भाषा

ENहिગુ
ग्रंथ पाठ

मञ्जुश्रीमूलकल्प · अध्याय 17

17.1

इति ॥
आर्यमञ्जुश्रीमूलकल्पान्महायानवैपुल्यसूत्रात् चतुर्दशमः गाथापटलनिर्देशविसरः परिसमाप्तमिति ।
अथ सप्तदशः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः सर्वतथागतविकुर्वितं नाम समाधिं समापद्यते स्म । समनन्तरसमापन्नस्य भगवतः शाक्यमुनेः ऊर्णाकोशाद् रश्मयो निश्चरति स्म । नीलपीतावदातमाञ्जिष्ठस्फटिकवर्णः । सर्वं चेदं बुधक्षेत्रमवभास्य, सर्वलोकधात्वन्तराणि चालोकयित्वा, सर्वग्रहनक्षत्रांश्च मुहूर्तमात्रेण जिह्मीकृत्याकृष्टवा । आकृष्टा च स्वकस्वका स्थानानि सन्नियोज्य तत् पर्षन्मण्डलं बुद्धाधिष्ठानेनाकृष्य च, तत्रैव भगवतः शाक्यमुनेरूर्णाकोशान्तर्धीयते स्म । सर्वं च ग्रहनक्षत्रतारकाः ज्योतिषोरुपरुध्यमाना आर्ता भीता भगवन्तं शाक्यमुनिं प्रजग्मुः । कृताञ्जलयश्च तस्थुरे प्रकम्पयमाना मुहुर्मुहुश्च धरणितले प्रपतनमानाः ॥
अथ भगवान् शाक्यमुनिः सर्वेषां ग्रहनक्षत्रतारकाज्योतिषाणां च बालिशोपजनितबुद्धीनां च देहिनामनुग्रहार्थं वाचमुदीरयते स्म । शृण्वन्तु भवन्तो मार्षाः देवसङ्घा समानुषाः कर्म एव सत्त्वानां विभजते लोकवैचित्र्यम् । यश्च बुधानां भगवतां वज्रकायशरीरतामभिनिष्पत्तिर्यश्च ससुरासुरस्य लोकस्य भ्रमत्संसाराटवीकान्तारप्रविष्टस्य लोकस्य विचित्रशरीरतामभिनिष्पत्तिः सर्वेदं कर्मजं शुभाशुभं निबन्धनम् । न तत्र कर्ता कारकः ईश्वरः प्रधानो वा पुरुषा साङ्ख्यापसृष्टो वा प्रवर्तते किञ्चिद् वर्जयित्वा तु कर्मजं सर्वकर्मप्रत्ययजनितो हेतुमपेक्षते । स च हेतुप्रत्ययमपेक्षते । एवं प्रतीत्यसमुत्पत्तिप्रत्ययान्तो ऽन्यमुपश्लिष्यते श्लेष्माणां च भूताभिनिष्पत्तिमहाभूतां जनयते । ते च महाभूता स्कन्धान्तरमनादिगतिकात् प्रतिपद्यन्ते । प्रपन्नाश्च गतिदेशान्तरं विस्तरविभागशो ऽभ्युपपद्यन्ते । कालान्तरोपरोधविलोमताज्ञानवह्निमीरिता कर्मोपरचितवासना अशेषमपि निर्दहन्ते । त्रिधायानसमता निःप्रपञ्चतां समतिनिर्हरन्ते । महायानदीर्घकालोपरचितकर्म स्वकं मध्यकालप्रत्येकखड्गिनां स्वयम्भु ज्ञानं प्रवर्तते । परघोषानुप्रवृत्तिश्रवश्रावकानां ह्रस्वकालाचिराधिराज्यं तेनात्यप्रवृत्तिधर्मान्तरं बुद्धिरेव प्रवर्तते बालिशानां विमोहितानाम् । अथ च पुनर्विचित्रकर्मजनितो ऽयं लोकसन्निवेशदेशवेषोपरतः शिवं निर्जरसम्पदमशोकविरजकर्मलोकसिद्धिमपेक्षते । विमलं मार्गविनिर्मुक्तमष्टाङ्गोपेतसुशीतलं कर्म एव कुरुते कर्म नान्यं कर्मापेक्षते ॥
कर्माकर्मविनिर्मुक्तो निःप्रपञ्चः स तिष्ठति ।
त्रिधा यानप्रवृत्तस्तु नान्यं शान्तिमजायते

17.2

त्रिविधैव भवेन्मन्त्रं त्रिधा कर्म प्रकीर्त्तिता ।
त्रिविधः फलनिष्पत्तिस्त्रिविधैव विचारणा

17.3

विपरीतं त्रिधा कर्म त्रिविधैव प्रदृश्यते ।
कुशलं तत् त्रिविधं प्रोक्तं पुनस्तन्त्रे प्रदृश्यते

17.4

पुनरेव विधं गोत्रं मन्त्राणामास्पदं शान्तम् ।
शान्तं निर्वाणगोत्रं तु बुद्धानां शुद्धमानसाम्

17.5

तदेव कर्म प्रत्यंशं मन्त्राङ्गे प्रकीर्तितः ।
ज्योतिषाङ्गं तथा लोके सिधिहेतोः प्रकल्पितम् ।
तदेव अंशं कर्मं वै प्रत्ययांशे प्रवर्तते

17.6

यथा हि शाली व्रीहीणामङ्कुरेण विभाव्यते ।
तथा हि सिद्धद्रव्याणां लक्षणेन विभाव्यते

17.7

यथा हि शुक्लो वर्णस्तु व्यवहारेण प्रकल्प्यते ।
तथाहि ज्योतिषयुक्तीनां व्यवहार्थं प्रकल्प्यते ।
सर्वतः सर्वयुक्तीनां कर्म एवं प्रशंसितम्

17.8

न तत् कर्म विना चिह्नैः क्वचिद् देहः संस्थितः ।
चिह्नैश्च चरितैश्चापि जातकैर्गोत्रमाशृतैः

17.9

विविधैः शकुनैर्नित्यं तत् कर्मं चोपलभ्यते ।
न क्वचिद् विग्रही कर्म अन्तलीनो ऽन्यलक्ष्यते

17.10

ज्वरितः सर्वतो जन्तुर्विकारैश्चोपलक्ष्यते ।
एवं देहे समासृत्य कर्म दृश्यति देहिनाम्

17.11

शुभाशुभफलाचिह्नजातकास्तु प्रकीर्त्तिताः ।
विविधा शकुनयः सत्त्वा विविधा कर्ममुद्भवा

17.12

बलकाल तथा यात्रा विविधा प्राणिनां रुता ।
शुभाशुभफला + + + + + + + + + + + + सदा

17.13

सिद्ध्यसिद्धिनिमित्तं तु प्रत्ययार्थमवेक्षते ।
निमित्तं चरितं चिह्नं प्रत्ययेति प्रकल्पितम्

17.14

तस्मात् सर्वप्रयत्नेन प्रत्ययं तु अपेक्षते ।
यज्जापिना सता मन्त्रे सिधिहेतोरपेक्षयेत्

17.15

कर्मस्वकान्यतानि अव्यङ्गानि लक्षयेत् ।
अलक्षितं तु सर्वं वै विघ्रकर्मैः सुदारुणैः

17.16

तस्मात् सर्वाण्येतानि अङ्गानीति मुनेर्वचः ।
सालेन्द्रराजः सर्वज्ञो बोधिमण्डे समाविशेत्

17.17

मन्त्रं उदीरयामास सर्वविघ्नप्रनाशनम् ।
दुःस्वप्नं दुर्निमितं तु दुःसहं च विनाशनम्

17.18

तस्य बोधिगतं चित्तं सर्वज्ञस्य महात्मने ।
मारेण दुष्टचित्तेन कृतो विघ्नो महाभयोः

17.19

अनिमित्तं तेन दृष्टं वै तरोर्मूले महाभयम् ।
अनिमित्तात् तस्य जायन्ते अनेकाकारभीषणाः

17.20

तस्य पुण्यबलाधाना चिरकालाभिलाषिणा ।
तेन मन्त्रवर्ण तस्य बलासौ भग्नाशौ नमुचिंस्तदा

17.21

ऋद्धिमन्तो महावीर्या संवृतो ऽसौ महाद्युतिः ।
तस्य मन्त्रप्रभावेन लिप्से बोधिमुत्तमाम्

17.22

स एव वक्ष्यते मन्त्रः दुर्निमित्तोपघातनम् ।
दुःस्वप्नं दुःसहं चैवं दुष्टसत्त्वनिवारणम्

17.23

शृण्वन्तु देवसङ्घा वै ग्रहनक्षत्रज्योतिषाम् ।
मन्त्रराट् भाषितः पूर्वं शालेन्द्रेण जिनेन वै

17.24

निग्रहार्थं च दुष्टानां ग्रहनक्षत्रतारकाम् ।
भूतां चैव सर्वेषां सौम्यचित्तां प्रबोधनाम्

17.25

शृण्वन्तु भूतगणाः सर्वे ये केचित् पृथिवीचराः ।
अपदा बहुपदा वापि द्विपदा वापि चतुःपदा ।
सर्वे संक्षेपतः सत्त्वा ये केचित् त्रिषु स्थावराः

17.26

नमः समन्तबुद्धानामप्रतिहतशासनानाम् ॥
ओम् ख ख खाहि खाहि । हुम् हुम् । ज्वल ज्वल । प्रज्वल प्रज्वल । तिष्ठ तिष्ठ । ष्णीः फट् फट् स्वाहा । एष बुद्धाद्ध्युषितो मन्त्रः ज्वालोष्णीषेति प्रकीर्तितः ॥
यानि कर्मसहस्राणि अशीति नव पञ्च च ।
करोति विविधां कर्मां सर्वमङ्गलसम्मतः ।
दुःस्वप्नान् दुर्निमित्तांस्तु सकृज्जापेन नाशयेत्

17.27

करोति अपरां कर्मां सर्वमन्त्रेषु स्वामिनः ।
वशिता सर्वसत्त्वानां बुद्धो ऽयं प्रभवो गुरुः

17.28

स्मरणादस्य मन्त्रस्य सर्वे विघ्नाः प्रणश्यिरे ।
देवातिदेवसम्बुद्ध इत्युक्त्वा मुनिसत्तमः

17.29

मुहूर्तं तस्थुरे तूष्णीं यावत् कालमुदीक्षयेत् ।
तस्थुरे देवसङ्घाश्च शुद्धावासोपरिस्तदा

17.30

सर्वेषां देवमुख्यानां नक्षत्रग्रहतारकाम् ।
समयं जग्मु ते भीता उष्णीषो मन्त्रभाषिताः

17.31

तुल्यवीर्यो महावीर्य उष्णीषाख्यो महाप्रभाः ।
शतपञ्चचतुष्कां वा सप्ताष्टा नवतिस्तथा

17.32

द्विषष्टि पञ्चसप्तान्या उष्णीषेन्द्राः प्रकीर्तिताः ।
एतत् सङ्ख्यमसङ्ख्येया राजानो मूर्धजा शुभा ।
तेष तुल्यो अयं मन्त्रः जिनमूर्धजजा इति

मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc