मञ्जुश्रीमूलकल्प · अध्याय 21
इति ।
बोधिसत्त्वपिटकावतसंकान्महायानवैपुल्यसूत्राद् आर्यमञ्जुश्रियमूलकल्पाच्चतुर्थो निमित्तज्ञानमहोत्पादपटलपरिवर्तः परिसमाप्त इति ॥
अथ एकविंशः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमवलोक्य मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । अस्ति मञ्जुश्रीः त्वदीये कल्पविसरे सर्वसाधनोपयिके मन्त्रचर्याभियुक्तस्य साधनकाले सर्वमन्त्राणां सर्वकल्पविस्तरेषु राहुरागमनसुराणामधिपतेः सर्वग्रहानायकस्य ग्रहसंज्ञा चन्द्रदिवाकरादिषु नक्षत्रयोगेन दृश्यन्ते । त शृणु साधु च सुष्ठु च मनसि कुरु ते भाषिष्ये ॥
एवमुक्ते भगवता शाक्यमुनिना सम्यक् सम्बुद्धेन मञ्जुश्रीः कुमारभूतः उत्तरासङ्गं कृत्वा भगवतस्त्रिःप्रदक्षिणीकृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवां तेनाञ्जलि प्रगृह्य भगवतश्चरणयोर्निपत्य पुनरेवोत्थाय भगवन्तमनिमिषं व्यवलोकयमानः उत्फुल्लनयनो भूत्वा हृष्टतुष्टो भगवन्तमेवमाह - तत् साधु भगवां निर्दिशतु राहोरागमनम् ; यत्र सत्त्वानां मन्त्रचर्याभियुक्तानां सिद्धिकालं भवेयुरिति सर्वसत्त्वानां च सुखोदयं शुभाशुभनिमित्तं वा; तं निर्दिशतु भगवां । यस्येदानीं कालं मन्यसे ॥
अथ खलु भगवान् शाक्यमुनिः मञ्जुश्रियस्य कुमारभूतस्य साधुकारमदात् । साधु मञ्जुश्रीः यस्त्वं तथागतमेतमथ परिप्रश्नसे सर्वसत्त्वानां च हितायोद्युक्तः । तेन हि मञ्जुश्रीः शृणु भाषिष्ये । सर्वसत्त्वानां निर्दिशश्चेति ॥
आदौ ताव ग्रहैः क्रूरैः राहोश्चन्द्रमण्डले ।
आगमोदिते काले यथावन्तं निबोधिता
यदा देवासुरं युद्धं वर्तते च महद् भयम् ।
तदासौ दैत्यराजा वै दानवेन्द्रो महर्द्धिकः
महाभयः प्रमाणा वै समन्तादुच्छ्रितो महां ।
+ + + + + + + + + + सुमेरोरधिको भवेत्
महाप्रमाणः क्रूरो ऽसौ अतिदर्पातिदर्पितः ।
प्रभविष्णुर्ग्रहो मुख्यो यदा भेजे सुरालयम्
ततः पाणिना परामृश्य सुमेरुं देवसम्मितिम् ।
अप्सरां प्रेक्षते दैत्यः यदा काले नभस्तलम् ।
तदा चन्द्रमसपूर्णः करे वामे स दैत्यराट्
नानामणयस्तस्य करे कङ्कनतां गता ।
तदा भुवि लोके ऽस्मिं ग्रहभूतेति कथ्यते
यदा पद्मरागे ऽस्मिं अर्चिर्भवति रक्तका ।
तदा तार्किका मानवा आहुः आग्रेयं मण्डलं विभोः
यदा तु नीलरक्ते ऽस्मिं प्रभा नीलतां व्रजेत् ।
तदा नीलमिति ज्ञेयं शशिने भास्करे ऽपि वा
माहेन्द्रमिति कथ्यते तार्किका भुवि मानवा ।
वायव्यमण्डलमित्याहुस्तार्किका एव ते तदा
विविधा रत्नमालेभ्यो विविधा रत्नसम्भवा ।
विविधं तार्किके शास्त्रे विविधा गतियोनिजाः
विविधैव क्रिया तेषां विविधा फलसम्पदा ।
सम्यग् ज्ञानविहीनानां बालिशानामियं क्रिया ।
तस्मात् तथागतं ज्ञानं सम्यक् तेन नियोजयेत्
असुरस्य तदा दृष्टिः अज्ञानेष्वेव दिवौकसाम् ।
रथं सम्पूर्णयामास शशिनस्य महात्मने ।
यदा काले भुवि मर्त्यानां राहोरागमनं भुवि
शशिमण्डलमाक्रम्य यदा तिष्ठति स ग्रहः ।
तदा महद् भयं विद्यानक्षत्रेष्वेव निबोधताम्
अश्विन्येव यदा युक्तः शशिने भास्करमण्डलौ ।
उभौ तौ युग्मतः ग्रासं दिवा रात्रौ च कथ्यते ।
अश्विन्यागमनं नित्यं दुर्भिक्षं तं विदुर्बुधाः
भरण्यां तु यदा चन्द्रं रवेर्वा मण्डलाश्रयेत् ।
विविधा सस्यनिःष्पत्तिः सुभिक्षं चापि निर्दिशेत्
कृत्तिकासु यदा चन्द्रः राहुना ग्रस्यते ध्रुवम् ।
रात्रौ वा यदि प्रभाते वा यामान्ते निन्दितं हितम्
तदा विन्द्या महद् दुःखं व्याधिसम्भवमेव वा ।
मध्यदेशेषु नान्यत्र भवेन्नक्षत्रमादिभिः ।
जनपदेष्वेव वक्तव्यो नृपैर्बोधिविधोद्भवैः
मृगशिरासु यदा चन्द्रः भास्करो वा नभस्तले ।
राहुणा ग्रस्तपूर्वौ तौ अस्तं यातौ महर्द्धिकौ
पूर्वदेशे नरा यातु व्याधिभिर्हन्यते तदा ।
नृपाध्यक्षा गतायुष्या तत्र देशे विनिर्दिशेत्
आर्द्रायां पुनर्वसुश्चैव ग्रस्तौ च शशिभास्करौ ।
रुधिराक्ता महीं सर्वां म्लेच्छदेशेषु कीर्तयेत्
अन्योन्यहतविध्वस्ता हतप्राणा गतायुषा ।
निर्दिष्टा तत्र देशे ऽस्मिन् पूर्वमुत्तरयोस्तदा ।
निकृष्टा पापकर्माणः म्लेच्छतस्करतां गताः
पुण्याश्लेषौ यदा चन्द्रे भास्करे वा नभस्तले ।
राहुणा ग्रस्तबिम्बा तौ मध्याह्ने वार्द्धरात्रतः ।
तदा विद्यान्महादोष पश्चादन्यां नृपेश्वराम्
मघासु यदि ग्रस्येतौ शशिभास्करमण्डलौ ।
राहुणा सह मुद्यन्तो अस्तं यातौ ग्रहोत्तमौ ।
तदा प्रहाय तं विद्याज्जम्बूद्वीपेषु सर्वतः
दुर्भिक्षराष्ट्रभङ्गं च महामारिं च निर्दिशेत् ।
उभौ फल्गुनिसंयुक्तौ राहुरागमनं भवेत्
मध्याह्ने ऽथवा रात्रे च मुच्यते च पुनः क्षणात् ।
सुभिक्षं ततो विद्याज्जम्बूद्वीपेषु दृश्यते
हस्तचित्रे यदा राहुः ग्रसते चन्द्रभास्करौ ।
ग्रस्तौ सह मुच्येते अस्तं यातौ च दुःखदा
महामारिभयं तत्र तस्कराणां समन्ततः ।
नृपाश्च नृपवरा श्रेष्ठा हन्यन्ते व्याधिभिस्तदा ।
दिशः सर्वे समन्ताद्वै दुर्भिक्षं चापि निर्दिशेत्
विशाखस्वातिनौ युक्तौ नक्षत्रवरपूजितौ ।
राहोरागमनं विद्यात् पशूनां पीडसम्भवाम् ।
विविधा कुलमुख्यास्तु हन्यन्ते शस्त्रिभिस्तदा
ज्येष्ठानुराधसंयुक्तौ नक्षत्रौ वरवर्णितौ ।
राहोरागमनं तत्र सुभिक्षं वा विनिर्दिशेत्
मूलेन यदि चन्द्रस्थः राहुर्दृश्यति भूतले ।
उदयन्तं तदा ग्रस्तं उदितं वापि सर्वतः
अस्तं यातेन तेनैव शशिनो राहुणा सदा ।
प्राच्याध्यक्षो विनश्येयुः पूर्वदेशजनालयाः
महान्तं शस्त्रसम्पातं दुर्भिक्षं चापि निर्दिशेत् ।
परचक्रभयाद् भिन्ना त्रस्ता गौडजना जना ।
राजा वै नश्यते तत्र व्याधिना सह मूर्छितः
उभौ अषादौ तदाकाले राहुर्दृश्यति मेदिनीम् ।
तत्र दुःखं महाव्याधि तत्र दृश्यति भूतले ।
नृपमुख्यास्तदा सर्वे दुष्टचित्ता परस्परम्
धनिष्ठे श्रवणे चैव निर्दिष्टं लोकनिन्दितम् ।
नाना गणमुख्या वै विश्लिष्टान्योन्यतद्भुवा
( वैद्य 171 ) ।
पूर्वभद्रपदे चैव नक्षत्रे शतभिषे तथा ।
राहुरागमनं दृश्येत सुभिक्षं चैवं निर्दिशेत्
उत्तरायां यदा युक्तः नक्षत्रे भद्रपदे तथा ।
राहुरागमनं श्रेष्ठं दिवा रात्रौ तु निन्दितम्
रेवत्यां तु यदा चन्द्रः राहुणा ग्रस्त सर्वतः ।
उदयन्तं तथा भानोर्निशिर्वा चन्द्रमण्डले
अस्तं यातो यदा राहुर्ग्रहमुख्यैः सहोत्तमैः ।
मध्यदेशाच्च पीड्यन्ते मागधो नृपतेर्वधः
एतद् गणितं ज्ञानं मानुषाणां महीतले ।
नक्षत्राणामेतत् प्रमाणं चैव कीर्तितम् ।
अशक्यं मानुषैरन्यैः प्रमाणं ग्रहयोनितम्
नक्षत्रमाला विचित्रा वै भ्रमते वै नभस्तले ।
एतन्मानुषां सङ्ख्यात्ततो ऽन्यद् देवयोनिजाम्
यो यस्य ग्रहमुख्यो वा क्षेत्रराशिसमोदिता ।
नक्षत्रं कथितं पूर्वं तस्य तं कुरुते ऽन्यथा
ईषत् प्रमाणं न दोषो ऽस्ति बहुवाचास्ति निन्दितम् ।
एतत् प्रमाणकाले वै ग्रहमुख्यो ऽर्थकृत् स्मृतः
कालं कथितं ज्ञेयं नियमं चैव कीर्त्यते ।
नक्षत्रराशिसंयुक्तः कम्पो निर्घात् उल्किनः
सग्रहौ यदि तत्रस्थौ रविचन्द्रौ तु दृश्यते ।
उभयान्तं तदा तस्य नक्षत्रां जातिभूषिताम्
अन्यथा निष्फलं विद्यात् प्रभावं वापि निन्दिते ।
तस्माज्जपे तदा काले मन्त्रसिद्धिसमोदिता
धूम्रवर्णं यदाकाशं दृश्यते सर्वतः सदा ।
तदा महद् भयं विद्यात् परचक्रभयेत् तदा
शशिने भास्करे चापि धूम्रवर्णो यदा भवेत् ।
पर्येषा द्वित्रयो वा वा तत्र विद्यान्महद् भयम्
धूमिकायां भवेद् वृष्टिः सर्वकाले भयानके ।
कुत्सितं सर्वतो विद्यात्तत्र व्याधिसमागमम्
ग्रीष्मे शरदे चैव धूमिका यदि जायते ।
समन्तात् सप्तरात्रं तु तत्र विद्यान्महद् भयम्
दिवा वा यदि वा रात्रौ धूमिका यदि जायते ।
नक्षत्रैर्ग्रहचिह्नैस्तु तिथिवारान्तरेण वा
पूर्ववत् कथितं सर्वं यथा निर्घात् उल्किनाम् ।
तैरेव दिवसैः पूर्वं धूमिकाया नियोजयेत्
अर्धरात्रे ऽथ मध्याह्ने धूमिका जायते सदा ।
तत्र विद्यान्महोद्वेगं नृपतीना पुरोत्तमाम्
शरदे यदि हेमन्ते ग्रीष्मे प्रावृषे ऽपि वा ।
धूमिका सर्वतो ज्ञेया नक्षत्रैश्चैव कीर्त्तितः
शुभाशुभं तथा ज्ञेयं दिवा वा यदि वानिशा ।
निःफलं चापि विद्या वै सफलां चापि कीर्त्तिताम्
सर्वतः भूमिकम्पे वापि तथोल्कचैकतो राहुसमागमम् ।
तत्र धूमो भवेद् यद्यत् समन्ताश्चैव नभस्तले ।
अचिरात् तत्र तद् राज्यं घात्यते शस्त्रिभिः सदा
प्रभवः सर्वतो देशे मृत्युश्चैव प्रकिर्त्यते ।
सप्ताहाद्विजयमुख्या भुवि वाता सत्त्वयोनयः
घात्यन्ते सर्वतो नित्यं शस्त्रिभिर्मृत्युवशानुगा ।
अन्योन्यापरतो राज्यं कृपावर्जितचेतसः ।
विभिन्ना शस्त्रिभिः क्षिप्रं वणिजा नृपयोनयः
ग्रीष्मे सितवर्णस्तु नभो यत्र प्रदृश्यते ।
महाव्याधिभयं तत्र नीले चैव शिवोदयम्
पीतनिर्भासमुद्यन्तं सविता दृश्यते यदा ।
ग्रीष्मे च कथिता मृत्युः शरत्काले च निन्दितम्
हेमन्ते च वसन्ते च ताम्रवर्णः प्रदृश्यते ।
अन्यथा पीतनिर्भासौ निन्दितो लोकवर्जितः
शरदे ग्रीष्मतो ज्ञेयः मितिवर्णः प्रशस्यते ।
प्रावृड्काले तथा शुभ्रे पीतो वा न च + + + +
महाप्रभावसङ्काशं महानीलसमप्रभः ।
नमो ज्ञेयं सदाकालं सर्वसौख्यफलप्रदम्
विपरीतं ततो विद्या देशमावासपीडनम् ।
सस्योपघातमारिं च दुर्भिक्षं चापि मुच्यते
अतिकष्टं सुरा ह्येतं भयं वा रसदूषितम् ।
महाप्रणादं घोरं च शुक्रे वै च नभस्तले
तत्क्षणादेव सर्वेषां नृपतीनां प्राणोपरोधिनम् ।
ततो ऽन्यच्छुभसंयुक्तं श्रेयसा चैव कल्पयेत्
सग्रहे भास्करे चन्द्रे यदा राहो महद्भये ।
नश्यन्ते जनपदास्तत्र विविधा कर्मयोनिजा ।
ततो ऽन्यच्छुभसंयुक्तं शब्दं लोकपूजितम्
श्रेयसार्थे नियोक्तासौ सुरश्रेष्ठा ग्रहोत्तमा ।
विविधा मन्त्र सिद्ध्यन्ते विविधा मूलफलप्रदा
विविधा वा न वा सर्वे विविधा प्राणसम्भवाः ।
अनेकाकारसम्पन्ना स्वरूपा विकृतास्तदा
नानाप्रहरणाश्चैव नानाशस्त्रसमुद्भवा ।
सर्वमतयो ह्यग्रा मूलमन्त्रसुभूषणा ।
सर्वे ते साध्यमाने वै सिद्धिं गच्छेयु सग्रहा
ग्रहे चन्द्रे यदा भानो राहुणार्थो ऽपि सग्रहे ।
तस्मिं काले तदा जापी मन्त्रमावर्तयेत् सदा
सर्वे ते वरदाश्चैव + + + + भवन्ति ते ।
सत्त्वोपकारं फलं ह्येतत् प्रतिष्ठा तत्र दृश्यते ।
सिध्यन्ते मन्त्रराट् क्षिप्रं ग्रहे जप्ता सराहुके
सप्तभिर्दिवसैर्मासैः पक्षैश्चापि सुपूजिताः ।
मन्त्राणां सिद्धिनिर्दिष्टा सग्रहे चन्द्रभास्करौ ।
यामान्ते अर्धरात्रे वै सिद्धिरुक्ता तथागतैः
विधियुक्तास्तु वै मन्त्रा विहीनां नेष्यते ध्रुवम् ।
ब्रह्मस्यापि महात्मानं किं पुनर्भुवि मानुषाम्
शक्रस्यापि च देवस्य रुद्रस्यापि त्रिशूलिने ।
विष्णोश्चक्रगदाहस्ते तार्क्षस्यापि महात्मने ।
नेष्यते सिद्धिरेतेषां विधिहीनेन कर्मणाम्
मन्त्रे सुजप्ते युक्ते च तन्त्रयुक्तेन हेतुना ।
सिध्यन्ते इतरस्यापि + + + + + + + + + + +
विधिना मानुषैर्मुक्ता विद्यातत्त्वसुभूषिता ।
सिध्यन्ते सग्रहा क्षिप्ता जप्ता कालेषु योजिता
ददाति फलसंयुक्तं विद्या सर्वत्र योजिता ।
हेतुकर्मफला विद्या + + + हेतुदूषणी
कर्म सहेतुकं विद्या विद्याद्धेतुफलोदया ।
विद्या कर्मफलं चैव हेतु चान्य नियोजयेत्
चतुःप्रकारात्तथा विद्या चतुर्था कर्मसु योजिता ।
दद्यात् कर्मफलं क्षिप्रं सा विद्या हेतुयोजिता
सा विद्या फलतो ज्ञेया बुद्धैश्चापि सुपूजिता ।
विद्या सर्वार्थसंयुक्ता प्रवरा सर्वकर्मिका
प्रदद्युः कर्मतो सिद्धिं सा विद्या कर्मसु योजिता ।
श्रेयसा चैव योजयेत् न मन्त्राणां गतिगोचरम्
प्रभावं मन्त्रसिद्धिं च लोकतत्त्वं निबोधताम् ।
निःफलं कर्मतो वा वा फलं कर्मं च तत्र च
+ + + + + + + लोकतत्त्वनियोजिताम् ।
दृश्यते फलहेतुर्वा मन्त्रा बुद्धैश्च वर्णिता
न फलं कर्म क्रमं हन्ति नाफलं कर्म क्रिया परा ।
फलं कर्मसमारम्भात् सिद्धि मन्त्रेषु जायते
गुणं द्रव्यक्रमायोगा क्रमं द्रव्याक्रियाक्रमा ।
मन्त्रराट् सिद्ध्यते तत्र फला कर्मेषु योजिता
विधिद्रव्यसमायुक्तः वृत्तस्थो कर्मयोजितः ।
न योनिः कर्मतो ज्ञेयं यो नियुक्तः सदा फले
न बृहत्कर्मतां यान्ति सिद्धिमन्त्रक्षरं सदा ।
तदा मन्त्री जपेन्मन्त्रं विधियोनिसमाश्रया
कालक्रमा गुणाश्चैव विधियोनिगतिसौगतः ।
सिद्ध्यन्ते मन्त्रराट् सर्वे विधिकालार्थसाधिका
न गुणं द्रव्यतो ज्ञेयं नाद्रव्यं गुणमुच्यते ।
गुणद्रव्यसमायोगात् संयोगान्मन्त्रमर्चयेत्
अर्चिता देवताः सर्वे आमुखेनैव योजयेत् ।
तत्प्रमाणं गुणं द्रव्यं क्षिप्रमन्त्रेषु साधयेत्
क्रमः कालगुणोपेतः गुणकालक्रमक्रिया ।
चतुर्धा दृश्यते सिद्धिः मन्त्रेष्वेव सुयोजिता
प्रभावं गुणविस्तारं सत्त्वनीतिसुखोदयम् ।
प्रदद्युः सर्वतो मन्त्रा गुणेष्वेव नियोजिताः
प्रभवं सर्वतः कर्म गुणद्रव्यं च सिद्ध्यते ।
नापि द्रव्या गुणामेता द्रव्यकर्माच्च वर्जिता
न सिद्धिं दद्यु तत्क्षिप्रं यथेष्टमनसोद्भवात् ।
मानसा मन्त्रनिर्दिष्टा न वाचा मनसा विना
वान्यतो मन्त्रविज्ञेया न वान्या मनसे विना ।
नान्यकर्मा मनश्चैव संयोगात् सिद्धिरिष्यते
न दृष्टिकर्मतो हीना नेष्टं कर्मविवर्जितम् ।
सम्यग् दृष्टि तथा कर्मं वाक् चित्तं च योजितम्
सिद्ध्यन्ते देवताः क्षिप्रं मन्त्रतन्त्राक्षरोदितम् ।
सम्यग्दृष्टिसमायोगा सम्यक् कर्मान्तयोजयोः
+ + + + + + मन्त्रा सिद्ध्यन्ति सर्वदा सम्यक् ।
कर्मान्तवाक्सुमोपेतं सम्यग्दृष्टिसुयोजितम्
सिद्ध्यन्ते सर्वतो मन्त्राः सम्यक् कर्मान्तयोजिताः ।
न चित्तेन विना मन्त्रं न स्मृत्या सह चित्तयोः
सम्यक् स्मृत्या च चित्ते च दृश्यते मन्त्रसिद्धये ।
न स्मृत्या च विनिर्मुक्ता मन्त्र उक्तस्तथागतैः
स्मृत्या समाधिभावेन सम्यक् तेन नियोजिताः ।
दृश्यन्ते ऊर्जितं मन्त्रैः सिध्यन्ते च समाधिना
सम्यक्समाधिनो भावो मन्त्रा लोकसुपूजिताम् ।
तत्प्रयोगा इमा मन्त्राः समाध्या परिभाविता
सिध्यन्ते मन्त्रराट् तत्र योगं चापि सुपुष्कलम् ।
सम्यक् समाधिभिर्ध्येयं मन्त्रं ध्यानादिकं परम्
सिध्यन्ते योगिनो मन्त्रा नायोगात् सिद्धिमुच्यते ।
यो मया कथितं पूर्वं सम्यगुक्तसुयोजितम्
नान्यथा सिद्धिमित्याहुर्मुनयः सत्त्ववत्सलाः ।
नासङ्कल्पाद् भवेन्मन्त्रः सम्यक् तत्त्वार्थयोजिताः
सङ्कल्पा मन्त्र सिध्यन्ते सम्यक् ते विधियोजिताः ।
न पूज्य मन्त्रराट् सर्वे सम्यक् सङ्कल्पवर्जिताः
सिध्यन्ते सर्वतो मन्त्राः सम्यगाजीवयोजिता ।
सम्यक् सङ्कल्पतो ज्ञेयं मन्त्रेष्वेव सुखोदयम्
आजीवे शुद्धितां याति मन्त्रा सम्यक् प्रयोजिता ।
सिध्यन्ते भुवि निर्दिष्टा मन्त्रमुख्या सुयोजिता
आजीवं हि फलं युक्तो सम्यगेव सुयोजयेत् ।
सम्यक् सञ्जीवरतो मन्त्री शुद्धचित्तः सदा शुचौ
शुचिनः शुचिकर्मस्य शुचिकर्मान्तचारिणः ।
सिध्यन्ते शुचिनो मन्त्रा कश्मलाकश्मले सदा
क्रव्यादा येतरा मन्त्रा ये चान्ये परिकीर्तिता ।
सिध्यन्ते मन्त्रिणां मन्त्राः क्रव्यादेष्वेव भाषिताः
रुद्रविष्णुर्ग्रहा चोरै गरुडैश्चापि महर्द्धिकैः ।
यक्षराक्षसगीतास्तु सिध्यन्ते मन्त्रकश्मलाः
विविधैर्भूतगणैश्चापि पिशाचैर्मन्त्रभाषिताः ।
स्वयं न सिध्यते विधिना हीना अशौचाचाररतेष्वपि
विधिना योजिता क्षिप्रं अशौचेष्वेव सिद्धिदा ।
तस्मान्मन्त्रं न कुर्वीत विधिहीनं तु कर्मयोः
सिध्यन्ते साश्रवा मन्त्रा विधिकर्मसुयोजिताः ।
साध्यास्तु तथा मन्त्रा आर्या बुद्धैस्तु भाषिता
तेषां सिद्धि विनिर्दिष्टा मार्गेष्वेव सुयोजिता ।
आर्याष्टाङ्गिकं मार्ग चतुःसत्यसुयोजितम्
चतुर्ध्यान सदाचेयं चत्वारश्चरणाश्रिताः ।
भिद्यन्ते मन्त्रमुख्यास्तु प्रवरा बुद्धोपदेशिता
अनाख्येयस्वभावं वै गगनाभावस्वभावताम् ।
मन्त्राणां विधिनिर्दिष्टां आर्याणां च महौजसाम्
भूम्यानां विधिनिर्दिष्टा सिद्धिमार्गविवर्जितम् ।
विद्यानां कथयिष्ये ऽहं तन्निबोध्य दिवौकसाः
दशकर्मपथे मार्गे कुशले चैव सुभाषिते ।
सिध्यन्ते दिव्यमन्त्रास्तु विधिदृष्टेन कर्मणा
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0