भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 26

26.1

भाष त्वं कालमेतस्य यस्येदानीं तथागतः ।
एवमुक्तास्तु ते बुद्धास्तूष्णीम्भावा ह्यवस्थिता ॥ म्म्क्_25.6(="7") ॥
अथ तेषां बुद्धानां सन्निपाता सर्वं त्रिसाहस्रमहासाहस्रो लोकधातवः सर्वसत्त्वानां च लोकभाजनानि एकज्वालीभूतानि, न च एकसत्त्वानां पीडा अभूत् । बुद्धाधिष्ठानेन महान्तश्चावभासाः सन्दृश्यन्ते स्म ॥
अथ भगवां शाक्यमुनिः सर्वं तं शुद्धावासभवनमवलोक्य, तांश्च बोधिसत्त्वान्महासत्त्वान् तत्रस्थितानि च देवपुत्रां सर्वश्रावकप्रत्येकबुद्धांश्च भगवतः महापर्षत्सन्निपातानामन्त्रयते स्म ॥ ( वैद्य 223 )
समन्वाहरन्तु बुद्धा भगवन्तः सर्वप्रत्येकबुद्धार्यश्रावकाः कल्पमेकाक्षरस्य विद्याचक्रवर्तिनः सर्वतथागतोष्णीषाणां उपर्युपरिवर्तमानस्याप्रतिहतशासनस्यापरिमितबलपराक्रमस्य भगवतः उष्णीषराजचक्रवर्तिनः पुनरपि कल्पं भाषे ऽहम् अस्मिं काले कलौ युगे ॥
अथ भगवतो दुरतिक्रमशासनस्य त्रैलोक्यगुरोः सर्वदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगसत्कृतस्य सर्वकर्मार्थसाधकस्य मन्त्रे वक्ष्ये पुनरपि कलौ युगे काले शासनान्तर्द्धानकाले समये शासनारक्षको भगवां उष्णीषचक्रवर्ती भविष्यति । सिद्धिं च यास्यते । सर्वकालं सर्वबुद्धानां च शासनान्तर्द्धानकालसमये बुद्धो ऽयं भगवां सत्त्वार्थं करिष्यति । आरक्षको ऽयं भगवां सर्वतथागतधर्मकोशसंसृष्टः । शृण्वन्तु भवन्तो देवगणाः! सर्वसत्त्वाश्च । भ्रूम् ॥
एष भगवां सर्वज्ञः बुद्धैर्मन्त्ररूपेण व्यवस्थितः ।
महाकारुणिकः शास्ता विचेरुः सर्वदेहिनाम् ॥ म्म्क्_25.7(="8") ॥
मन्त्राणामधिपतिः श्रीमां ख्याता उष्णीषसम्मतः ।
करुणाध समागम्य स्थितो ऽयमेषमक्षरः ।
स धर्मधातुं निःसृत्य स्थितो ऽयं विश्वरूपिणः ॥ म्म्क्_25.8(="9") ॥।
यथा हि बुद्धानां शरीरा प्रवृत्ता धातवो जने ।
सामिषा लोकपूज्यास्ते निरामिषाः षु विशेषतः ॥ म्म्क्_25.9(="10") ॥
सद्धर्मधातवः प्रोक्ता निरामिषा लोकहेतवः ।
सामिषा कलेवरे प्रोक्ता जिनेन्द्राणां महर्द्धिका ॥ म्म्क्_25.10(="11") ॥
विविधा धातवः प्रोक्ताः मुनिचन्द्रा निराश्रवाः ।
सामिषा निरामिषाश्चैव प्रसृता लोकहेतवः ॥ म्म्क्_25.11(="12") ॥
धर्मधातुं सन्मिश्रं सत्त्वानां करुणावशात् ।
तिष्ठते मन्त्ररुपेण लोकनाथं प्रभङ्कर ॥ म्म्क्_25.12(="13") ॥
स विश्वरूपी सर्वज्ञः दृश्यते ह महीतले ।
सर्वार्थसाधको मन्त्रः सर्वबुद्धैस्तु भाषितः ॥ म्म्क्_25.13(="14") ॥
एष संक्षेपतो मन्त्रः जप्तो ऽयं विधिना स्वयम् ।
करोति सर्वकर्मं वै ईप्सितां सफलां सदा ॥ म्म्क्_25.14(="15") ॥
अस्य कल्पं समासेन पुनः काले प्रचक्ष्यते ।
युगान्ते मुनिवरे लोके अस्तं याते तथागते ।
कल्पसिद्धिस्तदा काले मन्त्रसिद्धिरुदाहृता ॥ म्म्क्_25.15(="16") ॥
अथ भगवतश्चक्रवर्तिनस्तथागतोष्णीषस्य परकर्मप्रयोगविध्वंसनकरस्याजितंजयस्य सर्वमन्त्राधिपतेः सर्वबुद्धबोधिसत्त्वानुनीतस्योष्णीषचक्रवर्तिनः संक्षेपतः कल्पमेकाक्षरस्य प्रवर्तितपूर्वं विस्तरतः ॥
आदौ तावत् यस्मिं स्थाने ऽयं जप्यते, तस्मिं स्थाने पथे योजनाभ्यन्तरेण सर्वदुष्टग्रहाः प्रपलायन्ति, सर्वमन्त्राः सिद्धा अपि न प्रभवन्ति, सर्वदेवाः सान्निध्यं त्यजन्ति, अन्यत्र साधकस्येच्छयान्येषां लौकिकलोकोत्तराणां साधकानां सिद्धिमपहरति, परप्रयोगमन्त्रां छिन्नभिन्नौत्कीलनतां मोचयति ॥
स्वयं विद्याच्छेदं कर्त्तुकामः कुशानां हरितानां मुष्टिं गृहीत्वा, अष्टशताभिमन्त्रितं कृत्वा, शस्त्रेणच्छिन्द्यात् ता विद्यामुद्दिश्य, सा छिन्ना भवति । अनेन प्रतिकृतिं कृत्वा, हृदये कीलकेन ताडयेत् । कीलिता भवते । सप्तजप्तेन सूत्रेण कुसुम्भरक्तेन ग्रन्थिं कुर्यात् । बद्धा भवति । शरावेणाष्टशतजप्तेन पिथयेद्, रुद्धा भवति । शस्त्रेण हृदयं द्विधा कुर्याद्, भिन्ना भवति । राजिकाभिर्विषरुधिररक्ताभिः रञ्जयेच्छिष्टिता भवति । करवीरलतया आहनेत्, पीडिता भवति । सर्वविद्याभिचारुकमिच्छया करोति । सर्वत्र पूर्तिकं कर्म मुक्ताक्षीरेण स्नापयित्वा, होमं कुर्याच्छान्तिः । घृतहोमेन सर्वेषां शान्तिराप्यायनं कृतं भवति । मुष्टिबन्धेन सर्वमन्त्रां स्तम्भयति, मनसा मोक्षयति, मन्त्र साधयितुकामस्तमनेनैवोपरुद्ध्य साधयेदन्यकल्पं साधयितुमिच्छति, तमनेनैव साधयेत् । सिद्ध्यति । अनेनैव मन्त्रेणावाहनं भवति । पुनरनेनैव विसर्जनं भवति । अनेनैव यस्य रक्षा क्रियते, सो ऽप्यदृश्यो भवति । यो मन्त्रो न सिद्ध्यति, प्रत्यादेशं वा न ददाति, अनेनैव सह जपेत् । शीघ्रं सिद्ध्यति, प्रत्यादेशं वा ददाति । यदि न सिद्ध्यति, प्रत्यादेशं प्रयच्छति । सो मृयते ॥
दधिमधुघृताक्तानां तिलानामष्टशतं जुहुयात् त्रिसन्ध्यं सप्ताहं यं मन्त्रमुद्दिश्य, सो ऽस्य वशो भवति । यदुच्यते तत् कर्मं करोति । प्रत्यादेशं वा प्रयच्छामि देवा वशीकर्त्तुकामः देवदारुसमिधानामष्टसहस्रं जुहुयात्, सप्तरात्रेण वश्यो भवति । नागां वशिकर्त्तुकामः त्रिमधुरं जुहुयात् । वश्या भवन्ति । यक्षां वशीकर्त्तुकामो दधिभक्तं जुहुयाद् वश्या भवन्ति । यक्षिणी वशीकर्त्तुकामेन दधिभक्तं जुहुयात् । सर्वगन्धैर्गन्धर्वं वशीकरोति । अशोकप्रियङ्गुसमिद्भिः कुसुमैर्वा यक्षिणीनागिनागग्रहाणां राजिकाभिः राजानसिद्धार्थकैः ब्रह्माणं पुष्पहोमेन, वेश्यं दधिक्षीरघृतेन, शूद्रं तुषपांसुभिः, स्त्रियां लवणहोमेन, रण्डां माषजम्बूलिकाहोमेन, कन्यां लाजाहोमेन, सर्वान् घृईततैलहोमेन वश्यां करोति सर्वत्र त्रिसन्ध्यं सप्तरात्रम् । इत्युक्त्वा तूष्णीम्भूतो जिनोत्तमः ।
देवसङ्घां तदा मन्त्रे सप्तमो मुनिपुङ्गवः ।
प्रहस्य लोकधर्मज्ञः मुक्तो ऽसौ गतधीस्तदा ॥ म्म्क्_25.16(="17") ॥
मुनिः श्रेष्ठस्तदा ज्येष्ठं तदालपेत् ।
मञ्जुघोषं तदा वव्रे बोधिसत्त्वं महर्द्धिकम् ॥ म्म्क्_25.17(="18") ॥
एष कल्पो मया प्रोक्तः एकदेशो हि चक्रिणे ।
विस्तीर्ण यस्य नाथस्य देवदेवस्य धीमतः ॥ म्म्क्_25.18(="19") ॥
कल्पैर्यस्य प्रमाणं तु न शक्यं भाषितुं जिनैः ।
संक्षेपेण प्रवक्ष्ये ते माणुषाणां हितोदया ॥ म्म्क्_25.19(="20") ॥
एवमुक्ते तदा श्रीमां मञ्जुघोषो महर्द्धिकः ।
अद्ध्येषयति तं बुद्धं शुद्धावासोपरि स्थितम् ॥ म्म्क्_25.20(="21") ॥
भाष भाष महावीर सम्बुद्ध द्विपदोत्तम ।
नष्टे काले युगान्ते वै मानुषाणां सुखोदयम् ॥ म्म्क्_25.21(="22") ॥
कथमस्य महातेजा महावीरस्य मन्त्रराट् ।
पटसिद्धिः प्रदृश्येते क्षिप्रं पटविधिः कथमिति ॥ म्म्क्_25.22(="23") ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् त्र्यविंशतितमः एकाक्षरचक्रवर्त्त्युद्भवपटलविसरः परिसमाप्त इति ॥
अथ षड्विंशतितमः पटलविसरः ।

अथ खलु भगवां शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्रीः एकाक्षरचक्रवर्तिनस्य महानुभावस्य संक्षेपेण पटविधानं भवति । विस्तरशः पूर्वमुदीरितम् । अधुना संक्षेपेण युगाधमे सत्त्वा अल्पवीर्या भवन्ति, अल्पप्रज्ञा मन्दचेतसः । न शक्यन्ते विस्तरशः पटप्रमाणप्रयोगं साधयितुम् ॥
संक्षेपेण वक्ष्ये ऽहं सत्त्वानां हितकाम्यया ।
उत्तमार्थं तु यथा सिद्धिः प्राप्नुवन्ति स जापिनः

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc