मञ्जुश्रीमूलकल्प · अध्याय 36
इति ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकाद् महायानवैपुल्यसूत्रात् त्रयः त्रिंशतिमः मुद्राविधिपटलविसरः परिसमाप्तमिति ॥
अथ षट्त्रिंशः पटलविसरः ।
अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः परमगुह्यतमं त्वदीयं मूलमुद्रासमेत सपरिवारं मुद्रालक्षणं सर्वकर्मेषु चोप योज्यं सर्वसम्पत्तिदायकं सफलं सर्वमन्त्रानुवर्त्तनं सर्वकर्मार्त्थसाधकम् । संक्षेपतः शृणु मञ्जुश्रीः ॥
आदौ तावत् प्रसृताञ्जलिः, तर्जन्यानामिकामध्यपर्वतानुप्रविष्टा पृथक् पृथक् । सा एषा मञ्जुश्रीस्त्यदीया मूलमुद्रा विख्याता सर्वकर्मिका भवति । तथैव हस्तौ संयम्य, अनामिकासंहता तर्जनी मध्यमास्तथा कनिष्ठिकया ऊर्ध्वरेखास्थिताङ्गुष्ठशीर्षे । अयमपरा मञ्जुश्रीस्त्वदीया वक्त्रमुद्रा उदाहृता । अन्योन्यसक्ताङ्गुलिमुष्टिं कृत्वा, मध्यंमाङ्गुलि विमुच्य, सूचीकृत्वा, तस्य पार्श्वयोर्वलिततर्जनीयुगलमन्ते न्यसे एषा मञ्जुश्रीः त्वदीयमुद्रेयं दंष्ट्रा भवति । मुद्राया अङ्गुष्ठयुगलं पार्श्वयोर्न्यसेत् । एषा मुद्रा साक्षात् त्वं मञ्जुश्रीः तस्मिं स्थाने तस्मिं करपुटे सान्निध्यं समयेनाधितिष्ठसे । अन्योन्यसक्ताङ्गुलिमुष्टयोः प्रदेशिनीं मुक्त्वा, अङ्गुष्ठयुगलं मध्यतः । एषा सा मञ्जुश्रीः त्वदीया अपरा चीरकमुद्रा । प्रसृताञ्जलिपर्वणी कृत्वा, अनामिके तर्जनीं मध्यमान्तरस्थिताग्रे । इयमपरा मञ्जुश्रीः साक्षादेव त्वं मूलमूद्रा उदाहृता । अस्यैव मुद्रायाः प्रसृतां तर्जनीं कृत्वा । एषा सा मञ्जुश्रीस्त्वदीयनेत्रमुद्रा भवति । कन्यसानामिकावेणीकृतकरपुटमध्यस्थिता मध्यमौ बहिः तः तर्जन्युपरि कुञ्चिताग्रे अङ्गुष्ठाग्रसंश्लिष्टाग्रासु । अयमपरा त्वदीया त्वदीया मञ्जुश्रीः वक्त्रमुद्रा भवति सर्वकर्मिका ॥
एवमनेन क्रमेणैकैकाङ्गुलिमथ मुंच उभौ अङ्गुष्ठसहिता सर्वे अङ्गुलियोगेन एकैकं प्रसारये उच्चीकृतदक्षिणाङ्गुष्ठं त्वदीयं मञ्जुश्री एषा उष्णीषमुद्रा । दक्षिणं सङ्कोच्य वाममुच्छ्रितं ललाटमुद्रा भवति त्वदीया मञ्जुश्रीः । या दृष्ट्वा सर्वे दुष्टग्रहाः प्रपलायन्ते ॥
एवं श्रवणो ग्रीवा भुजौ हृदयं करौ कण्ठ कटिं नाभिः ऊरू जङ्घां चरणौ नेत्रौ वक्त्रं जिह्वा चेति, एवं दशभिरङ्गुलीभिरनुपूर्वमुच्छ्रितौ अनुपूर्वमुद्रालक्षणं भवति । अनुपूर्वं च कर्म करोति । वक्त्रमुद्रया मुखाबन्धं, दंष्ट्रमुद्रया दुष्टग्रहमोचनं, जिह्वामुद्रया दुष्टवचननिवारणं, हृदयमुद्रया नृपतिकोपनाशनं, अन्यं वा सत्त्वं देवासुरं मानुषामानुषाद्यां विविधां वा गतिनिश्रितां रुपितानां क्रोधनाशनं भवति ॥
एवमनुपूर्व्या सर्वतः सर्वकर्माणि करोति । एवमसङ्ख्येयानि अनेन क्रमेण मुद्राणि भवन्ति । असङ्ख्येयानि च कर्माणि करोषि त्वं मञ्जुश्रीः सर्वथा सर्वमुद्रेष्वेव सर्वकर्माणि भवन्ति ॥
बद्धा ता यैः महावीरैः सङ्ख्यातीतैः तथागतैः ।
महामुद्रा महावीरैर्महाभूमिगतैरपि
यत्र निम्बरकोद्यानि षट्त्रिंशाशीतिनवपञ्चकैः ।
षष्टिर्नयुतसङ्ख्याद्यैः सर्वलोकोत्तरोत्तरैः
सर्वमुद्रान्तर्गताः सर्वे ये चान्या लौकिका क्रिया ।
एभिरन्यतमैर्मुद्रैः कुर्यात् सर्वार्थसाधनम्
हस्तद्वयेनावबद्धा वै साधनकाले च मण्डले ।
पूर्वसेवाभियुक्तेन होमजापेषु वा पुनः ।
निषण्णः स्थितको वापि यावादिच्छं जपेद् व्रती
महारक्षाविधानेन आत्मनस्य परस्य वा ।
कुर्यात् सर्वाणि कर्माणि सर्वमुद्रेषु सर्वदा
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0