भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 27

27.1

उत्तमसाधनं कर्तुकामेन अनाहते पटे अच्छिन्नदशे केशापगते अश्लेषकैर्वर्णैर्भगवां चित्रापयितव्यः । धर्मराजा धर्मचक्रप्रवर्त्तकः सर्वलोकाधिपतिः पुरुषोत्तमः द्विपदानामग्र्यः तथागतरत्नः रत्नकेतुर्नामा जिनोत्तमः धर्मं देशयमानः समन्तज्वालप्रभामण्डलः । अधस्ताद् ब्रह्मा आर्यवज्रपाणिश्च, उपरिष्टान्मालाधारिणौ देवपुत्रौ, अधस्तात् साधकः । तस्याग्रतस्त्रिसन्ध्यं अगरुधूपं दहता दशलक्षाणि जपेत् । पश्चात् कर्माणि भवन्ति ॥
प्रथमं चक्रसाधनं कर्तुकामः, द्वादशारं पुष्पलोहमयं चक्रं कृत्वा प्रातिहारकपक्षे भगवतो ऽग्रतस्त्रिसन्ध्यमगरुधूपं दहता दश लक्षाणि जपेत् । अन्ते पूर्णमास्यां उदारां पूजां कृत्वा, हस्तेनावष्टभ्य, तावज्जपेत्, यावत् प्रज्वलितमिति । तं गृहीत्वा विद्याधरचक्रवर्ती भवति । यैर्दृश्यते, यांश्च पश्यति, तैः सहोत्पतति ॥
अथ च्छत्रं साधयितुकामः, श्वेतच्छत्रं विचित्रं चाभिनवं कारयित्वा, सुवर्णचक्रचिह्नं कौशेयवस्त्रावलम्बितं तेनानेनैव विधानेन शिरसि कृत्वा जपेद्, विद्या स्वयमेवोपतिष्ठति । अनेन च भगवतो ऽग्रतस्त्रिसन्ध्यमगरुधूपं दशलक्षं जपेत् । अन्ते पूर्णमास्यामुदारां पूजां कृत्वा, हस्तेनावष्टभ्य तावज्जपेद्, यावत् प्रज्वलितमिति । तं गृहीत्वा विद्याधरचक्रवर्ती भवति । मासे मासे पौर्णमास्यां पञ्चभिः पक्षैः प्रातिहारिकपक्षे सिद्ध्यति । अथ सिद्धमात्रेण सर्वधर्मा आमुखीभवन्ति । सर्वाभिज्ञ प्रतिलभते । सर्वबुद्धबोधिसत्त्वाभिनन्दितः सर्वसत्त्वानुप्रवेशः सिद्धो भवति । लोकधात्वन्तरे ऽपि सहस्रपरिवारश्चक्रवर्ती भवति ॥
अथोष्णीषं साधयितुकामः हस्तमात्रे दण्डे सौवर्णरजतताम्रमयं मणिमयं वा कृत्वा तावज्जपेद् यावत् प्रज्वलितमिति । तं गृहीत्वा यथेष्ट विचरति । सत्त्वेभ्यो धर्मं देशयति । महाकल्पं जीवति ॥
अथ भद्रघटं साधयितुकामः सौवर्णं भद्रघटं कृत्वा सर्वबीजरत्नौषधिपरिपूर्णं शुक्लवस्त्रावकुण्ठितं तमनेन साधयेद् एकस्मिं प्रातिहारकपक्षे कर्मारभेद्, अपरस्मिन् सिद्ध्यति । तस्मिं हस्ते प्रक्षिप्य यमिच्छति तं लभते । अक्षयं भवति ॥
अथ चिन्तामणिरत्नं साधयितुकामः सौवर्णदण्डो जात्यमणिं स्फटिकमणिं च सौवर्णं वा वस्त्रावलम्बन्तं कृत्वा अनेनैव विधानेन साधयेद्, यं चिन्तयति तत् सर्वं सिद्ध्यति । ( वैद्य 227 ) देवमनुष्येषु चानेन गृहीतेनाप्रतिहतबलपराक्रमो भवति । अथ भगवतः कोटिं जपेत्, स्वशरीरेणोत्पतति । दिव्यबहुमहाकल्पं जीवति । अन्ये वा योरसितातपत्रप्रख्यादयः तदप्यनेन भगवतो दशलक्षजप्तेन कर्माणि कर्तव्यानि सिद्ध्यन्ति । एवमप्रतिहतः तथागतोष्णीषः परकल्पविधानेनापि यथा यथा प्रयुज्यति, तथा तथा सिद्ध्यति । अचिरादेव भगवतः उष्णीषचक्रवर्त्तिनः दशलक्षजप्तः सर्वं साधयति सर्वविद्यामन्त्राधिपतिचक्रवर्ती ॥
अथ वज्रं साधयितुकामः रक्तचन्दनमयं एकसूचिकं वज्रं कृत्वा, अथवा पुष्पलोहमयं कृत्वा, पञ्चगव्येन प्रक्षाल्य, शुक्लपञ्चदश्यां पटस्याग्रतः उदारां पूजां कृत्वा, घृतप्रदीपान् प्रज्वाल्य, गन्धोदकेन प्रक्षाल्य, यक्षा वश्या भवन्ति । सर्वबुद्धबोधिसत्त्वानमात्मानं निर्यात्य, अनेनोष्णीषराजा परिवारेण तेजोराशिसितातपत्रेण वा रक्षां कृत्वा, मण्डलबन्धं सहायानां च रक्षां कृत्वा, वज्रं दक्षिणेन हस्तेन गृहीत्वा, प्रथमे यामे ऽतिक्रान्ते द्वितीये यामे उपविश्य एकाग्रचित्तः तावज्जपेद्, यावत् प्रज्वलितमिति । अत्रान्तरे सर्वविद्याधरा सर्वे देवनागयक्षाः सन्निपतन्ति । सर्वे च विद्याधरराजानः आगच्छन्ति । तैरभिष्टूयमानः विद्याधरपुरं गच्छति । विद्याधरचक्रवर्ती भवति । वज्रपाणिसदृशकायः वज्रपाणिसमबलः क्षणलवमुहूर्त्तेनाकनिष्ठं देवभवनं गच्छति । महाकल्पस्थायी भगवन्तमार्यमैत्रेयं पश्यति । धर्मं शृणोति । मृतो यत्रेच्छति, तत्रोपपद्यते । यदिच्छति वज्रपाणिसकाशादुत्पद्यते ॥
अथ खड्गं साधयितुकामः, निर्व्रणं खड्गं गृहीत्वा, अहोरात्रोषितो भगवतोदारां पूजां कृत्वा, तावज्जपेद्, यावज्ज्वलितेन सिद्धेन सपरिवारेणोत्पतति ॥
आकुञ्चितकुण्डलकेशः द्विरष्टवर्षाकृतिः अपन्थदायी अगम्यः सर्वविद्याधराणां अन्तरकल्पं जीवति ॥
अथ मनःशिलां साधयितुकामः, वीरक्रयेण क्रीत्वा पुष्पयोगत्रिरात्रोषितः सङ्घोद्दिष्टकां भिक्षां भोजयित्वा आज्ञा दापयितव्या । अनुज्ञातस्तत्र साधनं प्रविशेत् । उदारां पूजां कृत्वा, घृतप्रदीपसहस्रं प्रज्वालयितव्यम् । त्रिरात्रोषितः सर्वसत्त्वानां मैत्रचित्तमुत्पाद्य आत्मानं निर्यात्य मनःशिलां गृहीत्वा तावज्जपेद्, यावत् त्रिविधा सिद्धिः । ऊष्मधूमज्वलितपूर्वमेव चिन्तयितव्यम् । अमुक्तसिद्धिरूष्मायमानतिलकं कृत्वा, सर्वदेवनागयक्षभूतपिशाचादीं जम्बूद्वीपनिवासिनश्च सत्त्वा दासभूता भवन्ति । किङ्करा भवन्ति । वर्षसहस्रं जीवति । धूमायमाने तिलकं कृत्वा, अन्तर्द्धीयते । यदिच्छेद् देवानामप्यदृश्यो भवति । क्षणलवमुहूर्तेन दृश्यते । पुनरन्तर्धीयते । सर्वान्तर्द्धानिकानां राजा भवति । त्रीणि वर्षसहस्राणि जीवति ज्वलितेन विद्याधरो भवति । सपरिवार उत्पतति । विद्याधरराजा भवति । देवकुमारवपुः अधर्षणीयः सर्वदेवानां कः पुनर्विद्याधराणां कल्पस्थायी भवति । कालगतस्तूषिते देवनिकाये उपपद्यते ॥
अथ त्रिशूलं साधयितुकामः, पुष्पलोहमयं तृशूलं कृत्वा, संवत्सरं जपेत् । ततो वालुकामयं हस्तप्रमाणं चैत्यं कृत्वा, तस्य महतीं पूजां कृत्वा, उदारं च बलिं निवेद्य, दक्षिणहस्तेन तृशूलं गृहीत्वा, तावज्जपेद्, यावत् पर्यङ्कं बध्वा याव स्फुरति, ज्वलति, रश्मिसहस्राणि ( वैद्य 228 ) प्रमुञ्चति । अत्रान्तरे महेश्वरप्रमुखा देवा मागच्छन्ति । सर्वविद्याधरा पुष्पवर्षं प्रवर्षन्ति । ततस्तैः परिवृतः यावतां पश्यति, यैश्च दृश्यते, तैः सहोत्पतति । त्रिनेत्रः द्वितीय इव महेश्वरः सर्वविद्याधरनमस्कृतः महाकल्पस्थायी निरीक्षितमात्रेण दुष्टचित्तां पातयति । न कस्यचिद् गम्यो भवति । सदेवके लोके प्रागेव विद्याधराणां च्युतः सुखावत्यावुपपद्यते ॥
अथ वेताडं साधयति । अक्षताङ्गं पुरुषं गृहीत्वा, चतुरखदिरकीलकैः यन्त्रितस्योरस्युपविश्य, रत्नचूर्ण जुहुयात् । तस्य जिह्वाग्रे चिन्तामणिरत्नं दृश्यते । तं गृह्य विद्याधरचक्रवर्ती भवति । यानि प्रहरणानि चिन्तयति, तानि मनसैवोपपद्यन्ते । योजनशतं प्रभयावभासयति । इच्छया कालं करोति । यत्रेच्छति, तत्र गच्छति । लोकधात्वन्तरे ऽपि विद्याधरचक्रवर्ती भवति । च्युतो विमलायां लोकधातावुपपद्यते ॥

द्वितीयं वेतालसाधनम् । अक्षताङ्गं वेतडं गृहीत्वा, बदरकीलकैः कीलयित्वा, तस्य मुखे लोहचूर्णं जुहुयात् । तस्य जिह्वा निर्गच्छति । तं छित्वा, शतपरिवार उत्पतति । अन्तरकल्पं जीवति । सुमेरुमूर्द्धनि क्रीडति, रमति । यदा मृयते, तदा एकदेशिको राजा भवति ॥
अथाङ्कुशं साधयितुकामः, कुशमयमङ्कुशं कृत्वा, कृष्णमयोरेकतरेण पञ्चगव्येन प्रक्षाल्य, एकरात्रोषितः अङ्कुशस्य हस्तं प्रमाणमात्रं कर्तव्यम् । उदारां पूजां कृत्वा, वज्रपाणेर्घृतप्रदीपशतं प्रज्वाल्ययितं कर्तव्यम् । वज्रं कुर्यात् तथैव सितातपत्रस्य आत्मनो रक्षा कर्तव्या । तेजोराशिना मण्डलबन्धं विकरेणेन कीलकां सप्ताभिमन्त्रितां कृत्वा, चतुर्दिशं निखानयितव्या । अथाबन्धं स्थानं च परिग्रहं कृत भवति । ततो द्वितीये प्रहरे एकाग्रमनाः पर्यङ्कं बध्वा, अङ्कुशं गन्धपुष्पधूपैरभ्यर्च्य कृतरक्षः सर्वबुद्धबोधिसत्त्वां नमस्कृत्य अङ्कुशं हस्तेन गृह्य तावज्जपेद् यावदत्रान्तरे नरकायिकानां देवानां वेदनान्युपशाम्यन्ते । सर्वबुद्धबोधिसत्त्वां नमस्कृत्य उत्पतति । विद्याधरराजो अप्रतिहतगतिः अङ्कुशव्यग्रहस्तः । सर्वदेवनागयक्षादयश्च दृष्ट्वा दूरादेव प्रणामं कुर्वन्ति । कल्पस्थायी यदा मृयते, तदा वज्रभवनं गच्छति । वज्रपाणिं पश्यति । यदि पटं साधयति, तेन ज्वलितेन विद्याधरो भवति । यमिच्छति कल्पं साधयितुं तस्य मन्त्रस्य नामं ग्रहाय लक्षं जपेदन्ते एकारात्रोषितः उदारां पूजां कृत्वा अर्ककाष्ठैरग्निं प्रज्वाल्य तिलानां दधिमधुघृताक्तानामष्टसहस्रं जुहुयात् । होमान्ते आगच्छति । धनं यमिच्छति तं ददाति । वशं तिष्ठति किङ्करवशः ॥
अथ महेश्वरं कर्तुकामः महेश्वरस्य महतिं पूजां कृत्वा दक्षिणायां मूर्त्तौ अर्ककाष्ठैरग्निं प्रज्वाल्य अष्टसहस्रं जुहुयात् । हाहाकारशब्दं भवति । न भेतव्यं तत आगच्छति ब्रवीति किं कर्त्तव्या सर्वे महेश्वरा विद्या मम सिद्धा भवन्तु । यद्वरं रोचति तं ददाति । एवमस्त्विति कृत्वा अन्तर्द्धियते ॥
एवं विष्णुब्रह्माद्यमाकर्षयति । यं चारोचयति तस्याप्येषो विधिः कर्त्तव्यः । कृतरक्षेण कार्यम् ॥
अथ यक्षिणी आकर्षयितुकामः तस्य नामं गृह्य सप्ताहमशोकपुष्पाणि जुहुयात् । आगच्छति वरं ददाति सप्तमे सप्ताहे ऽवश्यमागच्छति । माता भगिनी भार्या यं चारोचति । अथ न वा गच्छति । मूर्द्धानमस्य स्फुटति ॥
नागीमाकर्षितुकामस्य नागपुष्पाणामेष एव विधिः । यक्षं आकर्षितुकामस्य मासत्रयं दधिभक्तं जुहुयात् । अन्ते एकरात्रोषितः भगवतः पूजां कृत्वा यक्षाणां यक्षबलिं चोदनानि निवेद्य यक्षकर्षणं करिष्यामीति मनसि कृत्वा वटवृक्षसमिधां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् । अत्रान्तरे कुबेराद्या यक्षा आगच्छन्ति । तेषां रक्तकुसुमैः अर्घो दीयते । वक्ष्यन्ति किं कर्तव्यं ते । वक्तव्याः एकैकं दिने यक्ष आज्ञाकरं यक्षं प्रेषयेति । तत एकैकं यक्षं प्रयच्छन्ति । तस्य आज्ञा दातव्या । योजनशतादपि स्त्रियमानयन्ति । प्रभाते तत्रैव नयन्ते । शतपरिवृतस्य भक्तं प्रयच्छन्ति । पृष्ठमारुह्य यत्रेच्छति तत्र गच्छति । नयति । रसायनं ददाति । आज्ञप्ताः सर्वं करोति ॥
अथ वज्रपाणिं साधयितुकामः चतुर्गुणं सप्तगुणं पूर्वसेवां कृत्वा प्रातिहारकपक्षे सकलामुदारतरां पूजां कृत्वा यावत् पूर्णमासीति पूर्णमास्यां पूजां कृत्वा भिक्षवः सङ्घोद्दिष्टकां भोजयित्वा आर्यवज्रधरस्थैव अनुमोदितव्या तत उदारां पूजां कृत्वा प्रथमे यामे ऽतिक्रान्ते द्वितीये यामे पर्यङ्कं बद्ध्वा उपविश्यैकाग्रमनसः वज्रधरं द्रक्ष्यामीति चित्तं सङ्कल्प्य गुग्गुलुगुलिकानां बदरास्थिप्रमाणां रात्रावेकयामं जुहुयात् । ततो भगवतः स्रग्दामचलनं भवति । भूः प्रकम्पति । मेघा गुलुगुलायन्ति । सर्वे विद्याधराः पुष्पवर्षं प्रवर्षन्ति । अत्रान्तरे भगवां वज्रपाणिरागच्छन्ति सर्वविद्याभिः परिवृतः विद्योत्तमप्रमुखैः विद्याराजैः परिवृतः सर्वदेवैः सर्वनागैः सर्वयक्षैः सर्वगन्धर्वैः किन्नरैर्बोधिसत्त्वैः परिवृतः आगच्छति । तत्क्षणं नारकाणां सत्त्वानां तीव्रवेदना व्युपरता भवन्ति । गन्धोदकेन अर्घ्यो देयः । प्रणिपत्य स्थातव्यं अतो वज्रधरो वक्ष्यति किं ते वरं ददामि । विद्याधरचक्रवर्त्तित्वं बिलप्रवेशं राष्ट्रं अन्तर्धानं यद्वा रोचते तस्यैव भगवतः सकाशाल्लभ्यते । यद्वा रोचति विद्याधरचक्रवर्तित्त्वं सर्वविद्याधराणां चक्रवर्त्ती वज्रकायो वज्रपाणिसदृशः चित्तमात्रेण सर्वप्रहरणान्युत्पद्यन्ते । महाकल्पस्थायी । यदा मृयते तदा वज्रभवनं गच्छति । अन्येषामपि विद्याधराणां एष एव विधिः संक्षेपतो यानि वज्रपाणिकल्पे यानि अवलोकितेश्वरकल्पे यानि च भगवता प्रोक्तानि कल्पानि यानि ब्रह्मकल्पे यानि महेश्वरकल्पे संक्षेपतो लौकिकलोकोत्तरेषु कल्पेषु ये शाधनीयाः, ते एतेनैव साधनया सिद्ध्यन्ते । महामन्त्रा साध्यमाना न सिद्ध्यन्ति । अनेन सार्द्धं जप्तव्याः सप्तरात्रं नियतं दर्शनं ददाति । अथ न ददाति विनश्यति । महेश्वरप्रमुखानां देवानां अग्रतः यदि जपति सप्तरात्राभ्यन्तरेण दर्शनं ददाति । यदि न ददाति त्रिसप्तधा मूर्ध्ना स्फुटति । चन्द्रग्रहे आदित्यग्रहे वा घृतवचाञ्जनपवित्रदण्डकाष्ठयज्ञोपवीतहरितालमनःशिलादयः साधयितव्याः ॥
अथ द्रव्यं साधयितुकामस्य मनःशिलां गृह्य मानुषक्षीरेण पीषयित्वा पञ्चगुलिका कर्त्तव्या । अगुरुसमुद्गके प्रक्षिप्य श्वेतसिद्धार्थकसहितां साधयेत् । चन्द्रग्रहे सूर्यग्रहे वा बलिविधानं कृत्वा यदा सर्षप चिटिचिटीयन्ति तथा प्रथमा सिद्धा या वा सर्वजनवशीकरणं तया सर्वस्य लौकिकेया विधेया भवन्ति । यदुच्यते तत् सर्वं करोति । अथ धूमायते सर्वान्तर्द्धानिकानां राजा भवति । अन्तरकल्पं जीवति । ज्वलिते तदा देवकुमारवपुः तरुणार्कतेजो विद्याधरराजा भवति । महाकल्पं जीवति ।
एवं रोचनाहरितालादीनि साधयितव्यानि ॥
अथाञ्जनं साधयितुकामः श्रोताञ्जनं नीलोत्पलं कुष्ठं चन्दनं चैकतः कृत्वा ताम्रभाजने संस्थाप्य चन्द्रग्रहे तावज्जपेद् यावद् धूमायति । तेनाञ्जितनयनः अन्तर्द्धीयते कामरूपी सर्वान्तर्द्धानिकाना राजा भवति ॥
अथ खड्गा साधयितुकामः निर्व्रणं खड्गमादाय कृष्णाष्टम्यां कृष्णचतुर्दश्यां वा पटस्योदारां पूजां कृत्वा बलिविधानं च कृतरक्षः खड्गं दक्षिणहस्तेन गृहीत्वा तावज्जपेद् याव स्फुरति । ज्वलिते स्फुरिते एकाकी विद्याधरो भवति । ज्वलितेन सर्वविद्याधराणां राजा भवति । अप्रतिहतबलपराक्रमः यैर्दृश्यते यांश्च पश्यति तैः सहोत्पतति ॥

अथ वज्रं साधयितुकामः पुष्पलोहमयं वज्रं कृत्वा षोडशाङ्गुलं उभयत्रिशूचकं रक्तचन्दनेनानुलिप्य प्रातिहारकपक्षप्रत्तिपदमारभ्य पटस्योदारां पूजां कृत्वा जपेत् प्रतिदिनं वर्द्धमाना भिक्षवो भोजयितव्या । अन्ते त्रिरात्रोषितः पटं सधातुके चैत्ये प्रतिष्ठाप्य उदारां पूजां कृत्वा घृतप्रदीपशतं प्रज्वाल्य कुशपिण्डकोपविष्टः वज्रमुभाभ्यां पाणिभ्यां गृहीत्वा तावज्जपेद् यावज्ज्वलितमिति । तं गृह्य सप्तपरिवार उत्पति । विद्याधरचक्रवर्त्ती भवति । वज्रपाणितुल्यपराक्रमः महाकल्पे जीवति । भिन्ने देहे वज्रपाणिभवनं गच्छति ॥
एवं शूलचक्रशरशक्तिप्रभृतय सर्वे प्रहरणाः पटपादुकदण्डकाष्ठयज्ञोपवीतादीनि परकल्पविधानेन साधयितव्यानि । सर्वेषां त्रिविधा सिद्धिः ॥
शान्तिकं कर्तुकामः पद्माकारं वेदिं कृत्वा याज्ञिकैः समिद्भिरग्निं प्रज्वाल्य स्रुवेण परमान्नाहुतीनां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् । त्रिरात्रेण आत्मनः परस्य वा शान्तिर्भवति । सप्तरात्रेण ग्रामस्य वा नगरस्य वा । महामारि उपद्रवे शमीसमिधानां दधिमधुघृताक्तानां जुहुयात् । उदुम्बरसमिधानां दधिमधुघृताक्तानां जुहुयादनावृष्टेः । तृमधुरं जुहुयात् । सर्वत्र परमशान्तिर्भवति । भिक्षाहारः त्रिंशलक्षं जपेत् । प्रातिहारकपक्षे शुक्लपूर्णमास्यां त्रिरात्रोषितः चन्द्रग्रहे कृष्णगोक्षीर अष्टशताभिमन्त्रितं कृत्वा पिबेद् रसायनं गुणोपेतं भवति । दूर्वाप्रवालानां दधिमधुघृताक्तानां अष्टसहस्रं दशरात्रं जुहुयात् । अकालमृत्युः प्रशाम्यति । दीर्घायुर्भवति । ध्वजशङ्खादीनि अभिमन्त्रयेत् । ( वैद्य 231 ) दृष्ट्वा श्रुत्वा च परसैन्यं स्तम्भयति । सर्वव्रीहिगन्धोदकपरिपूर्णं नवं कलशं कृत्वा अष्टशतजप्तेन विनायकोपद्रुतं स्पृष्ट्वा स्नापयेत् । अभिषिक्तो लक्ष्मीवां भवति । अनेनाभिषेकेण सर्वपापैः प्रमुच्यते । मण्डलकर्माणि करोति । ग्रहकर्माणि शतसहस्रजप्तेन मयूरपिच्छकेन सर्वविषां नाशयति । तेनैव ज्वरमक्षिशूलरोगादीं नाशयति । सूत्रकेण सर्वज्वरां मुद्रासमेतयुक्तो मन्त्रेणासुरयन्त्राणि घातयति । खदिरसमिधानां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् । महानिधानं प्रयच्छति ॥
समुद्रगामिनीं नदीमवतीर्य रक्तचन्दनाक्तानां पद्मानां शतसहस्रं प्रवाहयेत् । पद्मराशितुल्यं निधानं लभति । दीयमानमक्षयं भवति । बिल्वाहुतीनां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् । भोगां प्राप्नोति ॥
देवां वशीकर्तुकामः अगरुसमिधानां दधिमधुघृताक्तानां जुहुयात् अष्टसहस्रं । त्रिसन्ध्यमेकविंशतिरात्रं तन्दुलानां दधिमधुघृताक्तानामेकीकृत्य जुहुयात् । अक्षयमन्नं भवति ॥
यक्षाणां वशीकरणे गुग्गुलुगुलिकानां दधिमधुघृताक्तानां जुहुयात् । अशोकसमिद्भिर्यक्षिणीनाम् नागानां नागपुष्पां आर्यवज्रवज्रपाणिरगरुसमिधाभिः विद्याधराणां दमनकसमिधाभिः अगुरुसमिधानां तुरुष्कतैलाक्तानां गन्धर्वाणां कुन्दुरुहोमेन प्रेतानां श्रीवासकहोमेन किन्नराणां सर्जरसहोमेन विनायकानां सर्वेषामष्टशतिको होमः सप्ताहं राजानस्य राजसर्षपतैलाक्तानां अष्टशतं जुहुयात् । त्रिसन्ध्यं सप्तरात्रं आदित्याभिमुखं लक्षं जपेत् सर्वपापैः प्रमुच्यति ॥
सर्वविद्यानामाप्ययनं कर्तुकामः गोमूत्रयावकाहारः उशीरमयीं प्रतिकृतिं कृत्वा शुक्लपुष्पैरभ्यर्च्य क्षीराष्टशतं जुहुयात् । क्षीरेण च स्नपयेत् । अष्टशतजप्तेन अगरुधूपं दद्यात् । आप्यायितो भवति । सुकृदुच्चारितेन आत्मरक्षा कृता भवति । द्विरुच्चारितेन परस्य त्रिरुच्चारितेन द्रव्यस्य रक्षा कृता भवति ॥
छिन्नभिन्ननष्टकीलितानां आप्यायनं कर्तुकामः उशीरमयीं प्रतिकृतिं कृत्वा शुक्लषुष्पैरभ्यर्च्य अनेन उष्णीषराजेन पटस्याग्रतः राजसर्षपाणां दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् । विद्यामुद्दिश्य उत्कीलिता भवति । पापिजनातिरिक्तां विद्यां ज्ञात्वा गोरोचनया भूर्जपत्रे लिख्य ततः आत्ममन्त्रमष्टशताभिमन्त्रितं कृत्वा भगवतः उदारां पूजां कृत्वा अनेन भगवता सार्द्धं अष्टसहस्रं जप्त्वा तत्रैव कुशसंस्तरे स्वपेत् । ऊनातिरिक्तां स्वप्ने आगत्य कथयति ॥
अथ पद्मं साधयितुकामः रक्तचन्दनमयं पद्मं कृत्वा उदारां पूजां कृत्वा त्रिरात्रोषितः तं पद्मं दक्षिणेन हस्तेन गृहीत्वा तावज्जपेद् यावज्ज्वलितमिति । विंशतिपरिवारः उत्पतति । विद्याधरचक्रवर्त्ती भवति । अप्रतिहतगतिः । यदा मृयते तदा सुखावत्यामुपपद्यते ॥
अथ वज्रं साधयितुकामः वल्मीकमिश्रया मृत्तिकया वालुकमिश्रया वज्रं कृत्वा भिक्षाहारः मौनी अपत्थदायी वज्रं गृह्य त्रीणि लक्ष जपेत् । एकसूचिकं वज्रं कर्त्तव्यम् । तं वज्रमन्ते सिद्धार्थकमध्ये स्थाप्य चन्द्रग्रहे चन्द्रग्रहे स्थातव्यम् । तावज्जपेद् यावत् सर्षपा चिटिचिटायन्ति । वज्रं सिद्धं भवति । तेन वज्रेण गृहीतेन सर्वकर्मणि करोति । पर्वतशिखराणि चूर्णयति । नागह्रदं शोषयति । नदीः प्रतिस्रोतमानयति । नागां विद्रापयति । विषाणि निर्विषीकरोति । सर्वे प्राणिनः स्तम्भयति । मोहयति । पातयति । यन्त्राणि चूर्णयति । शकटप्रभृतीनि च स्तम्भयति । चूर्णयति । एवमादीनि सर्वकर्माणि करोति । एष एकसूचिकस्य वज्रस्य साधनम् ॥
उष्णीषचक्रवर्त्तिनं साधयतो न कश्चिच्छक्नोति विघ्नं कर्तुम् । साक्षान्मूर्ध्नटको ऽपि हि विधिना नाविधिना । अस्य च जापकाले सततं बुद्धलोचनां पूर्वं पश्चाच्च जप्तव्यम् । एवं सौम्यत्वं भवति । सिद्धिस्याभिमुखीभवति ॥
अथ समुद्रगामिनीं नदीमवतीर्य पद्मानां लक्ष निवेदयेत् । श्री आगत्य वरं प्रयच्छति । राष्ट्रं ददाति । अथ त्रीणि लक्षाणि निवेदयेत् । सार्वभौमिको राजा भवति । जम्बूद्वीपाधिपतिर्भवति । विवरस्याग्रतः पटं प्रतिष्ठाप्य लक्षाणि त्रीणि जपेत् । सर्वयन्त्राणि पतन्ति । निर्विशङ्केन प्रवेष्टव्यम् । प्रविश्य रसरसायनं निःकाशयति । अथ तत्रैव तिष्ठति वैष्णवचक्रभयमुत्पद्यते । अथ प्रविशति अनुस्मरितमात्रेण भस्मीभवति । मनसेन उत्थापयति । न कदाचिदपि प्रविशति तस्मिं ॥
शुक्लप्रतिपदमारभ्य त्रिःकालं जातीकुसुमैः सकृज्जप्तेन भगवता पादाङ्गुष्ठे ताडयितव्यम् । यावत् पादाङ्गुष्ठाद् रश्मिर्निश्चरति । साधकशरीरे ऽन्तर्द्धीयति । तत्क्षणादेवाकुञ्चितकुण्डलकेशो भवति । सपरिवार उत्पतति । विद्याधरराजा भवति कल्पस्थायी ॥
अथ समुद्रतटे पश्चान्मुखं पटं प्रतिष्ठाप्य नागकाष्ठैः अग्निं प्रज्वाल्य समुद्रस्यौद्दिश्य नागपुष्पाणां लक्षं जुहुयात् । समुद्रे ऊर्मय आगच्छन्ति । सिद्धिनिमित्तं न भेतव्यम् । तावद् यावत् समुद्रो ब्राह्मणवेषेणागच्छति । व्रवीति किं मया कर्त्तव्यम् । वक्तव्यम् । वश्यो मे भव । ततो यदुच्यते तत् सर्वं करोति ॥

पद्मं भूम्यां लिख्य सहस्रपत्रं तस्योपर्युपविश्य शतसहस्रं जपेत् । भूमिं भित्त्वा उत्तिष्ठति । सहस्रपरिवार उत्पतति महाकल्पस्थायी विद्याधरराजा भवति । अपरिपत्थदायी तेजेन पञ्च योजनानि अवभासयति ॥
प्रातिहारकपक्षे जातीपुष्पाणां भगवतः उष्णीषराजस्योपरि लक्षं निवेदयेत् । एकैकं जप्तव्यम् । तावद् यावदुष्णीषाद् रश्मि निश्चरति । साधकस्य शरीरे ऽन्तर्द्धीयते । तत्क्षणादेव पञ्चाभिज्ञो भवति । दशलक्षजप्तः यथा यथा प्रयुज्यति तथा तथा अनेनैव भगवता सार्द्धं यदि विद्या जप्यते सा नियतमागच्छति । साक्षादस्य जप्यमाना यदि न वागच्छति स मूर्ध्ना स्फुटति । शुष्यति ॥
अयं च एकाक्षर उष्णीषचक्रवर्ती तथागत एव साक्षात् को ऽन्यः सदेवके लोके सर्वमन्त्रविद्यानां राजा तथागत एव । सितातपत्रतेजोराशिप्रमुखानि अस्य परिवारः । सर्वेषामुष्णीषराजानाम् । साधनविधान सर्वं अत्रैव योज्यम् । सर्वे च उष्णीषराजा अनेन साध्या । उत्तमसाधनं इच्छता अस्थानेन योज्यम् । यदि युज्यति उत्तमा सिद्धिर्न भवति । संक्षेपतः सर्वे देवा अनेनाकृष्यन्ते ॥
अथ निधानमुद्धाटयति । यत्र निधानं तिष्ठति तत्र गत्वा अकालकलशं गृह्य सर्वगन्धैर्लिप्य श्वेतचन्दनोदकं कुम्भे प्रक्षिप्य अष्टसहस्राभिमन्त्रितं कृत्वा निधानं स्थापयेत् । यदि निधानं तिष्ठति तदा स भूमिः स्फुटति । यदि निधानं पुरुषमात्रे तिष्ठति उदकेन स्प्रष्टव्यम् । हस्तमात्रं खत्वा ग्रहेतव्यः ॥
अथ सिंहं साधयितुकामः वल्मीकमृत्तिकया कृत्वा गोरोचनया समालभ्य पिण्डिकायां प्रतिष्ठाप्य उदारां पूजां कृत्वा तावज्जपेद् यावचलति । चलितेन सिद्धो भवति । पृष्ठमारुह्य आकुञ्चितकुण्डलकेशः आत्मपञ्चमोत्पतति । ब्रह्मायुषो नववर्षसहस्राणि जीवति । सर्वविद्याधराणामागम्य ॥
एवं हस्त्यश्वमहिषश्च साधयितव्या । यदा सिंहनादं नदति तदा देवा आसनेभ्यश्चलन्ति ॥
पद्मसरं गत्वा पद्मानां लक्षं निवेदयेत् । सामन्तराज्यं प्रतिलभते । रक्तकरवीरकलिकानां लक्षं जुहुयात् । राजकन्यां लभते । जातीपुष्पाणां लक्षं समुद्रगामिन्यां नद्यां प्रवाहयेत् कन्यां लभते यामिच्छति । सर्वे ते उत्तमसाधनानि सिद्ध्यन्ति ॥
अनेनोष्णीषचक्रवर्तिना स यत्र गच्छति इन्द्रो ऽप्यस्यासनं ददाति । सर्वे च देवराजानः दूरादेव दृष्ट्वा भीता त्रस्ता भवन्ति । सर्वेषां च देवराजानां प्रभां प्रभां व्यामीकरोति । योजनशताभ्यन्तरेण करोति ॥
अयं चक्रवर्ती तथागत एष देवलोके सर्वे च कल्पस्य भगवतः उष्णीषचक्रवर्तिनः एकाक्षरस्य वशे वर्तन्ति । तन्निम्नाश्च सर्वे मन्त्रतन्त्राः सकल्पकाः सविस्तरा इत्याह भगवां शाक्यमुनिः सिंहो नरोत्तम इति ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकात् महायानवैपुल्यसूत्रात् चतुर्विंशतिमः एकाक्षरचक्रवर्तिकर्मविधिपटनिर्देशपटलविसरः परिसमाप्त इति ॥
सप्तविंशतितमः पटलविसरः ।
अथ भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य तत्रस्थांश्च देवसङ्घां सर्वांश्च बुद्धबोधिसत्त्वा प्रत्येकबुद्धार्यश्रावकां पुनरपि मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । निर्दिष्टो ऽयं मञ्जुश्रीः सर्वतथागतानां सर्वस्वभूतं धर्मकोशं चिन्तामणिप्रतिप्रख्यं लोकानामाशयसफलीकरणार्थं तस्मिं काले युगाधमे शून्ये बुद्धक्षेत्रे परिनिर्वृतानां तथागतानां सद्धर्मनेत्री अन्तर्द्धानकालसमये तस्मिं काले तस्मिं समये सर्वतथागतानां मन्त्रकोशसंरक्षनार्थं त्वदीयकुमारमन्त्रतन्त्राणां कल्पराजे ऽस्मिं निधानभूतो भविष्यति । जप्यमानो विधिना सारभूतो ऽयं मञ्जुश्रीः सर्वतथागतमन्त्रतन्त्राणां त्वदीये च कुमारकल्पराजे ऽग्रभूतो भविष्यत्ययं एकाक्षरचक्रवर्त्ती । अनेन जप्यमानेन सर्वे ताथागता विद्याराजानः जप्ता भवन्ति ॥
अपरमपि मञ्जुश्रीः त्वदीयकल्पराजे निधानभूतं सारभूतं अग्रभूतं ज्येष्ठभूतमेकाक्षरं पूर्वमासीत् । अतीते काले अतीते समये द्वाषष्टिगङ्गानदीसिकतप्रख्यैः कल्पैः अमितायुर्ज्ञानविनिश्चयराजेन्द्रो नाम तथागतो ऽर्हन् सम्यक् सम्बुद्धः विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवां । यस्य स्मरणादेव नामग्रहणमात्रेण पञ्चानन्तर्याणि क्षयं गच्छन्ति । नियतं बोधिपरायणा बहवः सत्त्वाः ये नाममात्रं श्रोष्यन्ते । कः पुनर्वादो ये मन्त्रसिद्धये । अवश्यं च सर्वमन्त्रजापिभिः अयं भगवानमितायुर्ज्ञानविनिश्चयराजा तथागतः प्रथमत एव मनसि कर्त्तव्यः । वाचा च वक्तव्या - नमस्तस्मै भगवते अमितायुर्ज्ञानविनिश्चयराजेन्द्राय तथागतायार्हते सम्यक् सम्बुद्धाय ॥
ततो ऽमिताभं रत्नकेतुं ततः सर्वबुद्धानां प्रणामं कृत्वा यथेप्सितं मन्त्रा जप्तव्या । आशु सिद्धिं प्रयच्छन्ति । यत् कारणं महापुण्याभिवृद्धये मन्त्राणां तथागतानां संज्ञापरिकीर्त्तनं नमस्कारं च सर्वतथागतानां च प्रमाणं नियतं बोधिपरायणो ऽयं कुशलसम्भारपरिपूरितो भवति । बोधिसत्त्वसङ्ख्यं गच्छति । मन्त्रा च तस्य आशु सिद्धिं प्रयच्छन्ति । अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण तथागतेनार्हता सम्यक् सम्बुद्धेन अयमेकाक्षरमन्त्रः सर्वतथागतहृदयः सर्वमन्त्रतन्त्राभिमतः सर्वकर्मासाधकः मञ्जुघोष त्वदीये कल्पराजे परमरहस्यं परमगुह्यतमं लोकेनात्महिताय प्रयोक्तव्यम् ।
अशिष्ये चापि अधार्मिके ............ ।
अप्रसन्ने तथा शास्तु शासने ऽस्मिं जिनोदिते

27.2

दुष्टे मानिने चापि शास्तुः शासनच्छिद्रिणे ।
न कथञ्चित् प्रयोक्तव्यः अप्रसन्ने जिनसूबुनाम्

27.3

श्रावकां खड्गिणांश्चापि पूजानुग्रहमक्षमे ।
न तस्य देयं मन्त्रं वै सिद्धिस्तस्य न दृश्यते

27.4

श्राद्धः सौम्यचित्तश्च प्रसन्नो जिनशासने ।
बोधिसत्त्वो तथा नित्यं पूजानुग्रहतत्परः

27.5

तस्य सिद्धिर्भवेन्मन्त्रे इह कल्प महोदिते ।
एकाक्षरे महामन्त्रे मञ्जुघोषनियोजिते

27.6

तेनासील्लोकनाथेन मन्त्रं दत्तं सुखावहम् ।
हृदयं सर्वबुद्धानां सर्वमन्त्राणां च उद्भवः

27.7

षट्सप्तत्यः तथा कोट्यः पुरा गीतं स्वयम्भुना ।
मन्त्राणां श्रेयसार्थाय देहिनां पापमोहिनाम्

27.8

सर्वे ऽस्तं गता मन्त्राः शास्तुबिम्बं समाश्रिताः ।
तेषु सारभूतो ऽयं विद्याराजा महर्द्धिकः ।
एक अक्षरविन्यस्तो शाश्वतो ऽयं प्रवर्त्तते

27.9

स्थितैषा धर्मकोटिस्थः बुद्धानां तु जगद्धिताम् ।
धर्मनेत्र्या समाश्रित्य स्थितो ऽयमेकमक्षरः

27.10

सर्वार्थसाधको मन्त्रः दुष्टराज्ञां निवारकः ।
करोति कर्मवैचित्र्यं सर्वकर्मप्रसाधकः

27.11

साष्टं कर्मसहस्रं च कुरुते च ध्रुवं तथा ।
विचित्रां सम्पदं दद्याद् विधिदृष्टेन कर्मणा

27.12

मञ्जुश्रियस्य हृदयो ऽयं मकारो मन्त्रसंयुतः ।
उकारगतिनित्यज्ञः आशील्लोके प्रवर्तितः

27.13

अमितायुर्ज्ञानराजेन विनिश्चितार्थः प्रकाशितः ।
मञ्जुघोषस्य बुद्धेन प्रवृत्तो ऽयं वशहेतुना

27.14

त इमं युगान्तके लोके शास्तरिः परिनिर्वृते ।
सिद्धिं च यास्यते क्षिप्रं विधिदृष्टेन कर्मणा

27.15

अमितायुर्नाम आशीत् बुद्धक्षेत्रविकल्पितम् ।
तत्रासौ भगवां बुद्धः धर्मचक्रप्रवर्तकः

27.16

तिष्ठत्यपरिमितां कल्पां आयुर्वसितमधिष्ठितः ।
अत एव तस्य संज्ञाभूदमितायुर्ज्ञानविनिश्चय

27.17

राजेन्द्रः सर्वलोकानां महर्द्धिको ऽयं तथागतः ।
स दद्युः मन्त्रवरं मुख्यं बुद्धपुत्रस्य धीमते

27.18

ज्येष्ठः तनयमुख्यस्य महास्थाने महर्द्धिके ।
ततस्तेन सुतेनैतत् समन्तभद्रस्य योजितम्

27.19

ततस्तं बुद्धपुत्रो वै मञ्जुघोषस्य दत्तवां ।
अधुनाहं तथागतो ह्यग्रकल्पमस्य मुदीरयेत्

27.20

इदं तन्मन्त्रमुख्यं वै धर्मराजेन भाषितम् ।
श्रेयसार्थं तु भूतानां सर्वेषां मन्त्रमब्रीत्

27.21

नमो ऽमितायुर्ज्ञानविनिश्चयराजेन्द्राय तथागतायार्हते सम्यक्सम्बुद्धा नमः सर्वबुद्धानां शालेन्द्रराजरमितायुरमितायुरत्नकेतुप्रभृतीनाम् । एभ्यो नमस्कृत्वा त्रिरति मन्त्रो जप्तव्यमेकाक्षरम् । कतमं च तत् । मुं ॥
एष सः मार्षा अमितायुर्ज्ञानविनिश्चयराजेन्द्रेण तथागतेनार्हता सम्यक् सम्बुद्धेन भाषितम् । अमितव्यूहवत्यां लोकधातौ स्थितेन सर्वसत्त्वानामर्थाय हिताय सुखाय लोकानुकम्पायै महतो जनस्यार्थाय अनागतानां च जनतामवेक्ष्य शासनान्तर्द्धानकालसमयं विदित्वां अन्ते युगाधमे रत्नत्रयापकारिणां दुष्टराज्ञां निवारणार्थं ज्येष्ठमौरसं पुत्रं सर्वतथागतानां महास्थामप्राप्ताय बोधिसत्त्वाय महासत्त्वाय दत्तवां । बुद्धाधिष्ठानेन समन्तभद्रस्य दत्तवां । समन्तभद्रो बोधिसत्त्वो महासत्त्वः मञ्जुश्रियस्य कुमारभूतस्य दत्तवां । ततो मञ्जुश्रियेण कुमारभूतेन सर्वसत्त्वानामनुग्रहार्थं महाकरुणावशेन हृदयस्थः स्वमूर्त्तौ स्थापितवां । अनागतकालमवेक्ष्य युगाधमे शासनान्तर्द्धानकालसमये अहमपश्चिमकस्तथागतः दुष्टे काले कलौ युगे मम शासनसंरक्षणार्थं करिष्यत्ययं मन्त्रवरः ॥
अस्य कल्पं वक्ष्ये समासतः । शृणु कुमार मञ्जुस्वर सुस्वर तवैतन्माहात्म्यं कल्पविस्तरम् । अस्य कल्पराजेन्द्रस्य सविस्तरतरं वक्ष्ये ॥
आदौ तावत् पर्वताग्रमारुह्य विंशल्लक्षाणि जपेत् । पूर्वसेवा कृता भवति । क्षीराहारेण मौनिना नान्यत्र मन्त्रगतचित्तेन तृशरणपरिगृहीतेन उत्पादितबोधिचित्तेन च मोषधशीलसंवरसमादापनाबोधिसत्त्वसंवरसंवरपरिगृहीतेन जप्तव्यम् । ततः कर्माणि भवन्ति । आदौ तावत् पटं लिखापयितव्यम् । उपोषधिकेन चित्रकरेण अश्लेषकैर्वर्णैः अन्यतरेण शुचिना चेलखण्डेन पट्टके वा चन्दनकर्पूरकुङ्कुमपर्युषितेन शुचौ देशे शुचिना चित्रकरेण त्रिशुक्लभोजिना शुचिवस्त्रप्रावृतेन आदित्योदयकालपरिपूर्णपञ्चदश्यां विशुद्धनक्षत्रेण लिखापयितव्यं यावन्मध्याह्नम् । परतो वर्जयेत् । एवं दिवसे दिवसे यावत् परिसमाप्त इति ॥
आदौ तावत् पटस्य अमितायुर्वतीं लोकधातुमालिखेत् । हस्तमात्रे पटे सुगतवितस्तिचतुरस्रे पट्टके वा समन्तादमितायुर्वतीं लोकधातुं समन्तात् पद्मरागेन्द्रनीलस्फटिकमरकतपर्वतैरधस्तात् उपशोभितं उपरिष्टाच्च तेषां महारत्नविमानोपशोभिताकारं ध्वजपताकोपशोभितोच्छ्रिताकारं तत्र मध्ये रत्नसिंहासनोपविष्टममितायुविनिश्चयराजेन्द्रं तथागतं धर्मं देशयमानं समन्तप्रभाज्वालामालिनं ईषद्रक्तावदातं वामपार्श्वरत्नोपलनिषण्णं महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वं चामरव्यग्रहस्तं तथागतदृष्टिं वामहस्तबीजपूर्णकफलन्यस्तं प्रियङ्गुश्यामावदातं सर्वालङ्कारालङ्कृतशरीरं समन्तज्वालं दक्षिणपार्श्वे भगवन्तं समन्तभद्रं बोधिसत्त्वं महासत्त्वं रत्नोपलस्थितं चामरव्यग्रहस्तं उद्धूयमानसितविन्यस्तपाणिं वामहस्तेन रत्नपाणिसर्वालङ्काररत्नमकुटविच्छुरितप्रियङ्गुश्यामावदातं ( वैद्य 237 ) नीलपट्टचलनिकानिवस्तं मुक्तिकाहाररत्नयज्ञोपवीतं समन्तज्वालामालावबद्धं तस्य दक्षिणपार्श्वे आर्यमञ्जुश्रियं रत्नोपलस्थितकं कुमारभूतं पञ्चचीरकोपशोभितं शिरं बालदारकालङ्कारालङ्कृतं कनकवर्णं नीलपट्टचलनिकानिवस्तं मुक्तावलीरत्नव्यतिमिश्रं यज्ञोपवीतं तथागतदृष्टिं ईषत्प्रहसितवदनं सौम्याकारं चारुरूपं कृताञ्जलिपुटं सर्वाकारवरोपेतं लिखापयितव्यम् । तस्याधस्ताद् यथा चे लिङ्गं वेषी संस्थानधारी साधकः पद्ममालां गृह्य जानुकोर्परसंस्थितः अवनतशिरः पटकोणान्तदेशे लिखापयितव्यः । भगवतः उपरिष्टाच्चत्वारो बुद्धाः भगवन्तः लिखापयितव्यः । दक्षिणोद्देशे द्वौ अमिताभः पुण्याभश्च । वामपार्श्वे उपरिष्टाद् द्वौ तथागतौ अभिलिखापयितव्यौ सालेन्द्रराजा रत्नकेतुश्च । समन्तप्रभा समन्तज्वाला कनकवर्णाः सर्वाकारवरोपेता सर्वपुष्पाभिकीर्णा निषण्णा पद्मासनेष्वेव नान्यासनेषु धर्मं देशयमानाः पर्यङ्कोपविष्टाः सौम्याकारा भगवतः उपरिष्टात् पुष्प वर्षं प्रवर्षयमानं मेघान्तर्गतलीनं तथागतविग्रहमुत्पतमानं सुनेत्रनामा अभिलिखापयितव्यः । सर्वाकारवरोपेतं समन्तप्रभाज्वालामालिनं दक्षिणहस्तेन वरप्रदं वामहस्तेन चीवरकर्णकावसक्तम् ॥
एतद् भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्य तथागतस्यार्हतः सम्यक्सम्बुद्धस्य पटविधानम् । एतस्यैव भगवतः अयमेकाक्षरो मन्त्रः । उष्णीषराजो ऽयं उष्णीषचक्रवर्त्ती प्रतिस्पर्द्धी समतुल्यवीर्यः तुल्यप्रभावः । अचिन्त्यमस्य गुणविस्तारप्रभावं महर्द्धिको ऽयं महानुभावः । संक्षेपतः सर्वतथागतोष्णीषराजानं महाचक्रवर्तिनमेकाक्षरस्य च यानि कल्पविस्तराणि उक्तानि तानि सर्वाणि करोति । असाधितो ऽपि जप्तमात्रः कर्माणि कुरुते । कः पुनर्वादः साधितः । यथेष्टफलसम्पदां ददाति । ईप्सितं भवति । मनसा यदभिरुचितं अस्य पटस्य दर्शनादेव नियतं बोधिपरायणो भवति ॥

तस्यैव भगवतः अमितायुर्ज्ञानविनिश्चयराजेन्द्रस्याधिष्ठानेन सर्वतथागतहृदय इत्युच्यते सर्वतथागत उष्णीषराजमित्युच्यते । चक्रवर्ति इत्युच्यते । महाचक्रवर्तिराज इत्युच्यते । मञ्जुश्रियः कुमारभूतस्य हृदय इत्युच्यते । एकाक्षर इत्युच्यते । संक्षेपतः अचिन्त्यमस्य प्रभावः । अचिन्त्या हि बुद्धानामधिष्ठानः । अचिन्त्यं बुद्धविकुर्वितम् । असाधितो ऽपि अकृतपुरश्चरणो ऽपि सर्वगृहारम्भप्रतिष्ठितो ऽपि सर्वभक्षमद्यमांसग्राम्यधर्मप्रतिषेविणो ऽपि वर्जयित्वा अश्राद्धस्य अनुत्पादितबोधिचित्तस्य । एतेषां नास्ति सिद्धिः । रत्नत्रयोपकारिणां तत्प्रतियत्नोपघातिनां च । एतेषां क्षुद्रकर्मापि न सिद्ध्यन्ति । कः पुनर्वादो मध्यमोत्तमा सिद्धिः । सर्वकामप्रचारभक्ताचारप्रचारस्य साधिकाष्टं कर्मसहस्रं क्षुद्रकर्मप्रयुक्तस्य सिद्ध्यन्ते । कतमे च ते? आदौ तावदेकजप्तः आत्मरक्षा । द्विजप्तः पररक्षा । त्रिजप्तो महारक्षा भवति । महाबोधिसत्त्वेनापि दशभूमिप्रतिष्ठितेन न शक्यते संक्षोभयितुम् । कः पुनर्वादः तदन्यैः सत्त्वैः । पञ्चरङ्गिकेण सूत्रेण चतुर्जप्तेन कट्यां वेष्टयेत् । शुक्रबन्धः कृतो भवति । स्वप्नोपघातं चास्य न भवेत् । वर्जयित्वा तु स्वेच्छया तदह एव रात्र्यामेको यदि रोचते दिने दिने कर्तव्यः । अथ न रोचते भस्म सप्ताभिमन्त्रितं कृत्वा नाभिदेशं स्पृशेत् । त्रिसप्ताहं शुक्रबन्धं कृतो ( वैद्य 238 ) भवति । पञ्चजप्तो बुद्धं भगवन्तं ध्यात्वा यं स्पृशेत् स वश्यो भवति । चन्द्रमसग्रहे शशिग्रहे शशिमण्डले अर्ककाष्ठैरग्निं प्रज्वाल्य विनापि पटेन पूर्वाभिमुखः आज्याहुतीनां दशसहस्राणि जुहुयात् । राजकुलसमीपे निम्नगानान्तरिते देवावसथे वा नान्तरितं यस्मिं देशे राजा तिष्ठति तत्र समीपे होमकर्मः प्रयोक्तव्यः । प्रभाते राजा वश्यो भवति । यदुच्यते तत् सर्वं करोति । यदा न पश्यते तदा तस्य चित्तं न्यस्तं भवति । मान्द्यो वा भवति । चित्तविक्षेपतां प्रतिपद्यते । भूयो प्रत्यायनं कर्त्तव्यम् । क्षीराहुतीनामष्टसहस्रं जुहुयात् । यत्र वा तत्र वा काले । ततः प्रभृति स्वस्थो भवति । एतत् कर्म श्राद्धानां रत्नत्रयप्रसन्नानां उत्पादितबोधिचित्तानां न कर्तव्यम् । यदि करोति महान्ततरं अपुण्यस्कन्धं प्रसनुयात् । अन्येषामपकारिणं कर्तव्यम् । दुष्टचित्तानां रौद्रचित्तानां दिनेदिने दर्शनं च दातव्यम् । सौम्यचित्ता भवन्ति । यदि न भवन्ति महता अर्थेन वियुज्यन्ते । प्राणावशेषा भवन्ति ॥
पुनरपि कर्मं भवति । चन्द्रग्रहे पलाशसमिद्भिरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात् । प्रभाते देशस्वामी राजा भवति मन्त्रापयति मन्त्रितव्यम् । सद्भावमुपदर्शयते । उपदेष्टव्यं षण्मासाभ्यन्तरेण सहस्रपिण्डं ग्रामं ददाति । यद्यर्द्धरात्रं जुहोति त्रिभिर्मासैः । यदि सर्वयामिकं रात्रिं जुहोति मासेनेकेन लभते । यदि मासं जुहोति रात्र्यां रात्र्यां विषयं प्रतिलभते । विषयप्रतितुल्यं वा ग्रामं अन्यं वा यत् किञ्चिद् वितम् । अरयो न प्रभवन्ति । यदि सम्प्रभवन्ति पुनरपि कर्म भवति ॥
चन्द्रग्रहे अपामार्गकाष्ठैरग्निं प्रज्वाल्य पलाशसमिधानां ब्राह्मणारे दधिमधुघृताक्तानां अष्टसहस्रं जुहुयात् । अन्ते पिचुमन्दपत्राणां कटुतैलाक्तानां आहुतिमष्टसहस्रं जुहुयात् । प्रभाते सौम्या ब्राह्मणा राजा विद्विष्टो भवति ॥
अपरमपि कर्म भवति । चन्द्रग्रहे यथोपपन्नकाष्ठैरग्निं प्रज्वाल्य घृताहुतीनामष्टसहस्रं जुहुयात् । होमान्ते च यस्यां दिशि प्रभुस्तिष्ठति तस्यां दिशि तद् भस्म क्षिपेत् । स वश्यो भवति । यं वा तं वा यस्मिं वा तस्मिं वा काले रोचते भोगां विस्तरतैः साहाय्यतां च प्रतिपद्यते । स्वल्पमल्पं वा महान्तं वा ग्राममनुप्रयच्छति विषयं वा । अमोघा च सिद्धिर्भवति षड्भिर्मासैः नियतम् ॥
अथ क्रुद्धचित्तश्चतुर्वर्ण्यो अन्यतरं विकृतस्थाने वा यातो विकृष्टप्रधानलिङ्गेन वा अन्यदेवताभक्तं लौकिकेषु यस्मिं दिशि ते तिष्ठन्ति तदेव वेश्म सो ऽस्य देशान्तरं प्रक्रमते । उद्विग्नश्च भवति । रात्रौ प्रपलायते वा । कुटुम्बं वास्य भिद्यते । प्रत्यायनं क्षीराष्टसहस्राहुतयो होतव्याः । स्वस्थो भवति ॥
अपरमपि कर्म भवति । चन्द्रग्रहे तेनैव विधिना बुद्धबोधिसत्त्वप्रतिमापटस्य वा सद्धर्मपुस्तके वा सधातुकगर्भचैत्ये वा शुचिना शुचिवस्त्रप्रावृतेन अहोरात्रोषितेन निष्प्राणकेनोदकेन कर्म कर्त्तव्यम् । शुष्कपुष्पैः सुगन्धैः चन्दनकुङ्कुमपरिपूर्णः कर्पूरधूपधूपितोद्देशं तं कुर्यात् । ( वैद्य 239 ) यत्र कर्म प्रयुज्यते ब्राह्मणारेः पलाशकाष्ठैः क्षत्रियारे अश्वत्थकाष्ठैः वैश्यारेः खदिरकाष्ठैः शूद्रारेस्तदन्यैः काष्ठैः अग्निं प्रज्वाल्य तदेव कर्म कुर्यात् । ब्राह्मणस्य पलाशसमिध क्षत्रियस्याश्वत्थसमिधं वैश्यस्य खदिरसमिधं शूद्रस्य अपामार्गसमिधं तदन्यैर्वा यथालब्धैः राज्यहोमान्ते कुर्यात् । कर्मं तथैव महाराज्ञा अपराजितमूलसमिधं जुहुयात् । अष्टसहस्रं घृताहुतीनां अष्टसहस्रं अन्ते च तस्यां तदेव भस्मं क्षिपेत् । यस्यां दिशि महाराजा तिष्ठति । दुष्टचित्त आगच्छति वा उष्णीषचक्रवर्त्ती एकाक्षरमुद्रं बध्वा क्षिपेत् । उत्पलमुद्रं वा स वित्रस्तो निर्वर्त्तति । भग्नचक्रो वा भवति । अन्यद् वा यत्किञ्चिन्महोत्पातं भवति । महोपसर्गं चित्तदौस्थित्यं येन वाचास्य निर्वर्त्तते ॥
एतानि वा पराणि च यथेष्टानि कर्माणि भवन्ति । वस्त्रमभिमन्त्र्य प्रावरेत् । सुभगो भवति । अक्षिण्यभिमन्त्र्य अञ्जयेत् । सर्वजनप्रियो भवति । सप्ताभिमन्त्रितं कुर्यात् । अक्षिणी मुखं च सर्वतः कृत्वा क्रुद्धस्य मुखं निरीक्षयेत् । स वश्यो भवति । सौम्यश्च पुष्पफलं अन्यं वा यत्किञ्चित्सगन्धं सप्ताभिमन्त्रि कृत्वा राज्ञो निवेदयेत् । सचिघ्रीतमात्रेण वश्यो भवति । अन्यो वा यः कश्चित् सत्त्वः स दर्शनमात्रेणैव वश्यो भवति । सर्वाङ्गशूलेषु अष्टशतमभिमन्त्रितं कृत्वा उष्णवारिणा स्नायीत । स्वस्थो भवति । एतानि कर्माणि कुर्यान्न दुःखितेभ्यः सत्त्वेभ्यः ॥
अनाथे पतिते क्लीबे व्रतिने चेह शासने ।
रत्नत्रयप्रसन्नेन कुर्यात् तत् कर्म ईदृशम्

27.22

स्त्रीषु कर्म न कुर्याद् वै बालवृद्धे तथातुरे ।
दरिद्रे दुःखिते चापि अल्पसत्त्वे वियोनिजे

27.23

न कुर्यात् कर्ममेवं तु महासत्त्वे प्रयोजयेत् ।
शूरे साहसिके लुब्धे महापक्षे महाधने ।
अतिमानिने प्रचण्डे च कुर्यात् कर्म ईदृशम्

27.24

शासनद्वेषिणे क्रुद्धे परद्रव्यापहारिणे ।
अश्राद्धे सर्वमन्त्राणां ओषधीनां च योगिनाम्

27.25

प्रगल्भे दुष्टचित्ते न नृपे लोककुत्सिते ।
एतेषु कर्म प्रयुञ्जीत धार्मिकेषु विवर्जितम्

27.26

अपरं कर्ममित्याहुः बुद्धिस्तत् परिवर्जितम् ।
तदेव भस्म क्रुद्धो वै यां दिशं क्षिपते जपी

27.27

तत्रस्था अरयः क्रुद्धा नृपतिश्चापि नश्यते ।
दीर्घग्लान्यतां याति ते ऽपि जना ध्रुवम्

27.28

महामार्योपसर्गं च तस्मिं देशे तु दृश्यते ।
न कुर्यात् कर्म एवं तु स कृच्छ्रपतितो ऽपि हि

27.29

त्रिसप्ताहाद् विनश्यन्ते सर्वे तत्र जनाधिपाः ।
यावत् तत्कर्मणा पूर्णे द्विसप्ताहा तु संहरेत्

27.30

प्रथमे चित्तविक्षेपं द्विसप्ताहे तु ग्लान्यताम् ।
तृसप्ताहे तथा मृत्युः तस्मात् तं परिवर्जयेत्

27.31

प्रथमे विद्रवन्ते ते द्वितीये देशविभ्रमम् ।
त्रिसप्ताहे तथा नाशं न कुर्यात् कर्म ईदृशम्

27.32

केवलं सत्त्ववैनेया निर्दिष्टं लोकनायकैः ।
न भृशं सम्पदं ह्येते बुद्धा ते शुद्धमानसाः

27.33

प्राणोपरोधिनं कर्म सर्वबुद्धैस्तु गर्हितम् ।
न कुर्यात्तजपी कर्म उत्तमं सिद्धिमिच्छता

27.34

नरकोपपत्तिः कामेषु एतेष्वेव प्रदृश्यते ।
केवलं तु इदं प्रोक्तं कृष्णशुभकर्मफलोदयम्

27.35

कर्मवैचित्र्यमाहात्म्यं यथा दृष्टं द्विपदोत्तमैः ।
शक्तं शुभोदयं नित्यं कृष्णं चास्य शुभप्रदम्

27.36

व्यतिमिश्रं तथा कर्मं व्यतिमिश्रं तु पठ्यते ।
तथेदं कर्मवैचित्र्यं दर्शितं तत्त्वदर्शिभिः

27.37

तां जापी वर्जयेत् कृष्णं व्यतिमिश्रं कर्म एव वा ।
शुक्लं भजेत कल्याणं शुभकर्मफलोदयम्

27.38

प्राणोपरिधान्नरकं तु जापी याति पुनः पुनः ।
तन्निवृत्तेस्तथा धर्मः अहिंसः कर्ममुत्तमम्

27.39

स्वर्ग तथा सिद्धिः मन्त्राणां च शुभा गतिः ।
प्राप्यते सुकृतैः कर्मैः विरुद्धैर्विरुद्धमुच्यते

27.40

धर्माधर्म मया प्रोक्तं सर्वज्ञत्वं विचेष्टितम् ।
शुभकर्मसदाजापी आरभेत् सिद्धिलिप्सया

27.41

मन्त्रा तस्य सिद्ध्यन्ते जापिनस्य शुभे स्थिते ।
अनिवर्तनं तस्य मोक्षं वै सितकर्मपरायणे

27.42

मन्त्रिणे श्रेयसा सिद्धिः प्रवदन्ति तथागताः ।
विनयार्थं तु सत्त्वानां कर्मवैचित्र्यमुच्यते

27.43

यथेष्टं सहस्रकर्मं तु साधिकाष्ठं च सिद्ध्यते ।
क्षुद्रकर्म प्रकुर्वीत उत्तमं तु न लभ्यते

27.44

मध्यमं सिद्ध्यते किञ्चिद् यत्नाज्जापहोमितम् ।
अघमं सिद्ध्यते क्षिप्रं विधिदृष्टेन कर्मणा

27.45

त्रिविधं कर्म निर्दिष्ट उत्तमाधममध्यमाः ।
उत्कृष्टरूपी तपस्वी च लभते उत्तमं तथा

27.46

मध्यजापी तथा मध्यं कर्मसिद्धिमवाप्नुयात् ।
स्वल्पजापी तथा नित्यं स्वल्पकर्मसमावृत

27.47

लभते क्षुद्रसिद्धिं तु नान्यसिद्धिमवाप्नुयात् ।
कालप्रमाणजापस्तु होमे दृष्टस्तृधा पुनः

27.48

अधिकादधिकं सिद्धि मध्यमध्येषु दृश्यते ।
स्तोक स्तोकतरं कर्म लभ्यते क्षुद्रसिद्धिरिति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc