भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 25

25.1

आर्यमञ्जुश्रियमूलकल्पाद्बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्राद्द्वाविंशतितम निमित्तज्ञानज्योतिषपटलविसरः परिसमाप्त इति ॥
अथ पञ्चविंशतितमः पटलविसरः ।
अथ भगवान् शाक्यमुनिः पुनरपि ग्रहनक्षत्रतारकज्योतिषगणानामन्त्रयते स्म । + + + + शृण्वन्तु भवन्तः सर्वे । अनतिक्रमणीयो ऽयं कल्पराजा मञ्जुश्रियः कुमारभूतस्य मन्त्रतन्त्राभिषेकमण्डलविधान निच जपहोमनियमविद्यासाधनप्रवृत्तानामस्मिं कल्पवरे विद्याधराणां तिथिनक्षत्रचरितगणितामभिज्ञानां नक्षत्र भवद्भिः विघ्नं कर्तव्यम् । प्रवृत्तानां शासने ऽस्मिन् सर्वैश्च देवसङ्घैः तत्र रक्षा कार्या । सर्वे च दुष्टसत्त्वानि निषेद्धव्यानि, रोद्धव्यानि, शासयितव्यानि, सर्वे सर्वं न घातयितव्यानि, व्यवस्थासु च स्थापयितव्यानि शासने ऽस्मिन् दशबलानाम् ॥
अथ भगवां शाक्यमुनिः सर्वतथागतोष्णीषाभ्युन्नतं नाम समाधिं समापद्यते स्म सर्वदुष्टनिवारणार्त्थं सर्वसत्त्वानाम् । समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः सर्वे च ते तथागताः दशदिग्लोकधातुव्यवस्थिता भगवन्तं शाक्यमुनिः तथागतं शुद्धावासभवनस्यं व्यलोक्योपसङ्क्रमन्ते । उपसङ्क्रम्य अचिन्त्यबुद्धस्वकाधिष्ठानेन भगवन्तं शाक्यमुनिं तथागतमामन्त्रयते स्म ॥
भाष भाष भो महावीर लोकानां च हितोदयम् ।
प्रवृत्ते सर्वमन्त्राणां समन्त्रतन्त्र यथाविधि

25.2

भाषितः सर्वबुद्धैस्तु विद्याराजा महर्द्धिकः ।
एकाक्षरः प्रवरो ह्यग्रो नष्टे काले कलौ युगे

25.3

प्रवरः सर्वमन्त्राणां सर्वबुद्धैस्तु भाषितम् ।
उष्णीषराजा महावीर्यः सर्वभूतनिवारणम्

25.4

निषेद्धा ग्रहनक्षत्रां मातरां दुष्टचेतसाम् ।
विघ्नाः सर्वे तथा लोके ये चान्ये दुष्टचेतसा

25.5

अनुग्रहार्त्थं तु सत्त्वानां जापिनां च सुखोदयाम् ।
सकले ऽस्मिन् शासने ह्यग्रः चक्रवर्तिर्महर्द्धिकः ।
उष्णीषराजा महावीर्यः सर्वस्मिं परमेश्वरः

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc