवतो उष्णीषस्य मुद्रा । उभौ करौ कृताञ्जलिपुटौ अशुषिरौ ईषिन्कुञ्चितौ कुड्मलाकारौ अकोशपद्माननौ । अयं भगवतो बुद्धस्य समयमुद्रा । तदेव हस्तौ प्रसारितौ सम्पुटावस्थौ पद्मविकसिताकारा अवलोकितस्य मुद्रा । उभौ हस्तौ पूर्ववत् करमावेष्टयित्वा अभ्यन्तरस्थिताभिरङ्गुलीभिः कन्यसः तर्जन्योपरिष्ठा निष्पीडयेत् । इयं मञ्जुश्रियः कुमारभूतस्योत्पलमुद्रा । ( वैद्य 303 ) तदेव कन्यसौ सङ्कोच्य पूर्ववत् तर्जन्याभिः अङ्गुष्ठसमेतौ स्थितिका एव उत्पलकुड्मलाकार दर्शयेत् । सर्वङ्गमानामियं ताराया मुद्रा । तदेव सङ्कोच्य नेत्राकारं कृत्वा, इयं मुद्रा आर्यभृकुट्याः । तदेव ललाटे योजयेत् । इयं देव्यदेव्या नेत्रमुद्रा । पुनरपि तं सङ्कोच्योभौ मध्यमाङ्गुलिभिः सन्दंशाकारं कृत्वा मस्तकोपरि स्थापयेत् । इयं भगवतो चक्रवर्तिनः एकाक्षरस्य महामुद्रा सर्वकर्मिका । तदेव ललाटे स्थापयेद् बुद्धस्य भगवतः हृदयमुद्रा । अक्ष्णौ स्थापयेत् । तदेव चक्रवर्तिनः नेत्रमुद्रा । तदेव मुखे स्थापयेत् । तदेव विद्याधिपतेः चक्रवर्तिन एकाक्षरस्य वक्त्रमुद्रा । एवं याव मन्त्री च भुजौ जानुजङ्घाचरणादिषु विंशत्प्रकारा भवन्ति मुद्रा अष्टौ महामुद्रा भवन्ति । सर्वकर्मसु प्रयोक्तव्या । तदेव करसम्पुटं मध्यमाङ्गुल्यावेष्टितं कृत्वा कन्यसाङ्गुलिसूचीकृतां उभौ अङ्गुष्ठाग्रयवाकारस्थितौ तर्जन्या प्रसारितौ कृतसूच्या कोशीकृतावुभौ निर्मामिकौ वक्रीकृतपर्यन्तौ सुविन्यस्तौ । इयं भगवतां धर्मचक्रमहामुद्रा । तदेवाङ्गुष्ठौ विनाम्य मध्ये प्रसार्य, इयं बुद्धानां चतुर्मारपराजयमुद्रा । तदेव मुद्रां शिरस्योपरिधाय दर्शयेत् । सर्वबुद्धानां सर्वक्लेशनिषूदनं नाम महामुद्रा । तदेव ललाटे स्थापयेत् । महाकरुणा नाम सर्वबुद्धानां मुद्रा । तदेव हृदये स्थाप्य, सर्वदृष्टिशल्याभ्युद्धरणं नाम महामुद्रा । तदेव मुद्रं उभौ न्यसेत् । सर्वविद्याप्रसाधनं नाम महामुद्रा । तदेव मुद्रा ग्रीवा संन्यसेत् । सर्वानर्थप्रशमनकरी नाम महामुद्रा । तदेव मुद्रा सर्वतः भ्रामयेत् । महारक्षार्थसम्पातनं नाम महामुद्रा । एवमनेन प्रकारेण अष्टौ महामुद्रा भवन्ति सर्वार्थसाधकाः । जयोष्णीषस्य मुद्रा भवन्ति । तदेव करपल्लवो वामहस्तप्रसारितौ दक्षिणतस्तिर्यकं । इयं सितातपत्रस्यच्छत्रमुद्रा । तदेव हस्तौ तथा विन्यस्तौ शिरसि भगवतो जयोष्णीषस्य मुद्रा । उभौ करतलौ सम्पुटीकृत्य मूर्ध्निं स्थापितो उष्णीषाकारो इयं भगवतो अभ्युद्गतोष्णीषस्य मुद्रा । तदेव मुद्रां विकाषयेत् । इयं ज्वालामालिनोष्णीषमहामुद्रा सर्वकर्मिका सर्वभयेषु च प्रयोक्तव्या सर्वकर्मसु । तदेव मुद्रा उरसि स्थापयेत् । सर्वोष्णीषाणामियं महामुद्रा । तदेव हस्तौ आवेष्ट्यावस्थितौ सुदृढौ सर्वतथागतानां महाकवचमुद्रा सर्वविघ्नेषु प्रयोक्तव्या । तदेव हस्तौ उभयाग्रावस्थितौ पुस्तकाकारौ उरोमध्ये न्यसेत् । इयं सा सर्वबुद्धानां जनेत्री प्रज्ञापारमिता महामुद्रा । सर्वसत्त्वानां दर्शयेत् । सर्वविघ्नेषु सर्वानर्थां प्रशमयति । सर्वार्थां सम्पादयति । स्मृतिसञ्जननं कुरुते । तदेव हस्तौ ललाटे न्यसेत् । सर्वबुद्धानामभिषेकः धर्ममहामुद्रा । सर्वाभिषेकेषु प्रयोक्तव्यः सर्वसत्त्वानाम् । तदेव हस्तौ चित्राकारेण ललाटे न्यसेत् । सर्वमारविद्रापनं नाम महामुद्रा । तदेव हस्तौ सङ्कुचिताकारौ अन्योन्यसङ्कुचितसक्तौ सूच्याकारेण व्यवस्थितौ मध्यमाङ्गुलिप्रसारितौ सूचीकृतचिह्नौ अङ्गुष्ठोद्वन्द्वपरामृष्टौ । इयं भगवतो तेजोराशेर्महामुद्रा । तदेव मुद्रं शिरसोपरि निधाय इयमपरा तथागतोष्णीषस्य तेजोराशेर्महामुद्रा । तदेव हस्तौ ललाटे स्थापयेत् तेनैवाकारेण इयं भगवतो तृतीया नेत्रमुद्रा । तदेव हस्तौ उभयचित्रीकृतौ अन्योन्योपरिस्थितौ दक्षिणार्थमथ वामसम्पुटाकारस्थितौ अन्योन्याङ्गुष्ठकन्यसावेष्टितौ । इयं ( वैद्य 304 ) सर्वबुद्धानां महावज्रासनमूलमुद्रा । तदेव हस्तौ मूर्ध्नि दर्शितौ महाबोधिवृक्षमूलमुद्रा । तदेव हस्तौ सम्पुटितौ पृष्ठीकृतौ सर्वबुद्धानां सर्वमारविध्वंसनकरी नाम मुद्रा । तदेव हस्तौ अन्योन्यावसक्तौ ग्रीवायां न्यसेत् । सर्वभूतवशीकरी नाम मुद्रा । तदेव कण्ठे धारयेत् । सर्वभूतविलोकनी नाम महामुद्रा । तदेव जानुभ्यां न्यसेत् । सर्वदुर्गतिविशोधनी नाम महामुद्रा । तदेवोर्ध्वं चिक्षिपेत् । सर्वदेवोत्पत्तिसन्निचयं नाम महामुद्रा । तदेव हस्तौ अभयाकारं उभौ सर्वभोगविषयं नाम शनिर्नाम महामुद्रा । तदेवाञ्जल्यकारेण मुर्ध्नि स्थापयेत् । सर्वबुद्धक्षेत्राक्रमणी नाम महामुद्रा । तदेव हस्तौ उभौ कर्णे स्थापयेत् । स्फुटाकारेण सर्वनागदमनी नाम महामुद्रा । तदेव हस्तौ उभौ सम्पुटं कृत्वा नासाग्रे धारितव्यः । सर्वबुद्धानामालम्बनं नाम महामुद्रा । तदेव मुद्रं शिरस्योपरि न्यसेत् । सर्वबुद्धाभ्युद्गतोष्णीषो नाम महामुद्रा ॥
एवमनेनाकारेणासङ्ख्यानि भवन्ति सर्वतथागतोष्णीषाणां मुद्राणि । असङ्ख्येयैः बुद्धैर्भगवद्भिः असङ्ख्येय चक्रवर्तिकुलं असङ्ख्येयाश्चक्रवर्तिनः । तेषामधिपतिः एकाक्षरो चक्रवर्त्ती मन्त्राधिप असङ्ख्येयाश्च तथागतोष्णीषराजानः असङ्ख्येयाश्च सर्वमन्त्रेषु कल्पविसरा । तेषां संक्षेपतः वक्ष्यते मुद्रा चात्र भवत्येक एव सर्वेषां हृदयः एकाक्षरः चक्रवर्त्ती । तस्यैव मूलमुद्रा सा इहैवोच्यते मन्त्रेषु निर्दिष्टा महाप्रभावामितौजसः । यस्याः बन्धनादेव सर्वमन्त्राभिमुखा भवन्ति । सर्वबुद्धाश्च भगवन्तः सिद्धिमनुप्रयच्छन्ते । अधिष्ठिन्ति च विद्यासाधकं चक्रवर्तिस्मरणादेव मन्त्रनाथं एकाक्षरमद्वितीयं दशबुद्धकोटीकुशलमूलार्जितो भवति । चतस्रो ऽपि मूलापत्तयोरापन्नस्य भिक्षा तन्महान्तं नरकोपपत्तिवेदनीयं कर्मक्षयं गच्छति स्मरणादेव । कः पुनर्वादो जपम् । पञ्चानन्तर्याणि च क्षयं गच्छन्ति । कः पुनर्वादो ऽन्ये अकुशलाः स तस्मात् सर्वप्रयत्नेनायं विद्याराजाधिपो एकाक्षरः स्मर्तव्यो जप्तव्यः भावयितव्यो मनसि कर्तव्यः पूजयितव्यः सततमेवाराधयितव्यः । नमः समन्तबुद्धानाम् । भ्रूं । एष स मार्षा सर्वोष्णीषाणां तथागतभाषितानां अयं मूलमन्त्रः । अनेनैव मन्त्राधिपतिना उष्णीषचक्रवर्तिना तथागतमूर्धजेन सर्वकर्माणि कारयेत् । मुद्रोपेतेन सर्वमन्त्रेषु लौकिकलोकोत्तरेषु कल्पविसरेषु नियतं सिध्यति । मुद्रा चात्र भवति । तदेव हस्तौ सम्पुटाकारौ मध्यमाङ्गुलिप्रसारितौ सर्वत्राङ्गुल्याग्राभ्यन्तरस्थितौ कुण्डलाभोगाकार ईषिदूर्ध्वावनतं उष्णीषाकारं शिरस्युपरि धारयेत् । इमं एकाक्षरचक्रवर्तिने महामूलमुद्रा । अनया सर्वकर्माणि कारयेत् । उत्तमसाधनादिषु योजयेत् । सर्वरक्षावरणगुप्तये च प्रयोक्तव्यः । नाल्पसाधप्रयोगादिषु प्रयुञ्जानः असमयज्ञो भवति । मन्त्राचार्यस्य न सिद्ध्यन्ते । अन्यत्र रक्षाविधाना । शान्त्यर्थे च पापक्षपणार्थं नित्यमेव जप्तव्यः शुचौ देशे पर्वतनदीसरित्पतितटेषु च नान्यस्थानेषु जप्तव्यो यत् कारणं महाप्रभावो ऽयं विद्याराजा नान्यदेशेषु जप्तव्यः । प्रभावोद्गतेन मनसा सर्वसत्त्वानां मैत्र्या स्फुरित्वा जप्तव्यः । मुद्रा चात्र भवति । तदेव हस्तौ करसम्पुटाकारौ आवेणिकाङ्गुलिभिः कृत्वा मध्यमाङ्गुलीनां पर्वभागे तृतीये ईषिदवनामयेत् ( वैद्य 305 ) उष्णीषाकारं कारयेत् । इमं भगवतोष्णीषराजस्य महामुद्रा । तदेव हस्तौ सम्पुटं कृत्वा ईषदवनामयेद्भगवतोष्णीषस्य तृतीया महामुद्रा । ओम् गोदरे वीर स्वाहा । अयं सर्वेषां तथागतानां हृदयः सर्वकर्मिकः सर्वार्थसाधकः सर्वानर्थनिवारकः । इयं स्मरणमात्रेणैव सर्वबुद्धाधिष्ठितो भवति । सर्वपापेभ्यो मुच्यते । सर्वमन्त्राणामुपरि वर्त्तते । बुद्ध एव साक्षाद् द्रष्टव्यः । अनया मुद्र सह प्रयोक्तव्या । सर्वकर्माणि क्षिप्रतर एव करोति । अनेन जप्यमानेन सर्व एव मन्त्रा जप्ता भवन्ति । यथा यथा प्रयुज्यते तथा तथा कर्माणि करोति । जापिनस्येच्छया सर्वकर्मिको भवति । तदेव हस्तौ करसम्पुटावस्थौ शिरसि धारयेत् त्रिसूच्याकारेण । इयं भगवतां बुद्धानां सर्वेषां द्वितीया हृदयमुद्रा । मन्त्रं चात्र भवति । ओम् गेरुरे वीर स्वाहा । इमं सर्वेषां बुद्धानां भगवतां हृदयमुद्रा । सर्वकर्मिका सर्वानर्थनिवारिका सर्वार्थसम्पादिका महाप्रभावा सर्वमन्त्रकल्पेषु साधनीया । नात्र विचिकित्सा कार्या । यथा यथा प्रयुज्यते तथा तथा सिध्यतीति । पुनरपि तदेव हस्तौ सम्पुटाकारावस्थितौ अभ्यन्तराङ्गुलिभिः गाढमावेष्ट्य उभौ तर्जन्यौ प्रसारितौ ईषदाकुञ्चयेच्छिरस्युपरि निधाय दर्शयेत् । इमं सर्वतथागतोष्णीषाणां महामुद्रा । भवति चात्र मन्त्रः । ओम् ट्रां बन्ध स्वाहा । अयं सर्वोष्णीषाणां मूलमन्त्रः सर्वकर्मिकः दिश दिश सर्वबन्धेषु प्रयोक्तव्यः । सर्वकर्माणि च करोति । साधनजपकाले होमादिषु आत्मरक्षा पररक्षा वा सर्वद्रव्येषु सर्वमन्त्रकल्पेषु च यान्युक्तानि लौकिकलोकोत्तरेषु तान्यशेषतमनेनैव रक्षा कार्या । महारक्षा कृता भवति । सर्वमन्त्रेषु प्रयोक्तव्यः । सर्वकर्मसु सिध्यति । सर्वतथागतोष्णीषाणां महाचक्रवर्तिविद्याधिपतीनां तेजोराशिसितातपत्रजयोष्णीषप्रभृतीनां यानसाधनविसरपटलानि मुद्रामन्त्राणि तान्यशेषतः विस्तरतो प्रयोक्तव्या सर्वाणि च लौकिकलोकोत्तराणि मन्त्रतन्त्रविस्तरपटलविसरां अनन्तानि च मुद्राणि । भवन्ति चात्र मन्त्रः । ओम् ज्वलितोग्रदेह विभिन्द हुं फट स्वाहा । एष भगवतः तेजोराशेर्बुद्धस्य परमहृदयः सर्वमन्त्रेषु सर्वतः सर्वकर्मिकः प्रयोक्तव्यः इति । तदेव हस्तौ यमलिताकारौ मध्यमाङ्गुलिप्रसारितौ तर्जन्या परिवेष्टितौ कटकाकारेण पाशपरिवेष्टितौ उभौ कृतमण्डलाभोगौ । इयं च भगवतो बुद्धस्य खङ्खरमुद्रा । मन्त्रं चात्र भवति । ओम् धुन जितारण हुं । एष भगवतां बुद्धानां खङ्खरकमुद्रामन्त्रः सर्वकर्मसु प्रयोक्तव्यः । यथाभिरुचितेषु सर्वमन्त्राणां प्रवोधनः सर्वभूतानां वशङ्करः सर्वसत्त्वानां समाश्वासकरः सर्वद्रव्याणां समुत्तेजकः साधकः सर्वपापानां समुच्छोषकः । यथा यथा प्रयुज्यते अयमष्टाक्षरो तथागतमन्त्रः तथा तथा सर्वकर्माणि साधयतीति । तदेव हस्तौ आवेष्टितौ कृत्वा कृतपात्राकारौ । इयं सर्वतथागतानां पात्रमुद्रा तथागतपात्र इत्यवगन्तव्यः । नाभिदेशे धारयेत् सर्वकर्मसमर्था भवति । भवति चात्र मन्त्रः । ओम् लोकपालाधिष्ठित धर धर धारय महानुभाव बुद्धपात्र स्वाहा । एष भगवतां बुद्धानां तथागतपात्रमुद्रामन्त्र अनेन संयुक्तः सर्वकर्मसमर्थकरो भवेत् ॥
करोति कर्मवैचित्र्यं गतिमाहात्म्यपूजितम् ।
साधयेत् सर्वकर्माणि सर्वमन्त्रेषु भाषिताम् ।
साधकस्येच्छया क्षिप्रं करोतीह न संशयः ॥ म्म्क्_36.36(="31") ॥
ये ऽपि ताथागती मन्त्रा ये चापि अवलोकिते ।
कुलिशाह्वे मन्त्रमुख्यास्तु नानादेवतपूजिता ।
ते सर्वे सिद्धिमायान्ति बुद्धपात्रसमोदिता ॥ म्म्क्_36.37(="32") ॥
विविधा दूतिगणा ह्यग्रा चेटचेटिगणास्तथा ।
नानाकिङ्करमुख्यास्तु यक्षराक्षसकश्मला ॥ म्म्क्_36.38(="33") ॥
प्रेष्या सर्वमन्त्रणां सर्वकर्मकरास्तथा ।
विविधैर्राजमुख्यैस्तु देवगन्धर्वयोनिजैः ॥ म्म्क्_36.39(="34") ॥
सिद्धविद्याधरैः मन्त्राः लोकपालाश्च महर्द्धिकाः ।
शक्राद्यैः ब्रह्ममुख्यैस्तु सुरश्रेष्ठैश्च धीमतैः ॥ म्म्क्_36.40(="35") ॥
मन्त्रा भाषिता ये स्युः सर्वकर्मकरा सदा ।
किन्नरैर्गरुडैश्चापि + + + + महर्द्धिकैः
सर्वे ते सिद्धिमायान्ति बुद्धपात्रसमोदिता ॥ म्म्क्_36.41(="36") ॥
आकृष्टा सर्वमन्त्राणां गतिमूर्तिसमाश्रिताम् ।
वशै ता मन्त्रराट् स्वामी प्रभुः श्रेष्ठो महाद्युतिः ।
अग्र च सर्वमन्त्राणां निर्दिष्टो तत्त्वदर्शिभिः ॥ म्म्क्_36.42(="37") ॥
स मन्त्रो पात्रभूतस्थः त्रिषु चिन्तामणिस्तथा ।
करोति कर्मवैचित्र्यं ईप्सितं साधकेच्छया ॥ म्म्क्_36.43(="38") ॥
विविधागुणमाहात्म्यं प्रभावातिशयापराम् ।
करोति ऋद्धिदुर्लङ्घ्यं + + + सर्वमन्त्रिभिः ।
अपात्रो पात्रतां याति मन्त्रस्थे मुनिवर्णिते ॥ म्म्क्_36.44(="39") ॥
पात्रो मन्त्रप्रयुक्तस्तु मुद्राभिश्च समन्वितः ।
करोति गुणविस्तारं विचित्रं कर्मसम्भवम् ॥ म्म्क्_36.45(="40") ॥
हन्युः सर्वतो रोगान् भोगांश्चैव सुपुष्कलाम् ।
त्रिजन्मगतसत्त्वानां देवदैत्यनराधिपाम् ।
कुर्यात् सम्पदां क्षिप्रं सर्वकर्मसु योजिता ॥ म्म्क्_36.46(="41") ॥
इति ॥
तदेव हस्तौ करसम्पुटाकारौ सविचित्रवेणिकावबद्धौ ललाटदेशे स्थापयेत् । चित्रहस्त तदेव भगवतां बुद्धानां चिन्तामणिरत्नमहामुद्रा । मन्त्रं चात्र भवति । नमः सर्वबुद्धेभ्यः ओम् तेजोज्वाल सर्वार्थसाधक सिध्य सिध्य सिद्धिचिन्तामणिरत्न हुं ।
चिन्तामणिरत्नमन्त्रः सर्वार्थसाधकम् ।
ईप्सितां साधयेदर्थां मन्त्राश्चापि सविस्तराम् ॥ म्म्क्_36.47(="42") ॥
करोति गुणमाहात्म्यं चिन्तितं चापि साधयेत् ।
सम्पदां सफलांश्चापि मन्त्रतन्त्रसुभाषितम् ॥ म्म्क्_36.48(="43") ॥
नैष्ठिकं साधयेदर्थां बुद्धत्वनियतं तथा ।
इच्छया कर्मविन्यस्तं करो चैवमजायत ॥ म्म्क्_36.49(="44") ॥
विविधां सम्पदां सद्यः फलमुद्भवचेष्टिताम् ।
सर्वाणां मन्त्रतन्त्राणां साधये त्मसाधितम् ॥ म्म्क्_36.50(="45") ॥
देवत्वमथ शक्रत्वं ब्रह्मत्वं वापि रूपिणम् ।
आभास्वराणां तथा मूर्तिसदृशानां सुदर्शनाम् ॥ म्म्क्_36.51(="46") ॥
सुरश्रेष्टां सुरामग्रां बृहत्फलामकनिष्ठाम् ।
देवभूयिष्ठां मूर्तिमाप्नोति साधनादिति ॥ म्म्क्_36.52(="47") ॥
चिन्ता मनसो ह्यग्रा कथिता मन्त्रार्थविस्तराम् ।
मुद्रासु पुष्कलाश्चैव गतिधर्मार्थसाधका ॥ म्म्क्_36.53(="48") ॥
सर्वधर्मार्थनिःपत्तिं सर्वमन्त्रार्थसाधनम् ।
सर्वगुणबोध्यर्थं धर्मधातुसमाश्रयम् ॥ म्म्क्_36.54(="49") ॥
कथितं मन्त्ररूपेण रत्नचिन्ताग्रपूजितम् ।
विशेषात् प्राप्नुयात् स्वर्गरूपाश्चैव समाश्रयम् ।
साधनात् प्राप्नुयात् स्वर्गं गतिमन्त्रार्थविस्तरमिति ॥ म्म्क्_36.55(="50") ॥
तदेव हस्तौ उभौ स्कन्धावसक्तौ अर्धोपरिस्थितौ दक्षिणवामावष्टब्धौ अन्योन्यासक्तौ करमूलसुयोजितौ । इयं सर्वबुद्धानां चीवरमुद्रा । भवति चात्र मन्त्रः । ओम् रक्ष रक्ष सर्वबुद्धाधिष्ठिता मे चीवर स्वाहा । चीवरमन्त्रः । आत्मचीवरमभिमन्त्र्य प्रावरेत् । सर्वभूतानां अधृष्यो भवति । महाराजक्षत्रियेन मूर्ध्नाभिषिक्तेन सर्वप्रश्वासकरेणात्मवस्त्रमभिमन्त्र्य सप्तवारां सङ्ग्राममवतरेत् । सर्वारयः दृष्ट्वा स्तम्भिता भवन्ति । प्रतिनिवर्तन्ते वा । सर्वभूताश्च दृष्टमात्रा वशा भवन्ति । गतमानमदर्प न चास्य काये शस्त्रं निपतति । न चास्य मनुष्यामनुष्यभयं भवति । न विषो न हुताशनः काये निपतति । न चास्य रोगभयं भवति । न चास्यापमृत्युभयं भवति । न चास्य परचक्रेण हन्यते । न डाकिनीभूतपिशाचैश्च यक्षराक्षसगन्धर्वै विचित्रैर्वा भूतगणैः ओजोहारिभिः रौद्रचित्तैः पिशिताशनैः सर्वक्रव्यादैर्वा हिंसकैः परसत्त्वविहेठकैः पापकर्मान्तचारिभिर्वा राजानैर्न शक्यते हिंसयितुं उपघातं कर्त्तुम् । कः पुनर्वादो विना रक्षा वा भेत्तुं सर्वकर्मादिषु सर्वद्रव्येषु जीविता व्यवरोपयितुम् । न हि तद्विद्यते सत्त्वो वा सत्त्वनिकायो वा मन्त्रो वा मुद्रो व विषो वा स्थावरजङ्गमो वा शस्त्रो वा प्रहरणानि वा विविधानि राक्षसो वा राक्षसी वा यक्षा वा यक्षी वा यक्षमहल्लको वा यक्षमहल्लिका वा यक्षपार्षदो वा यक्षपार्षदी वा पेयालं विस्तरेण कर्तव्यं सर्वसत्त्वेभ्यः । नेदं स्थानं विद्यते । अतो न तथागतमुद्राचीवरमन्त्रेण कृतरक्षाविधानेन जापमात्रेण वा स्मरितेन वा नान्यशक्तो भेत्तुं तथागतमन्त्रैर्वा सर्वबुद्धबोधिसत्त्वैश्च भेत्तुम् । वर्जयित्वा तस्यैव साधकस्येच्छया । एवं महाप्रभावो ऽयं मन्त्रः सर्वकर्मिकः ( वैद्य 308 ) सर्वार्थसाधकः सर्वदुष्टविनाशकः सर्वमङ्गलसङ्गतः सर्वार्थपरिपूरकः सर्वदुर्गतिशोधकः सर्वक्लेशनिषूदनो बुद्धधर्मां परिपूरकमिति ।
तदेव हस्तौ पूर्ववत् मध्यमाङ्गुलिमधोनामितौ अनामिकाग्रावस्थितौ अङ्गुष्ठपरिनामितौ तृतीयपर्वमङ्गुष्ठाविश्लेषितौ कन्यसानामितौ चक्राकारौ आराग्रोपेतौ नाभिमण्डलोपेतौ कृत्वा शिरःस्थाने स्थापयेत् । इयं सर्वबुद्धानां धर्मचक्रमुद्रा । मन्त्रं चात्र भवति । ओम् छिन्द छिन्द हन हन दह दह दीप्तचक्र हूं । एष सः सर्वबुद्धानां धर्मचक्रमन्त्रः । सर्वक्लेशनिषूदनः सर्वोपायदुर्गतिविनिपातां छिन्दयति । सर्वबुद्धधर्मां ज्वालयति । सर्वक्लेशान्धकारां आलोकीकरोति । सर्वदुःखां विहेठयति । सर्वकर्मां साधयति । सर्वदुःखेभ्यः प्रमोचयति । सर्वद्रव्यां दीपयति । अयं भगवां धर्मचक्रः परमन्त्रकृतदुष्टसत्त्वोपदेशितप्राणोपहारिणां मन्त्रां हिंसकां रौद्रां विकृतिस्थां छिन्दयति दालयति पाचयति शोषयति उत्सादयति च साधकेच्छया उत्कीलयति मोचयति यथाव्यवस्थायामुपस्थापयति । यथा यथायं भगवां प्रयुज्यते तथा तथा कर्माणि करोति वर्जयित्वाभिचारुकं कामोपसंहितानां च । सर्वशान्तिकर्मसु च प्रयोक्तव्यम् । महारक्षादिभिः सर्वतः सर्वसत्त्वोपकारायैव प्रयोक्तव्यः । सर्वसाधनेषु लौकिकलोकोत्तरेषु मन्त्रमुद्रेषु कल्पोक्तेषु सर्वकर्मसु शान्तिकपौष्टिकेषु महारक्षा अनेनैव प्रयोक्तव्यमिति ।
तदेव हस्तौ प्रहारावर्जितदक्षिणाग्रकरवामहस्ततर्जन्या तर्जयमानं सङ्कोचितक्रकूनिकाग्रन्थान्यप्रयोगावस्थितसन्दशेदोष्ठपुटा जानुभागावस्थितवामचरणविक्षिप्तदक्षिणावनामितौपविष्टकिञ्चित्स्थितकास्थित । इदं भगवत्यापराजिताया महामुद्रा । भवति चात्र मन्त्रः - ओम् हुलु हुलु चण्डालि मातङ्गि स्वाहा । अपराजिताया -
मन्त्रा सर्वबुद्धानां सर्वमारनिषूदनी ।
सर्वविघ्नप्रशमनी आयुरारोग्यवर्धनी ॥ म्म्क्_36.56(="51") ॥
श्रेष्ठा सर्वमन्त्राणां रक्षाकर्मविधानता ।
नरनारीकुमाराणां सौभाग्यजननं परम् ॥ म्म्क्_36.57(="52") ॥
मनुष्यामनुष्याश्च ये चान्ये दुष्टसत्त्वचेतसा ।
राक्षसोस्तारका प्रेता स्कन्दापस्मारगुह्यका ॥ म्म्क्_36.58(="53") ॥
मातृभूतग्रहगणा योगमन्त्रकृतानि च ।
रुजो रोगो व्याधयश्च नानाधातुसमुद्भवाः ॥ म्म्क्_36.59(="54") ॥
सर्पमूषिकलूताश्च कीटविष्फोटकानि च ।
शरीरे न क्रमिष्यन्ति कर्मणान्यत्र पूर्वकात् ॥ म्म्क्_36.60(="55") ॥
अध्ववादविवादेषु राजचोरोदकाग्निषु ।
जयं क्षेमं शिवं शान्तिं लप्स्यते नात्र संशयः ॥ म्म्क्_36.61(="56") ॥
भूर्जपत्रे ऽथवा वस्त्रे लिखित्वान्यत्र वा क्वचित् ।
शिरसा ग्रीवकट्या वा बाहुना पाणिनाथ वा ॥ म्म्क्_36.62(="57") ॥
वस्त्रबन्धं शिखाबन्धं कृत्वा ग्रन्थिमालिकाम् ।
धारयिष्यति यो नित्यं स्वस्ति तस्य भविष्यति ॥ म्म्क्_36.63(="58") ॥
यश्चेमां प्रातरुत्थाय स्वपंश्च परिवर्तये ।
सुखं कालक्रियां कृत्वा सप्तजातीं स्मरिष्यति ॥ म्म्क्_36.64(="59") ॥
रूपवां शीलसम्पन्नो मुखेनोत्पलगन्धिना ।
प्रियश्चादेयवाक्यश्च जात्यां जात्यां भविष्यति ॥ म्म्क्_36.65(="60") ॥
भवन्ति चात्र सिद्धानि मन्त्रपदानि मन्त्रसंज्ञानि यथोक्तार्थकराणि तु । तद्यथा -
भञ्जने स्तम्भने धा धा धा धत्स या या या यते हा हा हा हते परकरणि वीर्येवीर्ये गुणतेजभूतकरि भद्रकरि रौद्रकरि कुम्भवति विषकुम्भवति सर्वबले भूतबले रक्ष रक्ष मां सर्वविषेभ्यः सर्वविघ्नेभ्य । तद्यथा - सिद्धकरि सिद्धार्त्थे सिद्धमनोरथे सिद्धकार्ये फुरु नुरूपे स्वस्ते प्रशस्ते सिद्धि सिद्धार्थे धैर्यवति समने तपने शरणे भद्रे भवति शान्ते दान्ते शिवे हुनुनु परि परित्राणं कुरु, परिग्रहं कुरु, परिपालनं कुरु, शान्तिं कुरु, स्वस्त्ययनं कुरु, मम सर्वसत्त्वानां च रक्षां कुरु स्वाहा । अयं हृदयः अपराजितायाः । पूर्वं मूलविद्या । अवश्यं साधकेन कुशलपक्षाभिमुक्तेन भवितव्यम् । त्रिःकालं जप्तव्यम् । पूर्वतरमेव सकृत् पुस्तकवाचिकायां वाचयेदेतदेव कुशलपक्षं भवति । उपहृदयं चात्र भवति - नमः सप्तानां सम्यक्सम्बुद्धानां सश्रावकसङ्घानां सर्ववैरभयातीतानाम्
विपश्चिनस्तेजसा ऋद्ध्या च शिखिनस्तथा ।
विश्वभुक् प्रज्ञया चैव क्रकुच्छन्दबलेन च ॥ म्म्क्_36.66(="61") ॥
कनकमुनेः शिक्षायां काश्यपस्य गुणोरपि ।
शाक्यसिंहस्य वीर्येण शिवं भवतु सदा मम ॥ म्म्क्_36.67(="62") ॥
तद्यथा - जये विजये अपराजिते मारसैन्यप्रमर्दनीये स्वाहा । सर्वार्थसाधनीये स्वाहा । एषा भगवती सर्वार्थसाधिका यथा यथा प्रयुज्यते, तथा तथा कर्माणि करोति । सर्वत्र च रक्षाविधानेषु प्रयोक्तव्या । अवश्यं साधकेन मनसि कर्त्तव्या । सर्वविघ्नां नाशयति । सर्वमारकर्माणि च विधमयति । सर्वमन्त्राणि चामुखीकरोति । सर्वबुद्धधर्मां परिपूरयति । सर्वलौकिकलोकोत्तराणि च मन्त्रं आकर्षयति । ऊनातिरिक्तं परिपूरयति । सर्वाशां सम्पादयति । सर्वदुष्टां निवारयति । संक्षेपतः साधकस्येच्छया सर्वां करोति । मरणकाले चास्य संमुखं दर्शनं ददाति । सर्वापायदुर्गतिं परिशोषयति । सततजापेन पञ्चानन्तर्याणि क्षपयति । चतस्रो ऽपि मूलापत्तयः तन्वीकरोति । स्मरणमात्रेण जापेनैवोन्मूलयति । सर्वदेवोपपत्तिमनुष्योपपत्तिभ्यो प्रतिष्ठापयति । सर्वबोधिसत्त्वचर्या नियोजयति । सर्वबुद्धधर्मां परिपूरयति । एवमपि भगवती अपरिमितगुणानुशंसा महाप्रभावा सर्वबुद्धानां मुखोद्गीर्णा सर्वमारनिर्नाशनाय भाषिता सर्वतथागतैः सर्वक्लेशशोषणी अप्रतिहता सर्वकर्मसु सर्वरक्षावरणगुप्तयेषु च योजयोतव्या । सर्वबुद्धानां विस्फूर्जितमेतत् । महासिंहनादमेतत् । सर्वचर्यानिश्रयमेतत् । सर्वबुद्धानां बोधिमेतत् । महासमाधिनिष्पन्दितमेतत् । ( वैद्य 310 ) महाप्रातिहार्यऋद्धिमेतत् । सर्वातिशयमेतत् । सर्वशान्तपदमेतत् । सर्वबुद्धास्पदमेतत् । निर्वाणपदमेतत् । स्वस्त्ययनपदमेतत् । अनभिलाप्यपदमेतत् । भूतकोटिपदमेतत् । अभावस्वभावपदमेतत् । यदुत मन्त्रपदं सर्वबुद्धाधिष्ठानपदमिति ।
तदेव हस्तौ करसम्पुटाविन्यस्तौ उभयाङ्गुलिमध्यसूचितौ ललाटदेशे न्यसेत् । एषा अपराजिताया मुद्रा द्वितीया सर्वकर्मिका मूलमन्त्रेण सह विन्यस्ता सर्वाशां परिपूरयति । हृदयस्थाने न्यस्ता हृदयमन्त्रेण संयुक्ता सर्वरक्षोघ्ना सर्वापायदुर्गतींश्च नाशयति । एषा तृतीया भगवत्यापराजितायाः हृदयमुद्रा । तदेव हस्तौ नाभिदेशावलम्बितौ अधोनामितौ करौ । एषा चतुर्था भगवत्यपराजिताया उपहृदयमुद्रा । हृदयमन्त्रेण सर्वकर्माणि करोति । सर्वमङ्गलसंमतानि च सर्वशान्तिः स्वस्त्ययनं च । उदकाभिमन्त्र्य स्नपनं परमसौभाग्यकरणं अलक्ष्म्यापहं लक्ष्मीसञ्जनन श्रिया सम्पत्करणम् । तदेव हस्तौ वक्त्रदेशे स्थापयेत् । इयमपरा महामुद्रा भगवत्यपराजितायाः महामुद्रा पञ्चमं भवति । एवमनेन प्रकारेण असङ्ख्येयानि मुद्राणि भवन्ति । सर्वपराजितमन्त्रेषु च प्रयोक्तव्यमिति । तदेव हस्तं दक्षिणक्षिप्तं ईषिन्मुष्टोपश्लेषितं वामहस्तेन दृढमुष्टिकम् । एषा सर्वबुद्धानां महाशक्तिमुद्रा । मन्त्रं चात्र भवति - ओम् विजये महाशक्ति दुर्धरि हूं फट् विजयिने फट् मङ्गले फट् स्वाहा । तथागतशक्तिमन्त्रा सर्वदुष्टसत्त्वेषु प्रयोक्तव्या । महाभयेषु च प्रत्युपस्थितेषु ग्रामे वा मुद्रोपेता प्रयोक्तव्या सर्वकर्मसु । ग्रहनक्षत्रपीडासु च सर्ववेताडग्रहगृहीतेषु सर्वयक्षराक्षसपिशाचमरुतग्रहब्रह्मराक्षसादिषु गृहीतस्य मुद्रां बध्वा मन्त्राः प्रयोक्तव्याः । तत्क्षणादेव मुच्यति । सर्वमहाश्मशानप्रवेशेषु च प्रयोक्तव्या । सर्वविघ्ना विद्रवन्ति, प्रपलायन्ते सर्वेण सर्वं न भवन्ति । एवंप्रकारान्येकानि सर्वकर्मार्थचित्राणि मन्त्रतन्त्रमाहात्म्यानि साधयति । सर्वरक्षावरणगुप्तिं च करोति । सर्वरक्षोघ्नं च पवित्रं आयुरारोग्यवर्धनमिति ।
तदेव हस्तौ करसम्पुटावस्थौ ईषिन्नामितमध्यमाङ्गुलीयकौ अनामिकावेष्टितकन्यसौ नेत्राकारों उभयाङ्गुष्ठावष्टब्धौ एष भगवतां बुद्धानां तथागतलोचनमहामुद्रा । नेत्रभागे दर्शिता सर्वतथागुणाग्रमात्रा सर्वतथागतानां जनेत्री सर्वविद्यानां प्रभङ्करी सर्वार्थपरिपूरकी सर्वकुदृष्टीनां विशोधनकरी सर्वसत्त्वसम्यग्दृष्टिसञ्जननकरी सर्वतथागतकुलमाता सर्वमन्त्रगोत्रकुलन्धरी सर्वलौकिकलोकोत्तराणां मन्त्राणां परिपूरकी सर्वार्त्थापरिपूरकी समाश्वासिका । भवति चात्र मन्त्रः - ओम् रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा । तथागतलोचनानामहाविद्या । वचन वचन वचन ओम् बुद्धलोचने स्वाहा । इयं सा विद्या वज्रपाणेः सर्वकर्मिका अस्यैव । तदेव हस्तौ पूर्ववत् सम्पुटाकारं कृत्वा मध्यमाङ्गुलिरवनामितौ कन्यसाप्रसारिताग्रौ ईषिदवनामितौ उभयाङ्गुष्ठौ तर्जन्यपरिवेष्टितौ अनामिकासंश्लिष्टौ ईषत्कुञ्चितौ । इयं भगवतो सर्वबुद्धानां ऊर्णामुद्रा । तदेव हस्तौ उभयाग्रौ ललाटदेशे स्थापयेत् । एष सर्वतथागतानां ऊर्णामुद्रा । तदेव हस्तौ उभयाग्रवेणीकृतौ ललाटदेशे मण्डलाकारेणावेशयेत् । ईष तृतीयं ऊर्णामणिरत्नमुद्रा । तदेव हस्तौ उभयतः कुञ्चीकृतौ कन्यसाङ्गुलिवेष्टितौ उभयाङ्गुष्ठसंश्लिष्टौ । ( वैद्य 311 ) इयं चतुर्था ऊर्णामुद्रा । तदेवाङ्गुष्ठावनतौ ललाटदेशे चित्राकारेण दर्शयेदेष सर्वतथागतानां तथागतोर्णा । एते पञ्च महामुद्रा तुल्यवीर्या तुल्यप्रभावा सर्वकर्मिकानि भवन्ति । भवति चात्र मन्त्रः सर्वेषाम् - नमः सर्वतथागतानीभ्यो ऽर्हद्भ्यः सम्यक् सम्बुद्धेभ्यः । हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय धारय निरुन्ध निरुन्धोर्णामणि स्वाहा । भगन्मन्त्रा सर्वोर्णामणिमुद्राणां सर्वकर्मिकाणि भवन्ति । एषा तथागतोर्णामुद्रा अप्रतिहता सर्वकर्मसु सर्वप्रयोक्तव्या । गोरोचनेन तिलकं कृत्वा मन्त्रं जपता तथागतोर्णा सङ्ग्राममवतरे । सर्वशत्रवः स्तम्भिता भवन्ति । दृष्ट्वा तं प्रपलायन्ते । विगतक्रोधाश्च भवन्ति । मैत्रचित्ता हितचित्ता सर्वसत्त्वा समाश्वस्ताश्च भवन्ति । दृष्ट्वा तं रोचनतिलकं कृत्वा सर्वक्रव्यादादयो न शक्यन्ते । दृष्ट्वा तं महाराजमहासत्त्वमहेशाख्यमहोत्साहं ज्वलन्तमिव पश्यन्ते । सर्वदुष्टप्रदुष्टानां सर्वयक्षराक्षसप्रेतपिशाचसर्वग्रहभूतकश्मला रौद्रचित्ता मैत्रचित्ता भवन्ति । अपक्रमन्ते तस्माद् देशात् । सर्वोपद्रवचर्येभ्यश्च मुच्यते । सर्वग्रहगृहीतेषु सर्वमातरबालग्रहेषु ब्रह्मराक्षसादिषु गोरोचनमभिमन्त्र्य ललाटे तिलकं कृत्वा दर्शयेत् । सर्वे दृष्टमात्रा प्रमुञ्चन्ते विद्रवन्ति च प्रपलायन्ते । सर्वेण सर्वं तस्मै न भवन्ति न भूयो गृह्णन्ते । यदि गृह्णन्ति, सर्वेण सर्वं विनश्यन्ति । एवं सर्वग्रहेषु प्रयोक्तव्यः सर्वतः मन्त्रतन्त्राणां कल्पेषु यान्युक्तानि विविधानि साधयति लौकिकलोकोत्तरेषु यानि विधानमण्डलपटसाधनानि तन्यनेनैव साध्यानि क्षिप्रतरं सिध्यन्ते । गोरोचनमभिमन्त्र्य तिलकं कृत्वा शत्रुमध्ये प्रविशेत् । विगतक्रोधा भवन्ति । न शक्यन्ते अभिभवितुम् । महाजनमध्ये जपता प्रविशेत् । सर्वे मैत्रचित्रा भवन्ति । आदेयवाक्यश्च भवन्ति । परैरनभिभवनीयश्च अधृष्यश्च सर्वत्र सर्वभूतानाम् । गोरोचनेनाभिमन्त्र्य सप्तवाराननेन मन्त्रेण तिलकं कृत्वा महाश्मशानं प्रविशेत् । सर्वक्रव्यादाशिनः प्रपलायन्ते । सर्वग्रहमातराश्च नश्यन्ते । अधृष्यो भवति । सर्वमनुष्याणां तेजसा तस्य ज्वलन्तमिव दृष्ट्वा ओजोहारा अपक्रमन्ते । तस्माद् देशा दर्शनमपि न समनुप्रयच्छन्ति । कः पुनर्वादो ओजो हर्तुम् । क्षणमपि नाप्रतिष्ठन्ते । महाश्मशानं परित्यज्य सर्वभूतगणा ये तत्र निवासिनः ते प्रक्रमन्ते । इतश्चा + तश्च न शक्यन्ते प्रेक्षितमपि । कः पुनर्वादो ओजो हर्तुम् हिंसयितुम् वा । एवमपीयं महाप्रभावा सर्वविद्या महर्द्धिका उपपरिवर्तते महाविद्या तथागतोर्णो नाम । असङ्ख्यैश्च बुद्धैर्भगवद्भिः भाषिता गङ्गासिकतप्रख्यैः भाषिता चाभ्यनुमोदिता च । एतर्हि शाक्यमुनिना सम्यक् सम्बुद्धेन भाषिता चाभ्यनुमोदिता च । ये ऽपि ते भविष्यन्त्यनागते ऽध्वनि सम्यक् सम्बुद्धाः ते ऽपि भाषिष्यन्ते । एवमतीतानागतैर्बुद्धैर्भगवद्भिः संवर्णिता सम्प्रशस्ता अनुमोदिता मयाष्येतर्हि शाक्यमुनिना संवर्णिता सम्प्रशस्ता कृताभ्यनुज्ञाता सर्वसत्त्वानां सर्वासां विधितः साधयिष्यन्तीति । यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति । वर्जयित्वाभिचारुकम् कामोपसंहितं चेति ।
तदेव हस्तौ सम्पुटाकारौ कृत्वा अन्योन्यावावेष्ट्य चित्रीकृतौ यात्मोरसि मध्ये स्थापयेत् । एतद् भगवतः समाधिवज्रस्य महामुद्रा । यां बध्वा अवैवर्त्तिको भवत्यनुत्तरायां सम्यक् सम्बोधो ( वैद्य 312 ) नियतस्थम् । भवति चात्र मन्त्रः - नमः समन्तबुद्धानाम् । ओम् विभिदे चूर्णय चूर्णय वज्रधिक् वज्रधिक् हुं हुं जः जः समाधिजः हुं फट् स्वाहा । अल्पमस्य विस्तरेण सर्वं तं प्रयोक्तव्यम् । अपरिमितानुशंशंश्चायम् । भगवां समाधिवज्रः सर्वबुद्धानाम् । तदेव मुद्रां कण्ठदेशे न्यसेत् । इयं सर्वबुद्धानां पद्मपद्ममुद्रा । एतदेव वामपार्श्वे न्यसेत् । उत्पलमुद्रा । एतदेव दक्षिणभुजे न्यसेत् । इयं भगवतो बुद्धस्य कृपालम्बनमैत्रीमुद्रा । एतदेव हस्तौ उभयाङ्गुल्यवेष्टितौ मध्यमाङ्गुलिसम्प्रसारितौ आभोगमण्डलाकारौ हृदयमध्ये न्यस्ता । इयं द्वितीया मैत्रीमुद्रा । सर्वतथागतानां सर्वकर्मिकम् । अप्रतिहता । एवमनेनैव विधिना ललाटे तृतीया, ऊर्ध्वविन्यस्ता चतुर्थ्या, समन्तात् परिभ्रामिता पञ्चमा भवति मैत्रीमुद्रा । ध्यानालम्बनकाले च प्रयोक्तव्या । न सर्वे मानुषा विहेठयन्ति । न चास्य काये किञ्चिदाबाधमुत्पादयन्ति मानुषामानुषा वा सर्वयक्षराक्षसप्रेतपिशाचकटपूतनादयः । सर्वे च मारा मारकर्माणि कुर्वन्ति । सर्वे च विघ्ना अविध्ना भवन्ति । भवति चात्र मन्त्रः - ओम् प्रस्फुर प्रस्फुर कृतालम्बनमन्त्रात्मक हां । एष भगवतो मैत्री प्रयोक्तव्यः । तदेव हस्तावन्योन्यावावेष्ट्य वेणिकाकारौ कृत्वा मण्डलाद् व्यवस्थापयेत् । ज्येष्ठाङ्गुलीयकावूर्ध्वस्थितौ ललाटदेशे न्यसेत् । एष भगवतो बुद्धस्य महाकरुणामुद्रा । मन्त्रं चात्र भवति - ओम् विश्वे स्वाहा । सर्वकर्मिका । सत्त्वानां प्रयोक्तव्या । करुणात्मका भवन्ति । तदेव हस्ताबुद्धेष्ट्य चित्रीकृतावभयावस्थितौ । एषा बुद्धस्य भगवतो महामुद्रिता मुद्रा । मन्त्रं चात्र भवति - - ओम् मुनिमुनिगगन स्वाहा । एषा भगवती सर्वकर्मिका सर्वासां परिपूरयति प्रमुदितेन चेतसा प्रयोक्तव्या । सर्वं करोति । सर्वमन्त्रकल्पेषु यानि कर्माणि सर्वलौकिकलोकोत्तरेषु तान्यशेषतो साधयतीति । तदेव हस्तावुभयाङ्गुष्टविन्यस्तौ चित्रीकृतौ ललाटे दर्शयेदेषा भगवतस्तथागतप्रेक्षामुद्रा सर्वकर्मिका सर्वार्थसाधिका । मन्त्रं चात्र भवति - ओम् महद्गते उपेक्षय सर्वधर्मां विश्वात्मने विश्वमूर्त्ति ज्वल ज्वलय सर्वबुद्धधर्मां हुं फट् स्वाहा । षट्पारमितासु च षण्मुद्रा भवन्ति । तदेव हस्तौ वरप्रदानौ । इयं दानपारमिता महामुद्रा । तदेव हस्तौ अन्योन्यसङ्कुचितौ नाभिदेशे स्थापितौ । इयं शीलपारमिता महामुद्रा । तदेव हस्तौ अधः कृत्वा कक्षाभ्यां सन्नियोज्य स्थापयेदियं क्षान्तिपारमिता महामुद्रा । तदेव हस्तौ भुजोपरि स्थापयेत् । परामृश्यमाना विपर्यस्ताकारेण । इयं वीर्यपारमिता महामुद्रा । तदेव हस्तौ पर्यङ्कं बध्वा मुपरि स्थापये वामदक्षिणमुपरि निबध्य च पर्यङ्कासने सर्वसत्त्वानां करुणाया माना ध्यानालम्बनगतदृष्टि । इयं भगवत्या ध्यानपारमिताया महामुद्रा । तदेव ध्यानपारमितामुद्रं पर्यङ्कमभिन्द्य धर्मदेशनाकारा । इयं भगवत्या प्रज्ञापारमिताया महामुद्रा । तदेव पर्यङ्कमभिन्द्यात् । वामहस्त पर्यङ्के न्यस्य दक्षिणहस्तमवलम्ब्य भूमौ स्पृशेत् वज्रासनाकारेण । इयं भगवती सर्वबुद्धानामनुत्तरायां सम्यक् सम्बुद्धौ महामुद्रा सर्वबुद्धधर्माणामेषा एव महामुद्रा । सर्वेषां मन्त्राणि भवन्ति - ओम् दाने दद दद ददापय ज्वल ज्वल सर्वबुद्धाधिष्ठिते हुं हुं जः स्वाहा । एषा दानपारमिताया महामुद्रा । ओम् शील शीलाढ्ये शान्तिकरणि शिवे प्रशस्ते सर्वबुद्धाधिष्ठिते स्वाहा । शीलपारमिताया महामुद्रा - ओम् शान्ते श्रीकरि क्षान्ते क्षान्तिकरि स्वाहा । इयं ( वैद्य 313 ) क्षान्तिपारमितायाः । ओम् वीर्ये वीर्यमिति सर्वबुद्धाधिष्ठिते स्वाहा । अभावस्वभावे स्वाहा । वज्राक्रमणि स्वाहा । इयं वीर्यपारमितायाः । ओम् शान्तिकरि धूधूधूर्धरि धैर्ये वीर्ये गगने रमणे ध्यानवति स्वाहा । इयं ध्यानपारमितायाः । ओम् धीः धूः इयं प्रज्ञापारमिता । ओम् त्रायाहि भगवति सर्वबुद्धजुष्टे अनालम्बने गगनस्वभावे धर्मधातुमनुप्रविष्टे आलोककरि विधमय विधमय सर्वक्लेशान्धकारम् । च्छोषय तारय माम् । अमूर्त्तिजे हुं हुं दालय सर्वकर्मां हुं फट् स्वाहा । एषा भगवती बुद्धानां भगवतां महाबोधिमन्त्रा सर्वकर्मिक सर्वार्थसम्पादिकाः सर्वानर्थप्रतिघातिकाः सर्वबुद्धधर्मां पारिपूरिका सर्वक्लेशां निषूदिनी सर्वमन्त्रां परकर्मकृतां विनाशनी सर्वमारविद्रापणी सर्वलौकिकलोकोत्तराणां मन्त्राणां प्रसाधनी सर्वपापां विधमनी सर्वदुर्गतिशोषिका सर्वदेवमनुष्येषु सर्वबुद्धधर्मेषु प्रतिष्ठापनीति । संक्षेपतो यथा यथा प्रयुज्यते, तथा तथा कर्माणि करोति । न शक्यमस्याः कल्पकोटीभिर्गुणमाहात्म्यं संवर्णनं असङ्ख्येयैश्च बुद्धैर्भगवद्भिः प्रभावविकुर्वणचर्याधिष्ठानऋद्धिबलाधान भाषितुं वर्णयितुं वा । एवमस्या भगवत्या अपर्यन्तगुणविस्तारमाहात्म्यस्य विकुर्वण इति षट्पारमितामपि विस्तरेण कर्त्तुम् । समासतो निर्देशप्रभावचर्या ऋद्धि च गुणगोत्रमधिष्ठितचर्या सर्वतो ज्ञेया विशेषाधिगमो ऽपि वा ।
गगनस्वभावा धर्माख्यां भावाभावविचारताम् ।
कल्पकल्पाक्षरं प्रयोक्त + + कर्मसिद्धिषु ॥ म्म्क्_36.68(="63") ॥
पुष्कलां कथिता ज्ञेभिः क्षिप्रं फलाकारसमुद्भवम् ।
गगनस्वभावमन्त्रार्थं मक्षरव्यक्तिभूषितम् ॥ म्म्क्_36.69(="64") ॥
फलन्ति बहुधा काले युक्तिमात्रि दभिमूक्षिता ।
मुद्रातं वै सविस्तरं कथितं तत्त्वचेष्टिभिः ॥ म्म्क्_36.70(="65") ॥
मन्त्रतन्त्रगतिं कालो नियमश्चैव सुयोजिता ।
जपो होमादिभिर्ज्ञेयं फले तत्त्वसमुद्भवे ॥ म्म्क्_36.71(="66") ॥
आश्रयाय न द्रव्याणां गतिर्लक्षणसुलक्षितम् ।
मन्त्रबोध स्वमन्त्रं च कुलयोनिसमोदयाः ॥ म्म्क्_36.72(="67") ॥
लक्ष्यते सिद्धिकालो हि मुद्राचिह्नसमुद्भवम् ।
तत्त्वनिष्ठागतो मन्त्री जपेन्मन्त्रं समाहितः ।
सिद्धयः सिद्धहेतुत्वं दर्शयेत् कुलदेवताम् ॥ म्म्क्_36.73(="68") ॥
एता मुद्रा वराः प्रोक्ता मन्त्राश्चैव महायशाः ।
सिध्यन्ते विधिना युक्ता यथेच्छा मानसोद्भवे ॥ म्म्क्_36.74(="69") ॥
इति ॥
तदेव हस्तौ परिवेष्टिताङ्गुलीयकौ दक्षिणाङ्गुष्ठावनामितौ वामाङ्गुष्ठाधस्थितौ । एषा सर्वबुद्धानां हृदयमुद्रा सम्यक्सम्बुद्धैस्तु भाषिता सर्वकर्मिकास्तु । भवति चात्र मन्त्रः - ओम् त्रैलोक्यपूजिताय हूं फट् स्वाहा । सर्वकर्मकरा भवन्ति । सर्वमण्डलविधानेषु प्रयोक्तव्या सर्वैः सत्त्वानां महारक्षादिषु । तदेव हस्तावुभयाग्रौ सङ्कोचितावूर्ध्वमेतमध्यमाङ्गुलीयकौ । इयं भगवतां
( वैद्य 314 ) सर्वबुद्धानां मूलमुद्रा । भवति चात्र मन्त्रः - ओम् द ददातु दण्ड हुं । ओम् सर्वसत्त्वामृतप्रदेशिकंकराय स्वाहा । दण्डकमण्डलू उभौ मूलमन्त्रौ । अनेन सर्वकर्माणि कारयेत् । सर्वत्र च सर्वमन्त्रेषु प्रयोक्तव्यः सर्वसिद्धददः सर्वरक्षाविधानेषु प्रयोजितव्यौ । तदेव हस्तौ उभयकराबलग्रौ । अन्योन्यावसक्तवेणिकौ शिरस्स्थाने स्थापयेत् । विशेषेषु प्रयोक्तव्यः । भवति चात्र मन्त्रः - ओम् ज्वल ज्वल सर्वबुद्धाधिष्ठिते स्वाहा । अनेन तथागतकुले सर्वकर्माणि कारयेत् । आर्यमञ्जुश्रियो मन्त्रेण वा रक्तेन करवीरेण मालतीकुसुमेन वा द्रव्यस्योत्तेजनं कार्यम् । मञ्जुश्रीमूलमन्त्रेण सर्वतो योज्यम् । सर्वतश्च प्रयोजयितव्यः सर्वकर्मसु । तदेव हस्तौ उभयवेणिकाकारौ शिरःस्थाने स्थापयेत् । सर्वबुद्धानामुष्णीषमहामुद्रा । मन्त्रं चात्र भवति - ज्रीं । सर्वकर्मिको ऽयमुष्णीषराजा । तदेव हस्तौ पद्माकारं कृत्वा हृदये स्थापयेत् । इयं पद्मकुले ऽवलोकितमहामुद्रा सर्वकर्मिका । मन्त्रं चात्र भवति - ज्रीः । तदेव हस्तौ कुड्मलपद्माकारौ नाभिमध्ये स्थापयेत् । इयमपरा अवलोकितस्य सर्वविघ्नप्रशमनी नाम महामुद्रा । मन्त्रं चात्र भवति - जिः । अयं सर्वकर्मिको ऽवलोकितसर्वभयेभ्यः प्रयोक्तव्यः । तदेव हस्तौ सुशिराकारौ कृत्वान्योन्यप्रतिकूलाङ्गुलिभिर्ललाटदेशे न्यशेदियं सर्वबुद्धानां प्रभावमानसोद्भवं नाम महामुद्रा । मन्त्राणि चात्र प्रयोक्तव्यानि । एकाक्षराणि चतस्रः - ताः । वाः । द्रोः । हाः । एत मन्त्रा एकाक्षरा चतश्रश्चतुर्भिर्बुद्धकोटिभिर्भाषिता सर्वबुद्धानामुष्णीषराजानः सर्वेषां विद्यामहर्द्धिकानां प्रभावा सर्वधर्माश्रयाच्चतुऋद्धि पञ्चचरणाश्चतुरार्यसत्यमास्था बोधिप्राग्भारशिरा चतुर्विमोक्षचतुर्ध्यानसमाधिभिः सर्वैरासेवनीया अप्रकम्प्या सर्वलौकिकलोकोत्तरादिभिर्मन्त्रतन्त्रः परमेश्वराः सर्वविद्याराजा चक्रवर्तीनां ज्येष्ठा सर्वमन्त्राणाम् अचिन्त्या सर्वसमाधिविशेषाणां बोधिप्राप्तामिति महासत्त्वैस्त्रैलोक्याधिपतयो सर्वकुलमन्त्रतन्त्रादिषु अगम्यां सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धैः । एवमचिन्त्या अश्वभावा अलङ्घ्या गगनस्वभावभूतकोटिधर्मधातुमनाविलप्रतिष्ठा इति संक्षेपतः सर्वकर्मसु प्रयोक्तव्या इति । अनेनैव सर्वकर्माणि कारयेत् । विशेषतः आर्यमञ्जुश्रियः मूलकल्पविधानेष्विति । तदेव हस्तौ सम्पुटाकारौ शिरःस्थाने मुपदर्शयेत् । इयं सर्वतथागतकुले सर्वविषनाशिनी नाम महामुद्रा सर्वविषकर्मसु प्रयोक्तव्या । ट्रों ।
अनेन मुद्रया युक्त मन्त्रो ऽयं बुद्धभाषितः ।
निर्विषां कुरुते क्षिप्रं सत्त्वां स्थावरजङ्गमाम् ॥ म्म्क्_36.75(="70") ॥
निर्विषां कुरुते नागां उद्युक्तां विषदर्पिताम् ।
सर्वदोषां तथा हन्ति + + + रागद्वेषजा ॥ म्म्क्_36.76(="71") ॥
परा मोहजाश्चैव मन्त्रो ऽयं मुद्रेण योजितः ।
विविधां कुरुते कर्मां विषसत्त्वसमुद्भवाम् ॥ म्म्क्_36.77(="72") ॥
संक्षेपत इयं मुद्रा ।
विन्यस्ता मन्त्रयानेन विविधां च विषोद्भवाम् ।
कर्मां करोति विषं चास्य वशो भवति यदृच्छया ॥ म्म्क्_36.78(="73") ॥
इति लक्षजप्तेन । तदेव हस्तौ समयवज्राकारौ उभयत्रिसूचिकौ वामहस्तादधःस्थितः दक्षिणहस्तादूर्ध्वविपर्यस्तं कृत्वा शिरःस्थाने न्यसे । तदेव वज्राधिपतेर्हृदयमुद्रा सर्वकर्मिका । मन्त्रं चात्र भवति - हूं । सर्वकर्मिको ऽयं सर्वार्थसाधकः सर्वक्रूरग्रहेषु प्रयोक्तव्यः नान्यथा विचिकित्सा कार्या । ओम् भद्रे भद्रवति करटे रत्न विरत्न स्वाहा । अस्य जापः प्रथमं कार्यः अष्टशतम् । ततो मञ्जुश्रीः सिद्ध्यतीति । तदेव हस्तौ उभयकुञ्चिताग्राङ्गुलीयकौ मूर्ध्नि स्थापयोदियं समन्तभद्रस्य बोधिसत्त्वस्य महामुद्रा । सर्वकर्मेसु प्रयोक्तव्या सर्वरक्षेषु प्रतिकृता सर्वार्थसाधनी मञ्जुश्रियसाधनेषु च पूर्वमारभेत् पश्चात् कर्मं कुर्यात् कुलत्रयसामान्यमिति । तदेव मुद्रं आर्यसमन्तभद्रस्य ललाटे न्यसेत् । आकाशगर्भस्य महामुद्रा । मन्त्रं चात्र भवति सर्वकर्मिकम् - स्वं । तदेव मुद्रं गलदेशे स्थापयेत् । इयं विमतेलगते महामुद्रा । मन्त्रं चात्र भवति सर्वकर्मिकम् - लं । तदेव मुद्रां उरभि मध्ये स्थापयेत् । मैत्रेयस्य महामुद्रा । मन्त्रं चात्र भवति - मं । तदेव हस्तौ पूर्ववन्नाभिदेशे स्थापयेत् । क्षितिगर्भस्य महामुद्रा । मन्त्रं चात्र भवति सर्वंकर्मिकम् - क्षिं । तदेव मुद्रा कटिदेशे नियोज्या ऊर्ध्वं क्षिपेत् । इयं गगनगञ्जस्य मुद्रा । मन्त्रं चात्र भवति सर्वकर्मिकम् - गं । तदेव मुद्रां उभौ भुजे न्यस्य शिरसि भ्रामयेत् नृत्तयोगेन । इयं सर्वबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धानाम् । भवति चात्र मन्त्रः - घ्रुः । एषोपरिमितानुशंसकर्मप्रभावविस्तारा सर्वतः द्रष्टव्यगुणमहात्म्ययोगेन । तदेव मुद्रं ऊर्ध्वमवलोक्यावनामयित्वा ऊर्ध्वं क्षिपेत् नृत्तयोगेन । इयं सर्वदेवानां त्रिधातुस्थितानां अनन्तलोकधातुपर्यापन्नानां ऊर्ध्वमधस्तिर्यक् सर्वतः सर्वसत्त्वानां यक्षयक्षीराक्षसराक्षसी विस्तरेण सर्वेषां इयं महामुद्रा सर्वत्रतालल्या नाम सर्वकर्मसु प्रयोक्तव्यः । आह्वाननविसर्जनमण्डलपटलविधानसर्वसाधनेष्वपि कर्मसु प्रयोक्तव्यः । मन्त्रं चात्र भवति - ओष्ट्रै । तदेव हस्तौ अञ्जलिकृताकारौ मूर्ध्नि न्यसेदेषा सर्वमन्त्रेषु महाबन्धनान्तरावणमहामुद्रा । कटिदेशे च भ्रामयितव्या । भवति चात्र मन्त्रः - ग्यं जये कुमारि शुक्लबन्धनि स्वाहा । अष्टशतजप्तं सूत्रकं कन्याकर्तितकं कट्यां बन्धयेत् । शुक्रबन्धः कृतो भवति । सर्वदिशांश्च व्यवलोकयेत् । सर्वविघ्नाः स्तम्भिता भवन्ति । सर्वतश्च रक्षा मुद्राबन्धमतः साधकेन सर्वकर्मसु । अयं प्रथमतः प्रयोगः कार्यः । पश्चात् कर्माणि कर्तव्यानीति । एवमष्टाविंशकं शतं भवति मुद्राणाम् । साधकेन यथेच्छयान्यतरं प्रयोक्तव्यं सर्वकर्मसु सर्वाणि वा । एवमसङ्ख्येयानि अनेन प्रयोगेण मुद्राणि भवन्ति । असङ्ख्येयाश्च मन्त्रा । तदेव हस्तौ करसम्पुटाकारौ स्थितौ अन्योन्याङ्गुलिभिः समस्तव्यस्ताभिरुभयाङ्गुष्ठोपशोभिताभिः पञ्चसूचिकाकारेण उभौ मुष्टीकृतौ शिरःस्थाने मूर्धनि न्यसेत् । इयमार्यमञ्जुश्रियः पञ्चशिखा नाम महामुद्रा सर्वकर्माणि करोति । अङ्गुष्ठाक्षेपविक्षेपां सङ्कुचितैराह्वाननं विक्षिप्तैर्विसर्जनम् । एवं मनसा सर्वप्रयोगैः सर्वकर्माणिः करोति । मञ्जुश्रीमूलमन्त्रहृदय उपहृदय सर्वमन्त्रेषु वा संयुक्तः सर्वार्थकरा भवति । तदेव मुद्रां त्रिसूच्याकारम् । एषा मञ्जुश्रियस्य त्रिशिखेति कथ्यते । तदेक कन्यसाङ्गुलिभिः सूच्याकारं एकचीरेति अवगन्तव्यम् । उभौ करसम्पुटावस्थितौ सर्वतो नामितौ अङ्गुलिभिः सुरचितविन्यस्ता ( वैद्य 316 ) गाढावसक्तं मूर्ध्ना स्थापितम् । एषा मञ्जुश्रियस्य सर्वशिरोभ्युद्गतं नाम महामुद्रा । तदेव हस्तौ ततोच्चवाग्र उत्तानकावस्थितौ वक्त्रमध्ये धारयेदियं मञ्जुश्रियः महावक्त्रमुद्रा । तदेवावतार्य हृदयमध्ये न्यसेत् । इयमपरा मञ्जुश्रियः हृदयमुद्रा । तदेव हस्तौ अर्धावस्थितौ किञ्चिन्नामितललाटस्थौ । इयमपरा हृदयमुद्रा । तदेव हस्तौ उद्धृत्य मध्यमाङ्गुलिमवनामितौ अनामिका अवनामितदर्शिताग्रौ तर्जन्या कृतवेष्टितौ अङ्गुष्ठपार्श्वासु प्रसारितौ । इयमपरा वक्रदंष्ट्रमहामूलमुद्रा सर्वमहाभयेषु प्रयोक्तव्या । द्वौ मृसृतौ तदेव । इयमपरा मञ्जुश्रियः उत्पलमुद्रा । तदेव बद्धौ अवनाम्य संवेष्टितौ । मञ्जुश्रियः मयूरासनमुद्रा । तदेव तर्जन्या कन्यसावष्टब्धौ उभयपार्श्वयोः तिर्येकं पीठाकारेण । इयमपरा भद्रपीठमुद्रा । तदेवाङ्गुलिमुष्टीकृतौ तर्जन्येकोच्छ्रिता । इयमपरा यष्टिमुद्रा । द्विरुच्छ्रितौ ध्वजमुद्रा । त्रिरुच्छ्रितौ पताकामुद्रा । चतुरुच्छ्रितौ घण्टा । तदेव हस्तं तर्जन्योपरिस्थितौ तं छत्रमुद्रा । सर्वेष्ववनतेषु फलमुद्रा । हुं । अङ्कुशाग्राङ्गुले तर्जन्यां वस्थितं अङ्कुशमुद्रा । तदेव तर्जनीं दृढमुष्टावस्थितं मुष्टिमुद्रा । तदेव सूच्याग्रस्थितौ तिर्यक् शूलमुद्रा । उभयतर्जन्योपेतं महाशूलमुद्रा । एकाङ्गुष्ठोच्छ्रितं एकलिङ्गमुद्रा । तदेव मुद्रा हृदये स्थापयेत् । मनोरथमुद्रा भवति । तदेव हस्तौ सम्पुटाकारे यमलं कृत्वा उपर्युपरि यमलमुद्रा । तदेव कुड्मलाकारं विकाश्य मूर्ध्नं क्षिपेत् उत्पलमुद्रा । तदेव पूर्णमाकाशाकारं पूर्णमुद्रा । मूर्ध्नि स्थिता तदेवाध मुष्ट्योपरचितं मञ्जुश्रियः यष्टिमद्रा । पुनः चित्रीकृतौ करौ स्वस्तिकं मञ्जुश्रियस्योर्ध्वगं मालतीकुसुमानरक्तं सर्वं बन्धितव्यम् । तदेव हस्तौ विपरीतवेष्ट्य मध्यमाङ्गुलिप्रसारिताग्रम् । इयमपरा कार्त्तिकेयस्य मञ्जुश्रियः शक्तिमुद्राः । घण्टा पताका च पूर्ववद् ज्ञेया । तदेव हस्तौ सम्पुटीकृत्य विकासयेत् । इयमपरा पद्ममुद्रा मञ्जुश्रियः । तदेव हस्तौ तिर्यगवस्थितौ सुनेत्रीकृतौ स्वस्तिकाकारं कारयेत् । अङ्गुलीभिश्चतुर्भिश्चतुर्दिश्यवस्थितौ सुप्रसारितौ मध्यसुविन्यस्तैः । इयमपरा मञ्जुश्रियः स्वस्तीकमुद्रा । तदेव हस्तौ करपल्लवाकारौ अन्योन्यविश्लिष्टौ अङ्गुलीभिः । इयमपरा पल्लवमुद्रा । तदेव मुष्ट्यौ कृतौ । इयमपरा सर्वबुद्धास्पदमुद्रा । मञ्जुश्रियः तदेव धर्मभेरीमुद्रा । तदेव हस्तौ सम्पुटीकृतौ मध्ये सुषिरौ तर्जन्या परिवेष्ट्य मूलाङ्गुष्ठतलविन्यस्तौ अङ्गुष्ठावनतौ शङ्खाकारकृतचिह्नौ । इयमपरा मञ्जुश्रियः धर्मशङ्खमुद्रा । चक्रं पूर्ववत् । धर्मचक्राकारं इयमपरा मञ्जुश्रियः धर्मचक्रमुद्रा । तदेव मुद्रं ललाटे न्यस्तं नृत्ययोगं कृत्वा क्षिपेदवसव्ययोगेन । इयमपरा महाक्रीडाविकुर्वाणमुद्रा । मूलमन्त्रेणैव महाभयेभ्यो प्रयोक्तव्या नश्यन्ते अविकल्पत इति ।
एवमनेन प्रयोगेणासङ्ख्येयानि मुद्राणि भवन्ति । असङ्ख्येयाश्च मुद्राकल्पमन्त्रतन्त्राश्च । असङ्ख्येयानि च द्रष्टव्यानि । महाप्रभावोद्गतस्वयम्भुवोद्भवाः । तानि च सर्व प्रयोक्तव्यानि । इह कल्पविसरे सर्वाणि च शुचिवस्त्रान्तरावनद्धेन प्रयोक्तव्यानि । यथा असमयज्ञैः सत्त्वैर्न दृश्यन्ते । एवं महाप्रभावानि । अन्यथा समयव्यतिक्रम इति । एता साधनोपयिकानि करमुद्राणि हस्तविन्यस्ता नृत्तगीतप्रयोगैश्चानेकानि भवन्ति । रुतविशेषैश्च सत्त्वानां क्रमशः कथित एवमधुना मण्डलसाधनोपयिकानि महामुद्राणि भवन्ति ।
सर्वबुद्धानां तथा स्तूपा भुवि धातुपरं पटे ।
बोधिसत्त्वानां तथा पद्म श्रावकाणां परिमण्डलम् ॥ म्म्क्_36.79(="74") ॥
चतुरस्रः प्रत्येकबुद्धानां कथिता त्रिमण्डलो ।
नानावाहननाना विविधाभरणविभूषणा ॥ म्म्क्_36.80(="75") ॥
नानाप्रहरणाश्चैव देवयक्षग्रहापराम् ।
नृपां पुरुषमतः स्यात् ऋषीणां दण्डमकण्डलुः ॥ म्म्क्_36.81(="76") ॥
यस्य यो प्रहरणं नित्यं यो वा वाहनभूषणा ।
तस्य कुर्यान्मुद्रा संक्षेपान्मण्डलेष्विह ॥ म्म्क्_36.82(="77") ॥
आदित्यचन्द्रौ तदा कुर्यान्मण्डलोपरिमण्डलौ ।
संक्षेपाद् यस्य यो भूमि तदेव मनसाह्वये ।
विविधाः प्राणिनो प्रोक्ता तेषां तेषां तदा न्यसेत् ॥ म्म्क्_36.83(="78") ॥
बहुप्रकारा सत्त्वाख्या बहुमुद्राश्च प्रकीर्त्तिता ।
तेषां कर्मतो कुर्याद् विधानेन मण्डले ॥ म्म्क्_36.84(="79") ॥
ब्रह्मस्य पद्मं शक्रस्य वज्रं वरुणस्य पाशं रुद्रस्यं शूलं दुर्गस्य पट्टिशं ऋषिस्य कमण्डलु यमस्य दण्डं धनदस्य गदा कुबेरस्य खड्गं हुताशनस्याग्निकुण्डं पृथिव्या कलशः एवमादयो यथा यस्य प्रहरणानि आभरणानि च लोके ऽद्य दृष्टानि तानि सर्वत्र यथानुस्मरतः विधिना तानि सर्वाणि सर्वमण्डलेषु प्रयोक्तव्यानि कल्पोक्तेन वा विधानेनालिखितव्यानि सर्वमण्डलानि सर्वसत्त्वानां अर्थाय हिताध्याशयेन चेतसा सर्वसत्त्वानां करुणायमानेन उत्पादितबोधिचित्तेन सर्वसत्त्वानुकम्पयमानेन सर्वमण्डलान्यभिलिखितव्यानि सर्वमण्डलाभिषेकाभिषिक्तैः महामण्डलाभिषिक्तैर्वा । आर्यमञ्जुश्रियः दृष्टमण्डलाभिषिक्तेन । अन्यवश्यं सर्वमण्डलां लिखेत । आर्यमञ्जुश्रीः मनसि कर्तव्यः । यत् कारणम् । अभिषिक्तो मया सर्वबुद्धैश्च गङ्गासिकताप्रख्यैः सर्वमन्त्राणां गम्भीरतत्त्वार्थनयधर्मदेशना कुमारबालरूपिणा मन्त्ररूपेण सत्त्वानामर्थं करिष्यसीति ॥
न मन्त्रमुद्रसंयुक्तं न कुर्याद् धर्मसमाहितम् ।
अहितं कुर्यान्नात्र नाहितं हितमीप्सितम् ॥ म्म्क्_36.85(="80") ॥
मुद्रामन्त्रसमायुक्तो अहितं चैव निवारयेत् ।
हिताहितं सदा सर्वं अहितं चैव निवारणम् ॥ म्म्क्_36.86(="81") ॥
हितैव सर्वमन्त्रो कुर्यान्मन्त्रमुद्रितो ।
न मुद्रमन्त्र तत्कुर्यान्न मन्त्रं मुद्रितं तथा ॥ म्म्क्_36.87(="82") ॥
मुद्रार्थसंयुक्तो सफलार्था साधयिष्यते ।
सफलं मुद्रसंयुक्तो मन्त्रो मुद्रफलोदयः ॥ म्म्क्_36.88(="83") ॥
साधयेत् कर्मविस्तारं मुद्रसमं चिन्ता ।
शान्तिका ये तु मुद्रा ये मन्त्रा चैव शान्तिके ॥ म्म्क्_36.89(="84") ॥
मन्त्रमुद्रसमायोगा शान्तिकं कर्ममारभे ।
पौष्टिकेषु च मन्त्रेषु बध्नीयान्मुद्रसम्भवम् ॥ म्म्क्_36.90(="85") ॥
पौष्टिकं मुद्रमित्याहुः कथिता मन्त्रयोजिता ।
शान्तिके शान्तिकं कुर्यात् मुद्रमन्त्रेष्विहोदितैः ॥ म्म्क्_36.91(="86") ॥
जिनैः जिनमन्त्रमुख्यैस्तु मुद्रैश्चापि विभागतः ।
शीतलेषु च सर्वर्तुसर्वकर्मांश्च साधयेत् ॥ म्म्क्_36.92(="87") ॥
पुष्ट्यर्थं कथिता मन्त्राः अब्जकुले तु समुद्भवा ।
मन्त्रतन्त्रानि तीक्ष्णैः मुद्रैश्चापि तवोदितैः ॥ म्म्क्_36.93(="88") ॥
विख्यातैः कथितैर्मन्त्रैः मुद्रैश्चापि महर्द्धिकैः ।
अब्जके तु समादिष्टैः शुचिभिश्चैव दीपितैः ॥ म्म्क्_36.94(="89") ॥
प्रशस्तैः मङ्गलैश्चापि आरोग्यार्थसुपुष्कलैः ।
क्रोधयुक्तैस्तथा मन्त्रः मुद्रैश्चापि वर्णितैः ॥ म्म्क्_36.95(="90") ॥
भोगार्थसम्पदोद्दिष्टैः निर्मलैश्चापि शोभनैः ।
शुक्लैः सितमुद्रैस्तु मन्त्रमुद्रसमोदितैः ॥ म्म्क्_36.96(="91") ॥
साधयेत् सम्पदां मन्त्रां भोगकारा जन्मनि ।
तथाविधैः मन्त्रमुद्रैस्तु साधिता सफलोदया ॥ म्म्क्_36.97(="92") ॥
क्रोधमन्त्रा तथा प्रोक्ता मन्त्राद्या प्राणोपरोधिका ।
कथिता वज्रिणे तन्त्रे जिनाब्जे च समुद्भवे ॥ म्म्क्_36.98(="93") ॥
तेजिनो बहुधा उग्रा दुष्टसत्त्वदमापहा ।
नियुक्ता प्राणहिंसायां न कुर्यात् तां तु धीमता ॥ म्म्क्_36.99(="94") ॥
मुद्रा च दण्डदमनवज्रशूलाभिपट्टिशा ।
विविधा प्रहरणांश्चैव महाशूलास्तु यमान्तके ॥ म्म्क्_36.100(="95") ॥
संयुक्ता मन्त्रिभिः क्षिप्रं कृत्वा प्राणापहं ध्रुवम् ।
तन्न कुर्याच्च तं धीमां सर्वप्राणोपरोधिनम् ॥ म्म्क्_36.101(="96") ॥
भजेन्मन्त्रतन्त्रज्ञः क्रूरं क्रूरसमुद्रितम् ।
मुद्रा क्रूरतरः प्रोक्ता क्रूरमन्त्रेषु योजिता ॥ म्म्क्_36.102(="97") ॥
क्रूरसत्त्वैः यथा सिद्धा क्रूरकर्मान्तचारिभिः ।
विविधां नारकां दुःखां प्राप्नोतीह स दुर्मतिः ॥ म्म्क्_36.103(="98") ॥
न कुर्यात् क्रूरमन्त्रेभ्यो दुःशीलानां चाभिचारुकम् ।
क्रूरमन्त्र तथा मुद्रं न दद्युः सर्वतो जनाः ॥ म्म्क्_36.104(="99") ॥
यस्मात् फलमनिष्टं वै रनुभूये पुनः पुनः ।
न विद्या सुखं तदा मन्त्री क्रूरक + + ॥ म्म्क्_36.105(="100") ॥
+ + + + + + + + + + + + + + + + + + समोदिता ।
त्रिधा + + + + + + + + + + + + सिद्धिषु दृश्यते ॥ म्म्क्_36.106(="101") ॥
इष्टं इष्टफलायत्तं + + + + + + + + + + ।
होमं क्रूरकर्मेषु तस्माद्धर्मां विवर्जयेत् ॥ म्म्क्_36.107(="102") ॥
मुनिश्रेष्ठो स योगा + + + + + + + + + + + + + ।
+ + + + + अब्जिनो गीता हीना क्रूरकर्मभिः ॥ म्म्क्_36.108(="103") ॥
गीता वज्रकुले मन्त्रा त्रिधा ते परिकीर्त्तिता ।
हीनोत्कृष्टम + + + + + + + + + + + + + + ॥ म्म्क्_36.109(="104") ॥
+ + मुद्रसमुद्देशं बहुमन्त्रार्थविस्तरम् ।
कथिता जिनवरैः पूर्वं अधुना ये इहोदिता इति ॥ म्म्क्_36.110(="105") ॥
बोधिसत्त्वपिटकावतसंकात् आर्यमञ्जुश्रियमूलकल्पात् चतुस्त्रिंशतिमःमहामुद्रापतलविसरः परिसमाप्त इति ॥
अथ सप्तत्रिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीये मूलकल्पे अपरमपि मुद्रा परमगुह्यतमम् । सर्वेषां मुद्रातन्त्रविधानं सर्वमन्त्राणां सम्मतं सर्वमन्त्रैश्च सह संयोज्य सर्वकर्मप्रसाधकं सम्यक् सम्बोधिमार्गविशोधकं सर्वभवमार्गविनाशकं सर्वसत्त्वोपजीव्यं आयुरारोग्यैश्वर्यसर्वाशापारिपूरकं सर्वबोधिपक्षधर्मपरिपूरकं सर्वसत्त्वसन्तोषणकरं सर्वसत्त्वमनाशाभिरुचितसफलाभिकरणं सर्वकर्मकरं सर्वमन्त्रानुप्रसाधकं सर्वमुद्रामन्त्रसमेतम् । शृणु कुमार मञ्जुश्रीः ।
आदावेवोष्णीषलक्षणं भवति । प्रसृतसमोहानोभयपाणिना जिह्वा आनामिकाङ्गुल्यौ करमध्ये नखे नखं परिधाय अङ्गुष्ठाग्रेणोपगूढाः कन्यसौ सूच्याकारेण संहताग्रा तथैव मध्यमा समनखशिखासंसक्तमध्यगौ प्रदेशिन्यौ सूच्याकारसमन्तावभासोष्णीषमहालक्षणं नाम महामुद्रा । भवति चात्र मन्त्रः - आः मः हं । तदेव प्रदेशिन्यौ सञ्चार्य नखेन नखमालभेत् । मण्डलाकारसूच्याभिः कुदृष्टिशल्यविपर्यासदाहनं नाम महाधर्मचक्रमुद्रा । मन्त्रं चात्र भवति - ओम् धुन पातय छिन्द चक्रे वज्रिणि हूं समयिरवो भागे प्रदेशिन्यो निर्गुगुगुल्याकातृकं चतुर्मारारिशयनी । वज्रवीरा चलाचलमहा महीक्लेशासनी नाम महामुद्रा । मन्त्रं चात्र भवति - ओम् वज्राननि हूं फट् ।
पर्यक् तु मुद्रा मन्त्रा च संयुक्ता सर्वकर्मसु ।
नश्यन्ते सर्वविघ्ना वै शरदैव यथाम्बुदा
चतुर्मारकृता ये च ये च विघ्ना ससुरासुराः ।
नश्यन्ते दृष्टमात्रं वै मुद्रं पर्यमुत्तमम्
परतस्तुल्यमुद्दिश्य तृतीया मुक्तप्रदेशिनी ।
सङ्कुचिताग्र्या शुभा चैव मुष्टिस्तथागती स्मृता
त्रैलोक्येन महामहेश्वरगभस्तिमालिनी नाम महामुद्रा । मन्त्रं चात्र भवति - ओम् विजये हः । तथागतमुष्टिमुद्रा च । एभिरन्यतमैर्मुद्रै हस्तद्वयेनावबध्वा साधनकाले पूर्वसेवाकाले वा सकृदुच्चार्य यावदिच्छं जपेत् निषण्णो स्थितो वा । एवं सर्वविघ्नविनायकाः अवतारं न लभन्ते । सिद्धिश्चाभिमुखीभवति ॥
ता एव प्रदेशिन्यः सञ्चार्य मध्यमयोपरि संसक्ताग्रां कारयेत् । उद्गतोष्णीषमुद्रा । मन्त्रं चात्र भवति - ओम् ज्वलोज्ज्वल दीप्तोद्गतोष्णीष धुन धुन हूं ॥
ता एव प्रदेशिन्यो सञ्चार्य मध्यमसूच्या सदा नखशिखरसंसक्ता निर्भुग्नगुल्फकुण्डलाकारमुद्रा सितातपत्रोष्णीष । मन्त्रं चात्र भवति - ओं म म म म हूं निः ॥
ता एव प्रदेशिन्यौ परतस्तुल्यमुद्यम्य आश्लेष्य मध्यमसूच्ये तेजोराशिमुद्रा । मन्त्रं चात्र भवति - ओं तथागतोष्णीष अनवलोकितमूर्ध्नि तेजोराशि हूं ज्वल ज्वल एक एक दर विदर च्छिन्द भिन्द हूं हूं स्फट् स्फट् स्वाहा ॥
ता एव प्रदेशिन्याग्रसंसक्तमध्यमसूच्ये मण्डलाकारो जयोष्णीषमुद्रा । मन्त्रं चात्र भवति - ओं जयोष्णीष ज्वल ज्वल बन्ध बन्ध दम दम ङ्रं ङ्रं ङ्रं हः हन हूं जयोष्णीषमन्त्रा ॥
तयैव प्रदेशिन्याग्रा सञ्चार्य मध्यमध्यमसूच्या नखस्योपरि तृतीयभागे श्लिष्टा चक्रवर्तिमुद्रा । ओं नमो अप्रतिहततथागतोष्णीषाय अनवलोकितमूर्ध्नि चक्रवर्ति हूं ज्वल ज्वल धक धक धुन धुन विधुन त्रासय मारयोत्सादय हन हन अं अं अः अः कः कः प्रोंखिनि प्रोंखिनि कुण्डलिनि अपरोजितास्त्रधारिणि हूं फट् । चक्रवर्ति ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्या नखस्याधस्तात् तृतीयभागे संयुक्ता मन्त्राधिपस्य चक्रवर्त्तिने मुद्रा । ता एव प्रदेशिन्याग्रा सञ्चार्य सूच्या नखस्याधस्तात् संसक्ता मन्त्राधिपस्य मुद्रा । ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्या नखपर्वयोरन्तरे संसक्ता महाचक्रवर्त्तिने मुद्रा । ता एव प्रदेशिन्याग्रा सञ्चार्य मध्यमसूच्य तृतीये पर्वे अधस्तात् संसक्ता कुण्डलाकारेण महाचक्रवर्तिने मुद्रा । ता एव प्रदेशिन्याग्रा सञ्चार्य तृतीये पर्वे मध्यमसूच्या पर्वयोरन्तरे संसक्ता मन्त्राधिपस्य महाचक्रवर्तिने मुद्रा । ता एव प्रदेशिन्याग्रा निर्भुग्नगुल्फसत्रिकं मध्यमसूच्या मध्यमपर्वयोरधस्तात् संसक्ता पर्वतृतीयेन अपराजितोष्णीषचक्रवर्त्तिन हृदयमुद्रा । मन्त्रं चात्र भवति - ओम् अपराजिता धिक् ॥
ता एवोष्णीषमूलमुद्रायान्यतमेन वा सोपचारविन्यास सर्वकर्माणि कारयेदङ्गुष्ठाग्रैश्चलितैरनामिका परामृज्योत्कर्षयेदावाहनम् । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय एहि एहि भगवं धर्मराज प्रतीच्छेयं अर्ध्यं गन्धं पुष्पं धूपं बल्यं दीपं च । मां चाभिरक्षाप्रतिहतबलपराक्रमाय स्वाहा । आवाहनं शुक्लपुष्पैः स्वरूपेणार्ध्यपाद्यमाचमनीयमासनोपविशने तदानेनैव दिशि विदिशि अध ऊर्ध्वं च बन्धयेत् ॥
ता एवानामिकौ अङ्गुष्ठाग्रैरपमृज्याथ नामयेत् । मध्यमे पर्वे स्पृश्योत्क्षिपेत् । विसर्जनार्घेण स्वदेवताया अपसव्येन भ्रामयेत् । मुद्रा दिशाबन्धा मुक्ता भवन्ति । मन्त्रं चात्र भवति - नमो ऽप्रतिहतोष्णीषाय गच्छ गच्छ भगवं धर्मराज प्रतीच्छ मयार्ध्यं गन्धं पुष्पं धूपं मां च रक्षाप्रतिहतबलपराक्रमाय । मुद्रा मन्त्रविसर्जनार्घेण ॥
ता एव प्रदेशिन्यौ अधस्तात् तृतीये पर्वे मध्यमसूच्ये संसक्तावन्योन्य अङ्गुष्टौ सह कन्यसैः निःपीडितमुष्टिः मध्यमसूच्यौ । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ओम् ओम् ह्रौं बन्ध हूं फट् । अप्रतिहतोष्णीष तेजोराशे । मुद्रामन्त्रा सर्वबन्धादिषूपयुज्यते सर्वकर्मिकः ॥
ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीयपर्वे दीषिदसंसक्ता विकरणोष्णीषमुद्रा । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय विकरण धुन धुन हूं विकरणोष्णीषः भगवतो विद्याधिपते महाविद्याराजा उष्णीषतन्त्रे सर्वविघ्नविनायकोपघोतष्वभिषेकमात्मरक्षादिशाबन्धमण्डलबन्धादिषु सर्वकर्मेषु प्रयुज्यते ॥
ता एव प्रदेशिन्यौ विकसिताकुञ्चिताग्रा चलिताकृष्टौ अग्नेरावाहनं पश्चाद्धोमयामीति । ( वैद्य 322 ) एष एव विसर्जनं विक्षिप्तैः प्रदेशिन्यौ ज्वालामालिन्योष्णीषमुद्रा । अप्रतिहतः सर्वकर्मसु । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय एह्येहि तेजोमालिने अग्नये स्वाहा ॥
ता एव प्रदेशिन्यौ आकुञ्चिताग्रा मध्यमसूच्या तृतीये पर्वे मध्यमपर्वयोरन्तरे संसक्ता बलोत्कटोष्णीषमुद्रा । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय इमं गन्धं पुष्पं धूपं बलिं दीपं च प्रतीच्छ हर हर सर्वबुद्धाधिष्ठिते धर्मराजाप्रतिहताय स्वाहा ॥
गन्धादिषु मन्त्रः - विपर्यस्तानामिके तृतीये तृर्वाङ्गुष्ठे संसक्ता प्रदेशिन्यः सूच्याकारः वज्रतेजोष्णीषमुद्रा । अप्रतिहतः सर्वविनायकानाम् । अनेन निग्रहं कुर्यात् सहायानां दिक्कालानां च । एवमेभिर्मन्त्रमुद्रैः रक्षा जपकाले साधनकाले मण्डले ऽपि सर्वकर्माणि कर्तव्यानि । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वविघ्नविध्वंसनकराय त्रोटय स्वाहा ॥
अनामिकयोरङ्गुष्ठमूले कुण्डलाकारस्तथैव च प्रदेशिन्यौ सूच्याकारः सर्वत्राप्रतिहतो ऽपराजितोष्णीषमुद्रा । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय सर्वत्रापराजिताय समये शान्ते दान्ते धर्मराजभाषिते महाविद्ये सर्वार्थसाधनि स्वाहा । घृतहोमादिषु शान्तिकपौष्टिकानि कर्माणि कुर्यात् ॥
एतावनामिकायाः कुण्डलयोः प्रदेशिन्यौ कुञ्चिताग्रा प्रतिहतेत शङ्करोष्णीषमुद्रा । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीष ओं शङ्करे स्वाहा । रक्षा सर्वकर्मसु ॥
अङ्गुष्ठाग्रौ अनामिकयोस्तृतीये पर्वेनाक्रान्ता तथैव प्रदेशिन्यौ सूच्या वज्राप्रतिहतसमयोष्णीषमुद्रा सर्वत्र समयसाधारणः । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय । ओम् सङ्करे समयं स्वाहा ॥
अङ्गुष्ठाग्रौ अनामिकयोर्मध्ये पर्वेणाक्रान्ता प्रदेशिन्यौ कुञ्चिताग्रा मध्यमसूच्या मध्यमपर्वसंसक्ताप्रतिहतमहासमयोष्णीषमुद्रा देवासुरेषु युज्यते समये स्थापिता । मन्त्रं चात्र भवति - नमो भगवते अप्रतिहतोष्णीषाय ओम् शङ्करे महासमयं स्वाहा । अनया मण्डलबन्धं कृत्वा जपेच्चक्रवर्त्तिनमपि समये तिष्ठ तिष्ठ । अन्यांश्चक्रवर्तिनांश्चाभिभवति । तत्रैव स्थाने जपं कुर्वं सर्वलौकिकलोकोत्तराणां गन्त्राणां असक्तादन्योन्यं विद्याप्रभावबलविघातं कर्त्तुम् । एकस्मिं स्थाने सर्वजापिनाम् । एवमाद्या उष्णीषराजानः असङ्ख्येयानि भवन्ति । विस्तरेण कर्त्तव्यं सर्वतथागतकुलम् ॥
इह हि मञ्जुश्रीः कल्पराजे अपरिमाणानि मन्त्राणि भवन्ति । मुद्राश्चैव विविधाकारा । संक्षेपतो ऽहं वक्ष्ये । यदि विस्तरशो कथेयम् अशक्यं सर्वमानुष्यैः आमानुषैश्च कल्पसहस्रेणापि कालप्रमाणेनोद्गृहीतुं धारयितुं वा । तस्मात् तर्हि मञ्जुश्रीः संक्षेपतः कथयिष्यामि समासेनोपधारय ॥
हृदयस्य मुने मुद्रा कथ्यते प्रवरा इह ।
ततो देवातिदेवस्य मुद्रा वै श्चक्रवर्त्तिनः
अवलोकितचन्द्रस्य बोधिसत्त्वस्य धीमतः ।
वज्रपाणेस्ततो मुद्रा यक्षेन्द्रस्य प्रकीर्त्तितः
ततो ऽन्येषां तु मुद्राणां महताममितौजसाम् ।
दूतदूतीगणां सर्वां चेटश्चेटी तथा पराम्
यक्षा यक्षीस्तथा देवां नागनागी तथापराम् ।
किङ्करः किङ्करीणां च पिशाच पिशाचीनां च
महर्द्धिका राक्षसीनां तथान्यां सुरयोषित् ।
दैत्यमङ्गनां सिद्धविद्याधराणां च सर्वेषां च
अमानुषाणां नामानुष्यांश्चापि सर्वेषां त्रिभवे जन्मनिःसृताम् ।
सर्वेषां तु जन्तूनां मुद्रा ह्युक्ता पृथक् पृथक्
मन्त्रास्तु विविधाकारा नानाकर्मसमाधिका ।
राजकुले मानिकुले चापि तेषां मुद्रा पृथक् पृथक्
अर्हप्रत्येकबुद्धानां उभौ मुद्रौ शुभोदयौ ।
सर्वेषां बोधिसत्त्वानां दशभूमिप्रतिष्ठिताम्
मुद्रा हृदयमन्त्रा च एकैकः परिकीर्त्तिता ।
दिव्ययक्षकुले चापि ऋषिगन्धर्वपूजिते
कुले सप्तमके प्रोक्ता मुद्रा गन्धर्वमाश्रिता ।
तथाष्टमके मुद्रा कुलेभ्यो परिकीर्तिता
सर्वे मुद्रा समाख्याता अपराश्च सुगताह्वया ।
पृथक् पृथक् मन्त्रेषु लौकिकेषु ससौगते
मुद्रासहितो मन्त्रः दीप्रो भवति कर्मसु ।
मुद्राक्षेपादिकुशलं नानुयान्ति विनायकाः
अथ खल्वेषां महामुद्रादीनां लक्षणं भवति । बुद्धानां भगवतां हृदयमुद्रालक्षणं भवति । हस्तद्वयेनान्योन्यमङ्गुलीः सन्नियम्याङ्गुष्ठौ दर्शयेत् । सैषा तथागतानां हृदयमुद्रा । एषैव दक्षिणेनाङ्गुष्ठेन एकैकदर्शितेन पद्मधरस्य मुद्रा भवति । वामेतरस्य पूर्वमुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुञ्च प्रसृतं कृत्वैकतः वज्राकारम् । एषा वज्रधरस्य मुद्रा । एकसूचीमवनाम्य एषा गन्धहस्तिने बोधिसत्त्वस्य मुद्रा पुनरेवोत्क्षिप्य मण्डलाकारं कुर्यात् । एष गजगन्धस्य मुद्रा । उभयोरप्येकं पर्वं कुञ्चयेत् । एषा मणिकुले मुद्रा । सर्वेषां मणिचराणां जम्भले जलेन्द्रादीनां मन्त्रैः तैरेव योजयेत् । तर्जनीयुगलं द्विपर्वं कुञ्चितान्योन्यनखसंयुक्तम् । एषा यक्षकुले मुद्रा पञ्चकादीनां यक्षमहर्द्धिकानाम् । अन्योन्यनखसंयुक्तं अङ्गुष्ठं नखोपरि धारयेत् । तथैव हस्तौ पूर्ववत् कारयित्वा मध्यमाङ्गुलियुगलं उत्थाय सूचिकाकारं कारयित्वा एषा सर्वदेवानां मुद्रा ( वैद्य 324 ) दिव्यकुले अकनिष्ठादीनां दिवौकसाम् । भूयस्तथैव हस्तौ संयम्य मुष्टिं बध्वा अङ्गुष्ठौ दर्शयेत् । सौषा प्रत्येकबुद्धार्यश्रावकानां मुद्रा ॥
इत्येतामष्टौ मुद्रासु कुला चाष्टसमावृता ।
सर्वेषां जिनपुत्राणां मुद्रामेकं तु वक्ष्यते
प्रसृताञ्जलिविन्यस्तं ईषित्सङ्कुचितं पुनः ।
स एषा कथिता मुद्रा बोधिसत्त्वां महीयसाम्
चिन्तामणिः खखरकं सङ्घाटी पात्रचीवरम् ।
दंष्ट्राभयहस्तं च मुद्रैताः सप्तकं मुनेः
दृष्टिमैत्रीप्रभाजालदशनतोर्ण सुगतः स्थितिः ।
इमाप्यसा परा मुद्रा जिनस्यात्मशरीरजा
द्वौ सप्तकौ गणावेतौ मुद्रा पञ्च मया स्मृता ।
हृदयस्य मुनेः सहितानि विंशत्युक्तादिस्वयम्भुवैः
पुरा कथिता ह्येते मुद्रा आदिजिनैः तदा ।
परिवारः समाख्यातो विंशकश्चक्रवर्त्तिनः ।
परमं परसङ्ख्याता मुद्रा मन्त्राश्च निश्रिता
उद्गतं कुण्डलीकृत्य चिन्तामणिमुद्रा । पर्यङ्के वामदक्षिणे मुष्टिमंसदेशे धारये । खखरकमुद्रा भवति । हस्तसम्पुटेनान्योन्यमभिमुखं सङ्घाटीमुद्रा भवति । पात्रं सम्पुटाधारः चीवरं वामहस्तेन दंष्ट्रा हृदयमुद्राया वाममेकमङ्गुष्ठमुन्नतम् । अभयहस्तमभयावनतः वामचीवरावलम्बतः अभयहस्तः सम्पुटे मध्यमाङ्गुलियुगले तर्जन्यौ बहिः कुञ्चितौ निवेशयेत् मध्याङ्गुष्ठौ । एषा बुद्धलोचनमुद्रा भवति । एषैव एवा पर्वकुञ्चिते तर्जनी एकतः कुर्याद् बुद्धमैत्री । अञ्जलि विरलाङ्गुलिं कृत्वा तर्जन्यनामिका गोपयेत् सूचीत्रयेण । मामकी मुद्रा भवति । अञ्जलिं कृत्वा तर्जनीमध्यमाङ्गुलिबहिः तृतीयपर्वे कुञ्चिते सन्दध्यादङ्गुष्ठौ पृथक् अङ्गुल्याकारेण भोगवतीमुद्रा । वामहस्तेन तर्जन्या मध्यमया च विजया । दक्षिणया त्र्यङ्गुले वज्रं कटिदेशे धारयेत् ॥
एवमेवाष्टौ महामुद्रा आत्मना शिरसि विद्याराजमुद्रा बध्वा सर्वकर्माणि कारयेत् । समये वा मण्डले पुष्पाणि क्षिपेत् । पूर्वनिर्दिष्टेन वा विधिनानेन वा कुर्यात् । यथेप्सतः सर्वकर्माणि कारयेत् । विद्यामन्त्राभिहितानि समयानि भवन्ति मुद्रैः समुद्रितानि मुद्राप्रभावानि । यन्मुद्रं सहसा अस्थाने बध्नीयात् स एवास्य समयभङ्गो भवति । यद् वज्रं तच्छूलम् । त्रिशूलवज्रयोर्विशेषो नास्ति । यदूर्ध्वं तद् वज्रधरस्य मुद्रा भवति । अधरस्ताच्च महेश्वरस्य । मध्ये आचार्यगुरुदक्षिणीयां सर्वेषा च मनुष्याणां एकाङ्गुलिमुच्छ्रिते सर्वेषा मनुष्याणां द्विपदचतुष्पदबहुपदापदविभवसंस्थितानां सत्त्वानां मुद्रा भवति । द्विरुच्छ्रितै सर्वेषां यक्षयक्षीणां मुद्रा भवति । त्रिमुच्छ्रितैः सर्वविद्याधरविद्याधरीणां मुद्रा भवति । चतुरुच्छ्रितैः समपाणितलविन्यस्तैः ससुरासुराङ्गनानां मुद्रा भवति । कृताञ्जलिविधिन्यस्तौ हस्तौ शोभनाकारसंस्थितौ सर्वेषां रूपाधचराणां ( वैद्य 325 ) देवानां मुद्रा भवति । तदेव हस्तौ आरुप्याधचराणां देवानां मुद्रा भवति । तदेव हस्तौ सुषिरसम्पुटाकारौ मुष्टिनिबन्धनौ कामधात्वेश्वरप्रभृतीनां सर्वेषां कामधातुस्थितानां सनरतिर्यक्प्रेतयामलौकिकानां सत्त्वानां मुद्रा भवति । तामेव मुद्रामेकमङ्गुलिमुत्सृज्य सर्वेषां पिशाचपिशाचीनां मुद्रा भवति । द्विमुत्सृतै राक्षसराक्षसीनां । त्रिमुत्सृतैः सर्वक्रव्यादादीनां ग्रहमातरकूष्माण्डादीनां पिशिताशिनां सर्वेषां च डाकिनीनां व्यन्तरादीनां च सकश्मलां चतुर्भिरङ्गुलीभिः सङ्कुचितैः सर्वकश्मलां मुद्रा भवति । मुद्रैराकृष्टैराकर्षणं मुद्रैरुत्क्षिप्तैर्विसर्जनम् । स्वचित्तेन सर्वकर्माणि कारयेत् ॥
एभिरेव मुद्रैः यथेष्टतः स्वकं स्वकं मन्त्रं नियोजयेत् । नान्येषां नान्यकर्माणि कारयेत् । तस्मिं तस्मिं नियुञ्ज्याद् यस्मिं यस्मिं मन्त्रा भवन्ति ।
अनुल्लङ्घ्या ह्येते मुद्रा सर्वबुद्धैरधिष्ठिता ।
अशक्ता सर्वसत्त्वा वै मुद्रां दृष्ट्वापि कोपितुम्
मुद्रोलङ्घनाद् विनाशमाप्नुवन्ति । मुद्राणां विनाशात् समयभ्रंशः सर्वविद्याव्यतिक्रमश्च निष्ठायां रौरवे गतिः अवीच्यायां वा महानरकोपपत्तिः गाढतरमेवाप्नुवन्ति विघ्नकर्तारो । ये च मुद्रासमयमधितिष्ठन्ते तेषां चिरसौख्यमनल्पकं भवति महादिवौकसोपपत्तिश्च गतिनिष्ठायां नियतं बोधिपरायणो भवति । संक्षेपतो मुद्रा बहुप्रकारा प्रकाशिता आदिबुद्धैः बोधिसत्त्वैश्च महर्द्धिकैः । न शक्यमस्य पर्यन्तं गन्तुं सङ्ख्यागणनां वा कर्तुम् । सर्वसत्त्वैश्च उद्ग्रहीतुम् । संक्षेपतः जिनकुले विद्याराजचक्रवर्ति एकमक्षरं रक्षार्थं तस्य मुद्रा भवति ॥
वामेतरस्य पूर्वं मुष्टिं कृत्वा मध्यमाङ्गुलियुगलं प्रमुचे प्रसृतं कृत्वैकतः । उभयोरप्येकं पर्व कुञ्चये । तर्जनीयुगलं द्विपर्व कुञ्चितः अन्योन्यनखसंयुक्तं अङ्गुष्ठनखोपरि धारयेत् । एष चक्रवर्त्तिमुद्रा सर्वकर्मिका प्रवरा सर्वमन्त्राणां निर्दिष्टा लोकतायिभिः । पूर्वनिर्दिष्टेन एकाक्षरचक्रवर्त्तिना संयुक्ता सर्वकर्मिका भवति । अनेन साधितेन सर्वं तथागतकुलं सर्वाश्च लौकिकलोकोत्तराः मन्त्राः सिद्धा भवन्ति । अनेन जप्यमानेन सर्वमन्त्रा जप्ता भवन्ति ॥
अन्यदवश्यं साधकेन पूर्वतः अस्मिं कल्पराजे प्रचोदिते मन्त्रवरे अष्टसहस्रं जापः कर्तव्यः । एवमेते सर्वविद्याः आमुखीभवन्ति आशु सिद्धिं प्रयच्छन्ति । क्षिप्रं च वरदा भवन्ति । नियतं बोधिपरायणः पद्मधरमुद्रायाः एकाक्षरावलोकितेश्वरहृदयेन संयुक्तः सर्वकर्मां करोति । पण्डरवासिन्या वा विद्यामुद्रेण वा संयुक्ता तथैव सर्वकर्मां करोति । वज्रधरस्य मुद्रया तस्यैव एकाक्षरहृदयेन संयुक्तः तथैव सर्वकर्मां करोति । मामक्या वा महाविद्यया ॥
एवं राजकुले एकाक्षरराजगन्धबोधिसत्त्वहृदयेन एवं तेनैव मुद्रया मणिकुले यक्षकुले दिव्ये आर्ये तेष्विह एकाक्षरहृदयैः तेष्वेव मुद्रैः सर्वकर्माणि कर्तव्यानि । एवं सर्वत्र सर्वमुद्रैः सर्वमन्त्रैश्च सर्वकर्माणि कर्तव्यानि । यथायुक्तितः विद्यामन्त्रबलाधाना न्यसेत् । नान्यतः कर्माणि कर्तव्यानि ॥
एवं दक्षिणकरविन्यस्तं स्वस्त्योद्यतः ब्राह्मणस्य सहाम्पतेः एकलिङ्गमुद्राया महेश्वरस्य चक्रमुद्राया विष्णोः अञ्जलिराकोशविरलविन्यस्तः गरुत्मनः एवं ऋषीणां शापोद्यतहस्तमुद्रं एवं गन्धर्वाणां ससुरासुराणां वामहस्तमङ्गुष्ठसभ्यन्तरीकृतमुखमुपदर्शनमष्टिस्थितं चतुःकुमार्यमुद्रा तेनैव मन्त्रेण एवं कार्तिकेयस्य शक्तिमुद्रया एवं यमवरुणकुबेरयक्षराक्षसपिशाचमहोरगादीनां सर्वेषां त्रिभवसंस्थितानां सत्त्वानां सर्वगतिपर्यापन्नानां सत्त्वधातुसन्निःश्रितानां सर्वेषां ग्रहमातरक्रव्यादकश्मलादीनां सत्त्वानां सर्वतः सर्वेषां मुद्रान्युक्तानि । मन्त्राश्चैव सर्वतः नियुज्यानुपूर्वशः क्रमशः सर्वतः सर्वं भवति नान्यतः ॥
आदौ तावत् साधकेन अस्मिन् कल्पराजे तथागतगतिः शुभा महामुद्रा मन्त्राश्च तदङ्गा निश्रिता आर्यसमन्तभद्रमहास्थानप्राप्तविमलगतेः त्वदीया मञ्जुश्री उत्पलमुद्रा एतेषां च बोधिसत्त्वानां च मुद्रा अवश्यं साधकेन पूर्वाभिमुखस्थितेन आदित्याभिमुखेन प्रातरुत्थाय शुचिना शुचिस्थानस्थितेन एतेषां मुद्राणामन्यतरं बध्वा आत्मशिरस्योपरि क्षिपेदूर्ध्वम् । एतेषामन्यतमं च मन्त्रं जपेदष्टशतम् । सर्वव्याधिविनिर्मुक्तो भवति । दीर्घायुषः सर्वविघ्नैश्च नाभिभूयते । सर्वसत्त्वानामधृष्यो भवति । सर्वमन्त्राश्चाभिमुखीभवन्ति । आशु सिद्धिं प्रयछन्ति । सर्वबुद्धैश्चाधिष्ठितां भवति । नियतं बोधिपरायणो भवति । मञ्जुश्री कुमारभूतश्चास्य कल्याणमित्रो भवति यावद्राबोधिमण्डात् । कतमा च ते मुद्रा मन्त्राश्च भवन्ति ॥
आदौ तावन्महावीरमुद्रा वक्ष्यते । हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिमङ्गुष्ठमुन्नतौ पर्वतृतीयभागाकुञ्चितौ एषा महावीरमुद्रा सर्वतथागतैर्भाषिता । मन्त्रं चात्र भवति - आः वीरं हूं खं । अनेन मन्त्रेण संयुक्तः मुद्रो ऽयं सर्वकर्मकृत् ॥
तदेव हस्तद्वयं सम्पुटं कृत्वा भूयो विकसितमङ्गुलीभिः समन्ततो विकसितां वज्राकारम् एषा विकासिनी नाम मुद्रा वरा आदिबुद्धैः प्रकाशिता । मन्त्रं चात्र भवति - ओम् गगनसम्भवे दीप्त दीप्त ज्वालय ज्वालय बुद्धाधिष्ठिते विकाशय विकाशय सर्वबुद्धान् । हूं हूं विकासिनि फट् फट् स्वाहा । एषा विकासिनी मुद्रा । अनेन मुद्रेण संयुक्ता सर्वकर्मिका भवति । ग्रहाविष्टानां प्रज्ञापयति । जल्पापयति ग्रहगृहीतां क्रव्यादकश्मलगृहीतानां विषमूर्छितानां वा यथा यथा प्रयुज्यते, तथा तथा तत् सर्वं करोति । एष संक्षेपतः सर्वार्थसंसाधनी विद्याविकासिन्या मुद्रया युक्ता असिद्धा च क्षिप्रमर्थं करोति ।
हस्तद्वय सम्पुटं कृत्वा अन्तरिताङ्गुलिसमं कारयद् हृदयमुद्रा । हृदयं सप्तवारां हृदयमभिमन्त्र्य मोक्तव्या । एवं सर्वत्र । मन्त्रं चात्र भवति - ओम् गोदरे वीर स्वाहा । तथागतहृदय ॥
तदेव हस्त सम्पुटं विच्छुरिताङ्गुलिमन्योन्यसर्वाग्राङ्गुलिमध्ये सुषिरा उष्णीषमुद्रा । मन्त्रं चात्र भवति - ओम् द्रों बन्ध स्वाहा । एष सर्वकर्मिकः ॥
दक्षिणहस्तेनाङ्गुष्ठं मुक्तं मुष्टिं बध्वा खखरकमुद्रा । मन्त्रं चात्र भवति - ओम् धुनाजितरण हूं । खखरकमन्त्रा सर्वकर्मिकः ॥
अनेनैव मुद्रया संयुक्त वामं चीवरसंसक्तं कृत्वा चीवरमुद्रा । मन्त्रं चात्र भवति - ओम् रक्ष रक्ष सर्वबुद्धाधिष्ठितात्मचीवर स्वाहा । तथागतचीवरः । अनेनैव मुद्रेण सर्वकर्मां करोति । चीवरं चास्याभिमन्त्र्य प्रावरेत्, सुभगो भवति । महारक्षा कृता भवति । सर्वग्रहमातरपिशिताशिनक्रव्यादसकश्मला सर्वविघ्नाश्च दृष्टमात्रा प्रपलायन्ते ॥
वामाङ्गुष्ठदक्षिणकनिष्ठिकान्योन्यासक्तौ कृत्वाधः हस्तसम्पुटाधारः पात्रमुद्रा । मन्त्रं चात्र भवति - ओम् लोकपालाधिष्ठित धर धारय महानुभाव बुद्धपात्र स्वाहा । अनेनैव मुद्रेणायं मन्त्रः संयुक्ता सर्वकर्मिकाः भोजनकाले स्मर्तव्यः । सर्वगरविषा न प्रभवन्ति ॥
करयुगावनद्धमुष्टौ तर्जन्यौ मध्यकुञ्चितौ । एषा सा चिन्तामणिमुद्रा । मन्त्रं चात्र भवति - ओम् तेजो ज्वल सर्वार्थसाधक सिध्य सिध्य चिन्तामणिरत्न हूं । चिन्तामणिरत्नम् । अनेनैव मुद्रेण संयुक्तो सर्वकर्मकरं शुभम् । अनेन चाभिमन्त्र्य सर्वाभरणालङ्कारविशेषां आबन्धीत चात्मनो महारक्षा कृता भवति । परमसुभगश्च भवति । स्वयमलङ्कृत्य धर्मं चाभिमन्त्र्य सङ्ग्राममवतरेन्न चास्य काये शस्त्रं निपतति । अधृष्यो भवति सर्वशत्रूणाम् । स्वसैन्यं पालयते । परसैन्यं चाक्रामति ॥
एवमादीनि कर्माणि अपरिमाणानि असिद्ध एव करोति । पद्मरागमरकतादीनामन्यतम रत्नविशेषं गृहीत्वा अष्टशताभिमन्त्रितं कृत्वा ध्वजाग्रे आत्मनो शिरसि वा हस्तिस्कन्धे वा शङ्ग्रामशीर्षेणावतीर्णोनाबन्धयितव्यम् । नियतं परसैन्यमयुद्धेनैव दृष्ट्वा भङ्गमुपजायते । महांस्तम्भितत्वं वा भवति । भग्नसैन्या वा प्रपलायन्ते ऽधिपतिस्तेषाम् ॥
अन्योन्यासक्ताङ्गुलिमुष्टिं कृत्वा मध्यमाङ्गुलिस्थाने तयोस्तृतीयपर्वभागे मध्यकुञ्चिते तर्जन्योन्य स एषा धर्मचक्रमुद्रा । मन्त्रं चात्र भवति - ओम् छिन्द भिन्द हन दह दीप्त चक्र हूं । धर्मचक्र ॥
वामपादमुक्तट्कदक्षिणजानुभूमिस्थं वामेन पृष्ठतः प्रसारिते प्रहारहस्तेन दक्षिणेनाहुङ्कृतेन सावष्टम्भः । एषा अपराजितमुद्रा । मन्त्रं चात्र भवति - ओम् हुलु हुलु चण्डालि मातङ्गि स्वाहा । अपराजिता धर्मचक्रापराजितमन्त्रः । एभिरेव मुद्रैः संयुक्तैः सर्वकर्मिका भवति । संक्षेपतः सर्वदुःखानि छिन्दति । यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि कुर्वन्ति ॥
वेण्योत्सङ्गे तथैव हस्तं कृत्वा दक्षिणेन धर्मदेशनाहस्तेन तथागतशक्तिमुद्रा भवति । मन्त्रं चात्र भवति - ओम् विजये महाशक्ति दुर्धरि हूं फट् विजयिनि फट् मङ्गले फट् । तथागतशक्तिः । अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । सर्वविघ्नां सर्वदुष्टां सर्वशत्रूं सर्वदेवांश्च स्तम्भयति । एषा अपर्यन्तगुणा यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति ॥
तथैव हस्तौ परस्पराङ्गुलिरुत्तानौ करौ तर्जन्याग्रौ सूच्याकारेण मीलितौ विपर्यस्तमधोमुखं ललाटे न्यसेत् । एषा ऊर्णामुद्रा बुद्धानां भगवतामादिबुद्धैः प्रकाशिता । मन्त्रं चात्र भवति - नमः सर्वतथागतेभ्यो ऽर्हद्भ्यः सम्यक्सम्बुद्धेभ्यः । हे हे बन्ध बन्ध तिष्ठ तिष्ठ धारय ( वैद्य 328 ) धारय निरुन्ध निरुन्ध ऊर्णामणि स्वाहा । तथागतोर्णामन्त्रः । अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । गोरोचनया ललाटे तिलकं कृत्वा जपता शत्रुमध्ये ऽवतरेत् । अधृष्यो भवति । सर्वदुष्टैश्च न हिंसते । सङ्ग्राममध्यं वा अवतरेत् । परसेनाभङ्गं दृष्ट्वा करोति । नादृष्ट्वा अपरिमाणां कर्मां करोति । अपरिमाणैश्च बुद्धैर्भगवद्भिर्भाषिता ॥
अञ्जलि निरन्तरमन्योन्यासक्तां कृत्वा तर्जन्यान्योन्यमध्यकुञ्चितौ अङ्गुष्ठोङ्गुष्ठौ । एषा तथागतलोचना मुद्रा । मन्त्रं चात्र भवति - ओम् रु रु स्फुरु ज्वल तिष्ठ सिद्धलोचने सर्वार्थसाधनि स्वाहा । एषा तथागतलोचना मन्त्रा अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । अक्षीण्यभिमन्त्र्य शत्रुमध्यमवतरेत् । दृष्टमात्रा विगतरोषा भवन्ति । मैत्रचित्ता हितैषिणो भवन्ति । मित्रत्वमधिगच्छन्ति । सङ्ग्रामशीर्षो वा अक्षिणी मभिमन्त्र्य परसेनां निरीक्षयेत् सौम्यचित्ता भवन्ति । न प्रतिप्रहरसमर्था अयुद्धेनैव निवर्तन्ति । साहाय्यं तावत् प्रतिपद्यन्ते ॥
उभौ हस्तौ तथैव पुस्तकाकाराङ्गुलिरचितौ अन्योन्याग्राश्लिष्टौ तिर्यक् स्थितौ । एषा प्रज्ञापारमिता मुद्रा । मन्त्रं चात्र भवति - नमो भगवति चारुदर्शने ओम् थ । एषा भगवती प्रज्ञापारमिता अनेनैव मुद्रेण संयुक्ता सर्वकर्मिका भवति । मन्त्रं जपता हृदयं परामृशेत् स्मृतिमां भवति । दुष्टारिमध्ये जपं कुर्वन् तेषां चित्तमपहरति । सङ्ग्राममध्ये वा द्विपदचतुष्पदादीं सत्त्वां प्रत्यर्थिकां विमोहयति । चित्तविक्षेपं वा करोति संक्षेपतः । एषा भगवती यथा यथा प्रयुज्यते तथा तथा सर्वकर्माणि करोति । संक्षेपतः अपर्यन्तगुणा अपर्यन्तं चास्य कल्पं भवति । अपर्यन्तास्तथागतानां मुद्रा मन्त्राश्च भवन्ति । यथा सन्निपातपरिवर्ती चोक्तं तथागतानां परिवाराः ते ऽत्र सर्वे मुद्रा मन्त्राश्च प्रयोक्तव्या । अन्यत्र चासङ्ख्येयानि कल्पानि भवन्ति । मुद्रा मन्त्राश्च ते ऽस्मिं कल्पराजे नियोक्तव्या ॥
एवं पद्मकुले पद्ममुद्रेण सहिता । मन्त्रं भवति - ओम् जिः जिः जिनाङ्गभृद्भयभेदिने स्वाहा । एष मन्त्र अवलोकितेश्वरस्य बोधिसत्त्वस्य पद्ममुद्रया संयुक्तं सर्वकर्मिकं भवति । अनेन जप्तेन सर्वं पद्मकुलं जप्तं भवति । अनेन सिद्धेन सर्वं पद्मकुलं सिद्धं भवति । पण्डरवासिन्या वा महाविद्यया । मन्त्रं चात्र भवति - ओम् कटे विकटे निकटे कटङ्कटे कटविकटकटङ्कटे स्वाहा । मुद्रेणैव योजयेत् पद्ममुद्रेण वा सर्वकर्मिका भवति । रक्षा च कर्तव्या सर्वश्मशानगतेन ॥
एवं तारा भ्रुकुटी चन्द्रा हयग्रीवस्येति विद्याराजसन्निपातपरिवर्ते वा ये कथिताः सर्वमसङ्ख्यं चा पद्मकुलं प्रयोक्तव्यम् मुद्रा मन्त्रैश्च कल्पविस्तरैः ॥
एवं ध्वजकुल उभयवज्रमुद्रसहितम् । मन्त्रं चात्र भवति - हूं । एष वज्रपाणेः साक्षादनेन साधितेन सर्वं वज्रकुलं सिद्धं भवति । अनेन जप्तेन सर्वं जप्तं भवति । उभयवज्रमुद्रासंयुक्तेन पूर्वनिर्दिष्टेन साधकेच्छया सर्वकर्माणि करोति । विरुद्धान्यपि जिनवरैः सत्त्ववैनेयवशात् । अतिक्रूरतरो ऽयं महायक्षं मामक्या वा कुलन्धर्या महाविद्यायाः सर्वकर्माणि करोति । ( वैद्य 329 ) मन्त्रं चात्र भवति - ओम् कुलन्धरि बन्ध बन्ध हुं फट् । एषा सर्वकर्मिका मामकी नाम महाविद्या सर्वबुद्धैर्निर्दिष्टा पूर्वप्रयुक्तेन मुद्रेण मामक्याया महाविद्यया संयुक्ता सर्वकर्मिका भवति । साधकेच्छाया निदानपरिवर्ति पूर्वनिर्दिष्टे वज्रपाणिपरिवारेण सर्वं वाशेषं वज्रिकुलं मुद्रामन्त्रमन्त्रसंयोगैश्चात्र प्रयोक्तव्यम् ॥
एवं राजकुले गजगन्धस्य बोधिसत्त्वस्य मन्त्रं भवति - ओम् गजाह्वये हूं खचरे स्वाहा । पूर्वनिर्दिष्टेन मुद्रेण संयुक्तः सर्वकर्मिकः । एवं पूर्ववत् सर्वं गजकुलः सिद्धो भवति ॥
एवं समन्तभद्रस्य मन्त्रः - ओम् समासमजिनसुत मा विलम्ब हूं फट् ॥
महास्थानप्राप्तस्य मन्त्रः - तिष्ठ तिष्ठ महास्थाने गतबोधः समयमनुस्मर हूं फट् फट् स्वाहा ॥
विमलगते मन्त्रः - ओम् विमले विमले विमल मुहूर्तं धक धक समयमनुस्मर स्वाहा ॥
गगनगञ्जस्य मन्त्रः सर्वबोधिसत्त्वस्य मुद्रसंयुक्तः सर्वकर्मिको भवति । एषमपायजहसदाप्ररुदितक्षितिगर्भरत्नपाणिमैत्रेयप्रभृतीनां दशभूमिमनुप्राप्तानां सर्वमहाबोधिसत्त्वानामसङ्ख्येयानां मुद्रा मन्त्राश्चासङ्ख्येया भवन्ति । तस्मिं कल्पराजे नियोक्तव्यानि भवन्ति । सविस्तरता सर्वलौकिकलोकोत्तरोत्तरता सर्वलौकिकाश्च सर्वमन्त्रमुद्राकल्पविस्तरो महासमयासमयमनुप्रविष्टा सर्वकल्पविकल्पा त इह कथितानि साध्याश्च ते इह सर्वमन्त्राः ॥
एवंमणिकुलयक्षकुलदिव्यार्यकुलेष्वपि प्रयोक्तव्यानि । सर्वतन्त्रमन्त्रमुद्राश्च त्र्यध्वाश्रिता एक एव कुलं भवति नान्यं यदुत तथागतकुलम् । त्वं च मञ्जुश्रीः कुमार तथागतकुले द्रष्टव्यः । सर्वबुद्धबोधिसत्त्वार्यश्रावकप्रत्येकबुद्धाः सर्वाश्च लौकिकलोकोत्तराः साश्रवानाश्रवमन्त्रा मुद्राविकल्पास्तथागतकुलानि प्रविष्टा इति धारय । न तद् विद्यते मञ्जुश्रीः सर्वविमुद्रातन्त्रमन्त्ररहस्यं यस्तथागतकुले तथागतसमये अनुप्रविष्टः । प्रविष्टमेव मञ्जुश्रीः कुमार धारय । यस्मात् तथागत अग्रमाख्यायते तस्मात् तथागतकुलं अग्रमाख्यायते । एवं तर्हि मञ्जुश्रीः अयं कल्पराजा अयं च कुलाग्ररत्नः आदिमद्भिर्बुद्धैः प्रकाशितं देशितं प्रस्थापितं विवृण्वीकृतम् भगवां संकुसुमितराजेन भगवता शालराजेन्द्रेण भगवता सङ्कुसुमितगन्धोत्तमराजेन भगवता रत्नकेतुना भगवता अमिताभेन भगवता पुण्याभेन कुसुमोत्तमेन सङ्कुसुमेन सुपुष्पेण अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण कनकमुनिना काश्यपेन क्रकुत्सन्देन शिखिनाविश्वभुवा भगवता कोनाकमुनिना । मयाप्योतर्हि शाक्यमुनिना प्रकाशितवां प्रकाशिष्यन्ते च ॥
एवमेतद् बुद्धपरम्परायातं अयं तव मञ्जुश्रीः कुमार कल्पराजा तथागतकुलाग्ररत्नभूतं महानुशंसं नियतं धर्मधातुनिश्रितं न शक्यमस्यानुशंसं कल्पसहस्रेणापि कथयितुं महागुणविस्तारा विस्तरशः कथयितुम् । दृष्टधर्मवेदनीयाः साम्परायिकबोधिपरायणाश्च वक्तुं सर्वसत्त्वैर्वा श्रोतुम् । त्वत्सदृशैरेवमस्यापरिमाणा महागुणविस्तारफलोदया दृष्टधार्मिकसाम्परायिकाश्च भवन्ति । यः कश्चित् श्राद्धे अविचिकित्सः धारयेद् वाचये स्मिं तन्त्रे ऽभियुक्तो विकल्पतः ( वैद्य 330 ) मन्त्रं साधये जपेद् वापि मुद्रां वापि बध्नीयात् सतताभियुक्तश्च भवेत् । स दृष्ट एव धर्मैरष्टौ गुणानुशंसां प्रतिलभते । अस्खलितश्च भवति सर्वप्रत्यर्थिकैः । अपितु भयं चास्य न भवति । विषं चास्य काये नाक्रामति । शस्त्रं चास्य काये न पतति । बुद्धबोधिसत्त्वैश्चाधिष्ठितो भवति । दीर्घायुः सुखमेधावी भवति । मञ्जुश्रियश्चास्य कुमारभूतः कल्याणमित्रो भवति । रात्रौ वास्य प्रत्ययं स्वप्ने दर्शनं ददाति । सर्वमन्त्राश्चैनं रक्षन्ते । मुद्रां चास्य स्वप्ने कथयन्ति । दुष्टराष्ट्रं दुष्टसत्त्वानां चाहितैषिणामवध्यो भवति । नियतं बोधिपरायणः ॥
इमे ऽष्टानुशंसा श्राद्धस्याविचिकित्सतो ऽभियुक्तस्य द्रष्टव्याः । गृहेणो वा प्रव्रजितस्य वा स्त्रियस्य वा पुरुषस्य वा महासत्त्वानां शासनोपकारिणाम् । नान्येषां पापकर्मप्रवृत्तानां विपर्यस्तमधस्ताद् भवति रौरवादिषु । यदुक्तं पूर्वाह्ने मुद्राबन्धः दीर्घायुष्यता जयेति । तथागतमन्त्रपरिवारेण हृदयोष्णीषाद्यालोचनाद्याः मुद्राः सत्कर्तव्यम् । मञ्जुश्रियः कुमार त्वदीयमुद्रामन्त्रैर्वा तुल्यवीर्या ह्येते तुल्यप्रभावा । यदुक्तं शुचिना शुचिवस्थानस्थितेनेति । स्थानं मध्यं भूप्रदेशं अशल्योपरुद्धं अपतितगोमयोपलिप्तं सुगन्धशुक्लपुष्पाभिकीर्णम् । तत्र स्थितः मन्त्रं जपे । मुद्रां बध्नीयात् । नान्यत्र नान्येषामन्यतरमेकं जपेन्मुद्रसहितम् ॥
यदुक्तं शुचिनेति अस्तं गते भानोः स्नायीत शुचिना जलेन निःप्राणकेन
प्रत्यग्राम्बरनिवासी उष्णीषकृतरक्षः ।
ग्राम्यधर्मविवर्जी शुचिचौक्षरक्षरतः शुभ
उष्णीषकृतरक्षा वै श्चक्रबन्धानुवर्तिनः ।
ध्यात्वा तथागतां तत्र स्वप्ने यामविनिर्गते
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0