मञ्जुश्रीमूलकल्प · अध्याय 28
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् पञ्चविंशतिमः एकाक्षरमूलमन्त्र आर्यमञ्जुश्रीहृदयकल्पपटविधानविसरः परिसमाप्त इति ॥
अथ अष्टाविंशतितमः पटलविसरः ।
अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः अपरमपि त्वदीयपटविधानं साधनौपयिकं सर्वकर्मार्थसाधकम् । एतेनैव तु एकाक्षरेण हृदयमन्त्रेण षडाक्षरेण वामकरान्तेन त्वदीयेन मूलमन्त्रेण वा षडक्षरहृदयेन ओम्काराद्येन एकाक्षरेण वा पटस्याग्रतः अस्यैव कल्पं भवति । पश्चिमे काले पश्चिमे समये मयि तथागते परिनिर्वृते शून्ये बुद्धक्षेत्रे युगाधमे प्राप्ते अत्राणे लोके अशरणे अपरायणे इदमेव कल्पराजा त्राणभूतं भविष्यति । शरणभूतं लयनभूतं परायणभूतम् । कतमं च तत् ॥
आदौ तावत् पूर्वमेवानाहते पटे केशापगते सप्तहस्तायते तृहस्तपृथके सदशे कुङ्कुमचन्दनरसपर्युषिते बुद्धं भगवन्तं शाक्यमुनिं लिखयेत् । पद्मासनोपविष्टं धर्मं देशयमानं मञ्जुश्रियं कुमारभूतमवलोकयन्तम् । दक्षिणे पार्श्वे सुधनं सुभूमिं आर्याक्षयमतिं मञ्जुश्रियं च भगवतो नमस्कारं कुर्वन्तं कुमाररूपिणं सर्वालङ्कारविभूषिताङ्गं वामपार्श्वे समन्तभद्रं आर्यावलोकितेश्वरं भद्रपालं सुशोभनं च लेखयेत् । भगवत्प्रतिमा ह्रस्वतरा च लेखयितव्या । आर्यावलोकितेश्वरसुधनौ चमरव्यग्रहस्तौ कार्यौ । वसुधा चाधस्तात् । रत्नकरण्डकव्यग्रहस्ताः पूर्वकायविनिर्गताः लेखयितव्या । उपरिष्टाच्च विद्याधरकुमारौ मालाधारिणौ मेघाश्च वर्षमाणाः सविद्युता लेखयितव्याः । सर्वे च बोधिसत्त्वा पुष्पमाणा यो भगवतो मुखं व्यवलोकयन्तः कर्तव्याः । सालङ्काराः प्रसन्नदृष्टयः पूर्वकाये निषीदवनतेन लेखयितव्याः ॥
तमीदृशं पटं सधातुके चैत्ये स्थाप्य पश्चान्मुखमक्षरलक्षं जपेत् । अस्य मञ्जुश्रियः काष्ठमौनी त्रिःकालस्नायी तृचेलपरिवर्त्ती सततपोषधिकः शाकयावकयथाभैक्षभैक्षाहारश्चतुर्भागमन्नं कृत्वा रत्नत्रयस्य भागमेकं अन्यः मञ्जुश्रियः अन्यत् सर्वसत्त्वानां शेषमात्मनो पयुञ्जीत । अक्षान्तकायो मनसि भगवन्तं कृत्वा सर्वसत्त्वानालम्बनेन मनसा नात्मार्थमहं किञ्चित् करोमि करिष्याम्यन्यत्र सर्वसत्त्वानामर्थायेति ध्यात्वा जापं कुर्यात् । स्नानं गन्धं पुष्पं धूपं बलिं प्रदीपांश्च दद्यात् । स्नापनं पटच्छायायाः गन्धानधस्तात् पुष्पाणि च बलिं च सततं दद्यात् । तत्रैव तेषां पूर्वं दद्यात् । रत्नत्रयस्य पश्चान्मैत्रेयस्य तदनन्तरमवलोकितेश्वरस्य आर्यसमन्तभद्रस्य आर्याकाशगर्भस्य आर्याक्षयमतेः कुमारभूतस्य चन्द्रप्रभस्य सर्वनीवरणविष्कम्भिणः आर्यवज्रधरस्य आर्यतारायाः आर्यमहामायूर्या आर्यपराजितायाः भगवत्याः प्रज्ञापारमितायाश्च गन्धं पुष्पं धूपं बलिं च सर्वमेतेषां पूर्वं दत्वा पश्चात् पटस्य दद्यात् ॥
पश्चाद् बहिरेकस्मिं प्रदेशे सर्वोष्ट्रगर्दभश्वहस्तिरूपाणि विनायकानि वल्मीकमृत्तिकया कृत्वा तेषां चाशेषं दद्यात् । अविस्मृत्य पिण्याकपिष्टकतिलकृतकुलत्थमत्स्यमांसमूलकवार्त्ताकपद्मपत्रकांसभाजनानि च वर्जयेत् । कुशविण्डकोपविष्टः तत्रैव श्रान्तः सर्वबुद्धानुस्मृतिं भावयेत् । मनसा जापं कुर्यात् । अन्यत्र विविक्ते कुशसंस्तरे शय्यां कल्पयेत् । अतिपानमतिभोजनं अतिपर्यटनं अतिदर्शनमतिशय्यां च वर्जयेत् । त्रिः कालं बुद्धानुस्मृति भावयेत् । शुक्रबन्धं च कुर्यात् । शोभनानि च स्वप्नानि नान्यस्य प्रकाशयेत् । भगवतो निवेदयेत् ॥
एवमनुपूर्वेण त्वरमाणः अक्षरलक्षं जपेत् । अन्ते च भगवतीं प्रज्ञापारमितां वाचयेत् । जपकाले भगवतो ऽथ मञ्जुश्रियः कुमारभूतस्य मुखमवलोक्य जापं कुर्यात् । अनाकुलाक्षरपदः । अक्षसूत्रान्ते च नमस्कारं कृत्वा निवेदयेत् । अनेन विधिना पूर्वसेवां कृत्वा पटं क्वचित् स्वस्थे स्थाने स्थाप्य कर्म कुर्यात् । यत्र मनसः परितुष्टिरस्ति ॥ पतविधानं समाप्तम् ॥
पश्चाद् भगवन्तं मञ्जुश्रियं श्वेतचन्दनमयं पद्मासनस्थं भगवतीं प्रज्ञापारमितां एकहस्ते दधानं दक्षिणेन फलं दधानं कारयेत् । तमेकस्मिं शुचौ प्रदेशे पश्चान्मुखं स्थापयित्वा तस्याग्रतो ऽग्निकुण्डं कुर्यात् । सर्वकर्म सचतुरस्रं द्विवितस्तिप्रमाणं अधश्च गन्धां सर्वधान्यानि च क्षिपेत् । तस्योपरि कुर्यात् ॥
अनेन विधिना नवमग्निमुत्पाद्य अश्वत्थसमिद्भिरग्निं अथवाशोकस्य वा घृततन्दुलोदनं क्षीरदधि मधु च सर्वमुपहृत्य ताम्रभाजने स्थापयित्वा अष्टसहस्रं परिजप्य पूर्णाहुतिं दद्यात् । पश्चादन्यस्मिं दिने शुक्लप्रतिपदमारभ्य कर्म कुर्यात् अश्वत्थसमिद्भिरग्निं प्रज्वाल्य विगतधूमं दृष्ट्वा अग्निमावाहयेत् । आगच्छ हरिपिङ्गल दीप्तजिह्व लोहिताक्ष हरिपिङ्गल देहि ददापय स्वाहा ॥
अनेन मन्त्रेणाहुतित्रयं दद्यात् । पश्चाद् भगवन्तमावाहयेत् । आगच्छगच्छ कुमारभूत सर्वसत्त्वार्थमुद्यतो ऽहं साहाय्यं मे कल्पय गन्धपुष्पधूपं च प्रतिगृह्ण स्वाहा ॥
यद् ददाति तदनेन दातव्यम् । आगतस्य चार्घो देयः सुगन्धपुष्पपानीयेन पश्चाद्धोमं कुर्यात् । सप्तवारानुदाहृत्य एकैवाहुतिं क्षिपेत् । एवं सप्तदिवसानि घृततन्दुलानि तिलयावकेन चाप्यायनं कुर्यात् ॥
अन्त्रत्रान्तरादवश्यमार्यमञ्जुश्रियं कुमाररूपिणं पश्यति । द्व्यङ्गुलप्रमाणानां चन्दनसमिधानामष्टसहस्रं जुहुयात् । दिनेदिने शतं पृथिवीपतीनां वशमानयति । जातीकुसुमानां लक्षं जुहुयात् । राजा वश्यो भवति । पद्मानां दधिमधुघृताक्तानां सहस्रं जुहुयात् । द्रव्यं लभते । शमीसमिद्भिरग्निं प्रज्वाल्य तिलां जुहुयात् । धनपतिर्भवति । सततमुदकमुदके जुहुयात् । प्रातरुत्थितः सर्वजनप्रियो भवति । अर्कसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् । सहस्रपिण्डं ग्रामं लभते । बहुपुत्रिकां जुहुयात् । कन्यां यामिच्छति तां लभते । अपामार्गं जुहुयात् व्याधिं प्रशमयति । क्षीरवृक्षकाष्ठैरग्निं प्रज्वाल्य तिलाहुतीनां लक्षं जुहुयात् । यां चिन्तयित्वा करोति तां लभते । विषयार्थी पद्मानां लक्षं जुहुयात् । विषयं लभते । यवानां लक्षहोमेनाक्षयमन्नमुत्पद्यते । गुग्गुलुपृयङ्गुं च घृतेन सह होमयेत् । पुत्रं लभते । अकाकोलीने जातीकुसुमानां पानीये जुहुयात् । सप्ताहेन ग्रामं लभते । जातीकुसुमानां जले एकैकं पुष्पं गृहीत्वा जुहुयात् । अवशेषं खण्डं यस्य घ्राणाय दीयते स घ्राणमात्रेण वश्यो भवति । कुङ्कुम कस्तूरिकालवङ्गपुष्पं च मुखे प्रक्षिप्य जपेत् । येन सह मन्त्रयते स वश्यो भवति । मरीचमष्टसहस्राभिमन्त्रितं कृत्वा मुखे प्रक्षिप्य क्रुद्धो ऽपि वचनेन प्रियो भवति । शिखामनेनैव बध्नीयात् । अदृश्यो भवति । शक्रं दृष्ट्वा मनसानुस्मरेद् विगतक्रोधो भवति । नित्यजापेन सर्वजनप्रियो भवति । महति प्रत्यूषे ऽभ्युत्थाय जातीकुसुमसहितं पानीयं शुचौ प्रदेशे भूमौ जुहुयात् । मन्त्री भवति । अनतिक्रमणीयवचनः । ( वैद्य 244 ) भये समुत्पन्ने मनसि कुर्यात् । भयं न भवति । परस्य क्रुद्धस्यापि मैत्रीं भावयित्त्वा अनुस्मृत्य मुखं व्यवलोकयेत् । विगतक्रोधो भवति । सर्वसुगन्धपुष्पैः होमं कुर्याद् यमुद्दिश्य करोति स वश्यो भवति । सप्ताभिमन्त्रितं उदकं प्रत्युषसि पिबेत् । नियतवेदनीयं कर्म क्षपयति । सप्तजप्तेनोदकेन मुखं प्रक्षालयेत् सर्वजनप्रियो भवति । पुष्पाण्यभिमन्त्र्य यस्य ददाति स वश्यो भवति । आचार्यत्वमेकेन लक्षहोमेन तन्दुलानाम् । विषयपतित्वं तिलानां पद्मानां सहस्रं जुहुयात् । दीनारसहस्रं लभते । वीरक्रयक्रीतां गुग्गुलुसर्जरसं गन्धरसं श्रीवासकं चैकतः कृत्वा जुहुयात् । पञ्चम्यां पञ्चम्यां षण्मासम् पूर्णे सहस्रगुणं लभते । सर्वगन्धैः प्रतिकृतिं कृत्वा तीक्ष्णशस्त्रेणैकधारेण च्छित्वा च्छित्वा जुहुयात् । दक्षिणेन पादा पुरुषस्य वामपादं स्त्रियः यमिच्छति स वश्यो भवति । सप्ताहं त्रिसन्ध्यं धुत्तूरकपुष्पाणि जुहुयात् । गावो लभते । अर्ककाष्ठैर्धान्यं शिरीषपुष्पैरश्वां अशोकपुष्पैः सुवर्णं व्याधिघातकपुष्पैर्वस्त्राणि लभते । यद् यदिच्छति तत् सर्वं जातीकुसुमहोमेन करोति । यद्वर्णानि पुष्पाणि पानीये जुहोति सवितुरुदये । तद्वर्णानि वस्त्राणि लभते । सप्तजप्तं भाजनं कृत्वा भिक्षामटति भिक्षामक्षयां लभते । रात्र्यामुत्थाय परिजप्यात्मानं स्वयं शोभनानि स्वप्नानि पश्यति ॥
अथ राजानं वशीकर्तुकामः तस्य पादपांसुं गृहीत्वा सर्षपैस्तैलैश्च मिश्रयित्वा जुहुयात् । सप्ताहं त्रिसन्ध्यं वश्यो भवति ॥
राज्ञीं वशीकर्तुकामः सौवर्चलां शतपुष्पां वाराहीं चैकतः कृत्वा जुहुयात् । सप्तरात्रं त्रिसन्ध्यं वश्या भवति । राजमात्यं वशीकर्तुकामः भल्लातकानां तिलां वचां च प्रतिकृतिं कृत्वा जुहुयात् । सप्ताहं सप्तरात्रं च वश्यो भवति । पुरोहितं वशीकर्तुकामः ब्रह्मदण्डीं शतपुष्पां चैकतः कृत्वा जुहुयात् । सप्तरात्रं त्रिसन्ध्यं वश्यो भवति । ब्राह्मणानां वशीकर्तुकामः, पायसं घृतसहितं जुहुयात् । सर्वे वश्या भवन्ति । अथ क्षत्रियं वशीकर्तुकामः, शाल्योदनं घृतसहितं जुहुयात् । सप्ताहम् । वैश्यानां वशीकरणे यावकां गुडसहितां जुहुयात् । वश्यो भवति । पिण्याकं जुहुयात् । शूद्रा वश्या भवन्ति । सर्वानेकतः कृत्वा जुहुयात् सर्वे वश्या भवन्ति । चतुःपथे एकशून्ये गृहे वा बलिं निवेद्य यो ऽस्य ग्लानः स तस्माद् विनिर्मुक्तो भवति ॥
मुखं स्पृशं जपे ज्वरमपगच्छति । अष्टशतजप्तेन शिखाबन्धेन सर्वव्याधिभ्यः परिमुच्यते । सर्वरोगेभ्यः मूश्रकं बध्वा शिखा बन्धं कृत्वा स्वप्तव्यं । सर्वरोगा अपगच्छन्ति । व्याधिना ग्रस्तः जपमात्रेण मुच्यते । गलग्रहे वल्मीकमृत्तिकां जप्त्वा लेपः कार्यः । व्याधिरपगच्छति । अक्षिरोगे नीलीकलिकानि जुहुयात् । व्युपशाम्यति ॥ पटविधानस्यार्तरिकर्म्मः ॥
पूर्वोक्तेन विधानेन अनाहते पटे केशापगते आर्यमञ्जुश्रीः कुमारभूतः आभिलेख्यः सर्वालङ्कारविभूषितः । रक्तवर्णः कुमाररूपी पद्मासनस्थः । दक्षिणपार्श्वे अर्यावलोकितेश्वरः वामपार्श्वे समन्तभद्रः । आर्यमञ्जुश्रियस्य किञ्चिदूनौ । तं पटं स्थापयित्वा कोटिं जपेत् । राजा भवति । चन्दनसमिधानां कुङ्कुमाभ्यक्तानां लक्षं जुहुयात् । राजा भवति । अगरुसमिधानां दधिमधुघृताक्तानां लक्षं जुहुयात् । राजा भवति । जातीकुसुमानां घृताक्तानां कोटिं जुहुयात् । राजा भवति ॥
यत्प्रमाणानां पद्मानां राशिं जुहोति तत्प्रमाणानां दीनाराणा राशी लभते । यावद् यावत् तावज्जप्यमानां न गृह्णाति तावद् विद्याधरचक्रवर्ती भवति । भल्लातकानां लक्षं जुहुयात् दीनारसहस्रं ददाति । व्याधिघातकफलानां लक्षं जुहुयात् महाधनपतिर्भवति । अष्टसहस्रहोमेन गुग्गुलुसमिधानां धान्यं लभते । सतततिलहोमेनाव्यवच्छिन्नं धान्यं लभते । गोतण्डुलानां लक्षं जुहुयात् । सह दध्ना गोसहस्रं लभते । बहुपुत्रिकाफलानि शमीफलानि चैकतः कृत्वा जुहुयात् । यामिच्छति कन्यां तां लभते । शमीपत्राणि जुहुयात् । सर्वकामदो भवति । अगस्तिपुष्पाणि क्षीराक्तानि जुहुयात् । ब्राह्मणवशीकरणा । करवीरपुष्पाणि शुक्लानि जुहुयात् । क्षत्रियवशीकरणे । कर्णिकारपुष्पाणि जुहुयाद्राजा वशीकरणे । धुत्तूरकपुष्पाणि जुहुयात् । शूद्रवशीकरणे । अर्कपुष्पाणां दधिमधुघृताक्तानां लक्षं जुहुयात् । सर्वव्याधिभ्यः परिमुच्यते ॥
अनेनैव विधिना पुष्पाणां सुगन्धानां लक्षं पादमूले निवेदयेत् । नित्यसुखी भवति । अश्वत्थसमिद्भिरग्निं प्रज्वाल्य शमीपुष्पाणां सहस्रं जुहुयात् । नक्षत्रपीडा व्युपशाम्यति । गोरोचनया मन्त्रमभिलेख्य शिरसि बध्वा सङ्ग्रामे ऽवतरेत् । शस्त्रैर्न स्पृश्यते । हस्तिस्कन्धे मञ्जुश्रियमग्रतो बलस्य दत्त्वा दर्शनमात्रेणैव परबलस्य भङ्गो भवति । ध्वजाग्रे कुमाररूपिणं सौवर्णमयूरासनस्थं कृत्वा सङ्ग्राममवतरेत् । दर्शनादेव परबलस्य भङ्गो भवति । जातीकुसुमानां पादमूले लक्षं निवेदयेत् । तत्रैव कुशसंस्तरे शय्यां कुर्वीत । स्वप्ने यथाभिलषितं कथयति । प्रदीपानां सहस्रं दत्त्वा एकप्रदीपं पद्मसूत्रवर्त्तिं कृत्वा मधुयष्टिं वेष्टयित्वा प्रज्वाल्य पश्येद् यथाभूतं मञ्जुश्रियं कुमारभूतं पश्यति ॥ द्वितीयं पटविधानं समाप्तम् ।
सौवर्णं रजतं वा कुमारं कृत्वा वरदं दक्षिणेन पाणिना । वामेन भगवतीं प्रज्ञापारमितां दधानं तमीदृशं सधातुककरण्डकं पुरतः स्थाप्याक्षरलक्षं जपेत् । पूजां वासरिणां कुर्यात् । बालदारकदारिकाश्चास्याग्रतो भोजयितव्या । गीतं वादितं पुस्तकवाचनं चाकुर्यात् । जपपरिसमाप्तौ पुष्पत्रयेणार्घं दत्वा प्रेषयेत् । पूर्वोक्तेन विधानेनावाहनविसर्जनं पद्ममुद्रां बध्वा जापं कुर्यात् । ध्वजमुद्राया आवर्त्तनं स्वस्तिकमुद्रया आसनं पूर्णमुद्रायार्घं एकलिङ्गमुद्रायां पुष्पाणि मनोरथमुद्रायां प्रदीपं यमलमुद्राया धूपं मयूरासनमुद्राया गन्धं यष्टिमुद्राया बलिं अनेन विधानेन रात्रौ दिनेदिने कुर्याद् यावज्जापपरिसमाप्तिरिति । पश्वात् कर्माणि कुर्यात् ॥
जातीकुसुमानां समुद्रगामिन्यां नद्यां लक्षं प्लावयेत् । विषयं लभते । रात्रौ जातिकुसुमौघं कृत्वा भगवतः पुरतः स्वपेत् । भगवन्तं पश्यति धर्म देशयमानं बोधिसत्त्वपरिवृतं यमुद्दिश्य करोति तदेव कम कुर्यात् । नान्यस्य कुर्यात् । उपोषधिकेन शुक्लप्रतिपदमारभ्य श्रीवासकधूपं मधुमिश्रं जुहुयात् राज्यं लभते । कोटिं जपेत् मञ्जुश्रियं स्वयमेव पश्यति धर्मदेशनां च करोति । यदि केनचित् सहोल्लापयति सम्मुखमवभाषते अवैवर्त्तिकश्च बोधिसत्त्वो भवति ॥ तृतीयं विधानम् ॥
रक्तचन्दनमयं कुमाररूपिणं एकेन पार्श्वेन प्रियंकरं अन्येन वीरमती साशोकवृक्षाश्रयां कारयेत् । तमेकपार्श्वे स्थापयित्वा लवणसर्वपराजिकाव्यामिश्रेण रक्तचन्दनप्रतिकृतिं कृत्वा च्छित्वा च्छित्वा जुहुयाद् यस्य नाम्ना स वश्यो भवति । उदुम्बरफलानि यस्य नाम्ना जुहुयात् स वश्यो भवति । काकोदुम्बरिकाफलानि जुहुयाद् यस्य नाम्ना स वश्यो भवति । शृङ्गाटकं जुहुयात् ब्राह्मणवशीकरणे पद्ममूलानि क्षत्रियवशीकरणे कशेरुकाणि जुहुयात् । वश्यवशीकरणे शालूकानि जुहुयात् । शूद्रवशीकरणे लवणशर्कराणामष्टसस्रं जुहुयात् । त्रिसन्ध्यं सप्ताहं यस्य नाम्ना जुहोति स वश्यो भवति । निम्बपत्राणि कटुतैलाक्तानि जुहुयात् आहुत्याष्टसहस्रं त्रिसन्ध्यं सप्ताहं यस्य नाम्ना स वश्यो भवति । सर्वेण होमेन वशीकरणम् । बृहतीकुसुमानां लक्षं जुहुयात् सुवर्णं लभते । कालाञ्जनिकाकुसुमानामष्टसहस्रं जुहुयात् महान्तं ग्रामं लभते । पाटलपुष्पाणि जुहुयाद् धान्यमक्षयं लभते । श्रीपर्णीपुष्पाणि जुहुयात् सुवर्ण लभते । वचां दधिमधुघृताक्तां जुहुयात् सर्ववादेषूत्तरवादी भवति । ब्राह्मीरसघृतसहितं ताम्रभाजने स्थापयित्वा तावज्जपेद् यावद् दशसहस्राणि पश्चात् पिबेत् सर्ववादिनो विजयते । यस्य क्रुद्धस्याष्टसहस्राभिमन्त्रितं कृत्वा लोष्टं क्षिपेत् पुरतः स क्रोधं मुञ्चति ॥ चतुर्थं विधानम् ।
अनाहते पटे केशापगते उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णकैः आर्यमञ्जुश्रियश्चित्रापयितव्यः । पद्मासनोपविष्टं धर्मं देशयमानं दर्क्षिणपार्श्वे आर्यमहामेखला वामपार्श्वे चार्यप्रज्ञापारमिता जापवती सर्वालङ्कारविभूषिता शुक्लवस्त्रनिवसना । तस्याधस्तात् पद्मसरः, बहुविधपुष्पसङ्कीर्णः नागराजानौ अकायविनिर्गतौ पद्मदण्डधृतहस्तौ आर्यापराजिता चैकस्मिं विघ्नविनायकां नाशयन्ती अग्निज्वालामुखी भृकुटीकृतलोचनां अन्यस्मिं पार्श्वे आर्यपर्णशबरी पाशपरशुव्यग्रहस्ता कृष्णरक्तनेत्रा मयूरपृष्ठभिरूढा साधकं परिरक्षन्ती । साधकश्च पद्ममालाव्यग्रहस्तः भगवतो मञ्जुश्रियमुखं व्यवलोकयमानः उपरिष्टाच्चामरपुष्पमालादुन्दुभिधारिणौ देवपुत्रौ लेखयितव्यौ ॥
तं पटं पश्चान्मुखं स्थाप्य सधातुके चैत्ये कोटिं जपेत् । जपान्ते च महतीं पूजां कृत्वा भगवतीं प्रज्ञापारमितां वाचयित्वा दशसहस्राणि जपेत् । मञ्जुश्रियो मुखं व्यवलोकयमानः । पश्चात् पटं कम्पते । राज्यं लभते । चक्षुश्च लभते । विद्याधरो भवति । हसते चक्रवर्त्ती भवति । भाषणे बोधिसत्त्वः प्रथमभूमिप्रतिलब्धो भवति । धर्मदेशनां चास्य शृणोति ॥
तस्यैव पटस्याग्रतः कपिलायाः समानवत्सायाः गोघृतं गृह्य ताम्रभाजने स्थाप्य तावज्जपेद् यावदूष्मायति । धूमायति । प्रज्वलति । ऊष्मायमानं पीत्वा परममेधावी भवति । श्रुतिधरः धूमायमाने ऽन्तर्द्धानम् ज्वलमाने आकाशगमनम् । आमशरावसम्पुटे स्थाप्य वचां जातीकुसुमैर्वेष्टयित्वा तावज्जपेद् यावदङ्कुरीभवति । तां भक्षयित्वा श्रुतिधरो भवति । अन्यां कोटिं जपेत् मञ्जुश्रियं साक्षात् पश्यति । धर्मदेशनां च शृणोति । तां चाधिमुच्यते ॥
सौवर्णपद्मं शतपत्रं कारयित्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य तावज्जपेद् यावज्ज्वलतीति । तेन गृहीतमात्रेण विद्याधराणां चक्रवर्ती भवति परैरधर्षणीयः । मनःशिलां हरितालमञ्जनं वा श्रीपर्णीसमुद्गके प्रक्षिप्य तावज्जपेद् यावत् खुट्खुटाशब्दं करोति । गृहीतमात्रेण भूमिचराणां राक्षसपिशाचानामधिपतिर्भवत्यधृष्यः । खड्गं गृह्य सल्लक्षणसङ्कीर्णं अव्रणं तावज्जपेद् यावदहिरिव फणं कृत्वा तिष्ठति । तं गृह्य विद्याधरचक्रवर्ती कल्पायुरधृष्यः । मनःशिलां तृलोहपरिवेष्टितां कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायतीति । अदृश्यो भवति । खड्गहर्ता अदृश्यः सर्वाणि कुशलोपसंहितानि करोति । वर्जयित्वा कामोपसंहितम् । शमीवृक्षरूढस्याश्वत्थस्य सारं गृह्य तृलोहपरिवेष्टितं कृत्वा मुखे प्रक्षिप्य तावज्जपेद् यावच्चुलुचुलायति । अधृष्यो भवति वर्षसहस्रं जीवति । रजतं चक्रं कृत्वा असुरविवरस्याग्रतः तावज्जपेद् यावच्चक्रं असुरजन्त्राणि भित्त्वा प्रविशति । तत्क्षणमेवासुरयुवतयो निर्गच्छन्ति । ताभिः सह प्रविश्य कल्पस्थायी भवति । लोहमयं तृशूलं कृत्वा तस्मिं विवरद्वारे जापं करोति तत्र सर्वयन्त्राणि स्फुटन्ति । यावद्भिः सहेच्छति तावद्भिः सह प्रविशति । कल्पस्थायी भवति । मैत्रेयं च भगवन्तं पश्यति ॥ पञ्चमं पटविधानम् ॥
श्वेतार्कमयं अङ्गुष्ठमात्रं भगवन्तं मञ्जुश्रियं कारयित्वा अर्कपुष्पाणां लक्षं निवेदयेत् । सामन्तराज्यं प्रतिलभते । श्वेतकरवीरमूलमयं कृत्वा अङ्गुष्ठमात्रमेव तत्पुष्पाणामेकां कोटिं निवेदयेत् मन्त्री भवति । करहाटवृक्षमयं वितस्तिप्रमाणमात्रं कारयित्वा तत्पुष्पाणां लक्षं निवेदयेत् । सेनापत्यं लभते । श्वेतचन्दनमयं वितस्तिप्रमाणमात्रं भगवन्तं मञ्जुश्रियं कृत्वा जातीकुसुमानां लक्षं निवेदयेत् । पुरोहित्यं लभते । अश्वत्थवृक्षमयं अङ्गुलमात्रप्रमाणं भगवन्तं मञ्जुश्रियं कारयित्वा अकाकोलीने पानीयकुम्भं निवेदयेत् । बहुजनसम्मतो भवति । सर्वगन्धमयं कृत्वा सर्वगन्धपुष्पैर्निवेदितैः यमिच्छति तमाप्नोति । सतत्तसमितमगरुसमिधानां जुहुयात् मन्त्री बहुजनस्य सम्मतो भवति । सततजापेन पञ्चानन्तर्याणि विक्षिपयति । मरणकाले मञ्जुश्रियं पश्यति । धर्मदेशनां चास्य करोति । उत्थायोत्थाय अष्टशतं जपेत् सर्वसत्त्वानामधृष्यो भवति । अक्षिणी परिजप्य स्वामिनं पश्येत् । प्रसादवां भवति । यमुद्दिश्य कर्मकरो तत्रस्थं सप्तभिर्दिवसैः ग्रामान्तरस्थं एकविंशतिभिर्दिवसैः विषयान्तरस्थं चतुर्भिः मासैः नद्यन्तरितं षड्भिर्मासैः स्वकुलविधानेनान्यमन्त्रविधानेन चाशेषं कर्मं करोति वर्जयित्वा कामोपसंहितम् । आभिचारुकं चेति ॥ षष्ठो विधानः ।
इत्युक्तं युगान्तेहितं + + + + + + तथा ।
सत्त्वानामल्पपुण्यानां हितार्थं मुनिना पुरा
शासनान्तर्हिते शास्तुः शाक्यसिंहस्य तापिने ।
सिद्धिं यास्यते तस्मिं काले रौद्रे ऽतिभैरवे
सप्तमं वक्ष्यते ह्यत्र कल्परात्रे सुखावहे ।
ममैतत् कथितं कल्पं तस्मिं काले सुदारुणे
सत्त्वानामल्पपुण्याणां मार्गो ह्येष प्रवर्तितः ।
बोधिसम्भारहेतुत्वं त्रियानपथनिम्नगम्
उपायकौशल्यसत्त्वानां दर्शयामि तदा युगे ।
तृष्णामूढा हि वै सत्त्वा रागद्वेषसमाकुला
तेषां दर्शयाम्येतं मार्गं तृष्णावशानुगम् ।
तृष्णाबन्धनबद्धास्तु कुशलं वा कर्महेतुतः
सिद्धिसाध्यं तथा द्रव्यं मन्त्रतन्त्रं समोदितम् ।
विनयार्थं तु सत्त्वानां कथितं लोकनायकैः ।
एतत् कर्मस्य माहात्म्यं साधकानां तु जापिनाम्
इत्युक्त्वा मुनिवरो ह्यग्र शाक्यसिंहो नरोत्तमः ।
कथित्वा मन्त्रतन्त्राणां बलं वीर्यं सविस्तरम्
अमोघं दर्शयेत् सिद्धिं तस्मिं काले युगाधमे ।
शुद्धावासं तदा वव्रे देवसङ्घा जिनोत्तमो
यमेतन्मार्षा प्रोक्तं कल्पराजं सविस्तरम् ।
सवलोकहितार्थाय मञ्जुघोषस्य शासनमिति
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0