भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 29

29.1

आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् षड्विंशतिमः कर्मविधानार्यमञ्जुश्रीयपरिवर्त्तपटलविसरः परिसमाप्त इति ।
अथैकोनत्रिंशः पटलविसरः ।
अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीये कल्पविधानपरिवर्ते सप्तमः पटकर्मविधानं यो तस्मिं काले तस्मिं समये युगान्ते साधयिष्यन्ति अमोघा तस्य सिद्धिर्भविष्यति । सफलाः सुखोदयाः सुखविपाकाः दृष्टधर्मवेदनीया सर्वदुर्गतिनिवारणीया नियतं तस्य बोधिपरायणीया सिद्धिर्भविष्यति ॥
अथ भगवां शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य हृदयं भाषते स्म -
षडक्षरं षड्गतिमोचनात्मकं अचिन्त्यतुल्याप्रतिमं महर्द्धिकम् ।
विमोचकं सर्वभवार्णवार्णवं तृदुःखदुःखा भवबन्धबन्धनात्

29.2

असह्यं सर्वभूतानां सर्वलोकानुलिप्तकम् ।
अधृष्यं सर्वभूतानां भवमार्गविशोधकम्

29.3

प्रापकं बुद्धधर्माणां सर्वदुष्टनिवारणम् ।
अनुमोदितं सर्वबुद्धैस्तु सर्वसम्पत्तिकारकम् ।
उत्कृष्टः सर्वमन्त्राणां मञ्जुघोषस्य शासने

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc