मञ्जुश्रीमूलकल्प · अध्याय 16
इति ॥
आर्यमञ्जुश्रियमूलकल्पाद् बोधिसत्त्वपिटकावतंसकान्महायानवैपुल्यसूत्रात् त्रयोदशमः सर्वकर्मक्रियार्थः पटलविसरः परिसमाप्त इति ।
अथ षोडशः पटलविसरः ।
अथ खलु भगवान् शाक्यमुनिः पुनरपि शुद्धावासभवनमलोक्य, मञ्जुश्रियं कुमारभूतमामन्त्रयते स्म । शृणु मञ्जुश्रीः त्वदीये सर्वार्थक्रियाकर्मपटलविसरं पूर्वनिर्दिष्टं पर्षन्मण्डलमध्ये सविस्तरं वक्ष्ये ऽहम् ।
पृष्टो ऽयं यक्षराजेन वज्रहस्तेन धीमता ।
सर्वमन्त्रार्थयुक्तानां स्वप्नानां च शुभाशुभम्
अत प्रसङ्गेन सर्वेदं कथितं मन्त्रजापिनाम् ।
यक्षराट् स्तुष्टमनसो मूर्ध्नि कृत्वा तु अञ्जलिम्
प्रणम्य शिरसा शास्तुरभ्युवाच गिरां मुदा ।
अनुग्रहार्थं तु लोकानां कथितं ह्यग्रबुद्धिना
ममैवमनुकम्पार्थं सत्त्वानां च सुखोदया ।
जापिनां सर्वमन्त्राणां स्वप्नानां च शुभाशुभम्
चरितं गुणविस्तारं सत्त्वाधिष्टनिकृष्टिनाम् ।
उत्तमा गति योनिभ्यो हेतुज्ञानविचेष्टितम्
अतीतानागतं ज्ञानं वर्तमानं शुभाशुभम् ।
सर्वं सर्वगतं ज्ञानं सर्वज्ञज्ञानचेष्टितम्
अनाभास्यमनालम्ब्यं निःप्रपञ्चं प्रपञ्चितम् ।
मन्त्राकारवरोपेतं शिवं शान्तिमुदीरितम्
प्रभावं सर्वबुद्धानां वर्णितं ह्यग्रबुद्धिना ।
सर्वमन्त्रार्थयुक्तानां जापिनां च विशेषतः
कर्म कर्मफलं सर्वं क्रियाकालं तथैव च ।
पात्रं स्थानं तथा वेषं स्वप्नप्रसङ्गे प्रचोदितम्
यक्षराण्मुनिवरं श्रेष्ठं सप्तमन्त्रतथागतम् ।
भद्रकल्पे तु ये बुद्धाः सप्तमो ऽयं शाक्यपुङ्गवः
शाक्यसिंहो जितामित्रः सप्तमो ऽयं प्रकल्पितः ।
युगाधमे ऽभिसंबुद्धो लोकनाथो प्रभङ्करः
महावीर्यो महाप्राज्ञो महास्थामोदितो मुनिः ।
वज्रपाणिस्तु तं यक्षो बोधिसत्त्वो नमस्य तम्
स्वकेषु आसने तस्थुस्तूष्णीम्भूतो ऽथ बुद्धिमान् ।
मञ्जुश्रियो ऽथ महाप्राज्ञः पृष्टो ऽसौ मुनिना तदा
अध्येषयति तं बुद्धं कन्यसं मुनिसत्तमम् ।
साधु भगवां सम्बुद्धः कर्मज्ञान सविस्तरम्
जातकं + + + + + + + + + + + + + + + + सदा शुभम् ।
चरितं बहुसत्त्वानां कर्मज्ञानसहेतुकम्
निविष्टाविष्टचेष्टानां श्रेयसार्थार्थयुक्तिनाम् ।
जापिनां सिद्धिनिमित्तानि साध्यसाध्यविकल्पिताम्
भूतिकामा तथा लोके ऐश्वर्याभोगकाङ्क्षिणाम् ।
राज्यहेतुप्रकृष्टानां सिद्धिधारणकामिनाम्
सर्वं सर्वगतं ज्ञानं संक्षेपेण प्रकाशतु ।
इत्युवाच मुनिः श्रेष्ठो अध्येष्टो जिनसूनुना
कलविङ्करुतो धीमान् दिव्यदुन्दुभिनादिनः ।
ब्रह्मस्वरो महावीर्यपर्जन्यो घोषनिःस्वनः
बुद्धवाचोदितः शुद्धो वाचे गाथां सप्तमो मुनिः ।
एष कुमार परार्थगतानां सिद्धिमजायत लोकहितानाम् ।
श्रेयसि सर्वहिते जगति प्रणितारो शुद्ध्यतु तिष्ठतु मोक्षविहूनाम्
सत्ययाक्षयवीर्यवां हि तच्चित्ता मदमैत्ररता स तदानरता ये ।
सिद्धिभवे सद तेषु जनेषु नान्य कथञ्चन सिद्धिमुपेष्ये
मन्त्रवरे सद तुष्टिरता ये शासनि चक्रधरे तथा मञ्जुधरे वा ।
धर्षयिमार प्रवर्त्तयि चक्रं सो ऽपि ह चक्रधरो इह युक्तः
वाचा दिव्यमनोरम यस्या बालिशजन्तु विवर्जितनित्या ।
दिव्यमनोरमकर्णसुखा च प्रेमणीया मधुरा अनुकूला
चित्तप्रह्लादनसौख्यप्रदा च मञ्जुरिति समुदीरय बुद्धा ।
यस्य न शक्यमभावमजानं ते ऽपि तथागतज्ञानविशेषैः
तेषु सुताथ च भूमिप्रविष्टा दिव्यप्रकृष्टदशतथागतसङ्ख्या ।
ते ऽपि सुरेश्वरलोकविशिष्टा दिव्यप्रभावमजानमशक्या
रूप्यः अरूप्या तथा अभूमा कामिकदिव्यं नृजा मनुजा वा ।
योगिन सिद्धिं गता अथ लोके सर्वविशिष्ट तथा नरमुख्या
सत्त्वमसौ न स विद्यति कश्चिद् यो प्रतिजानि तु तस्य श्रिया मे ।
एष सिरिपरिकल्पिततुल्यं मञ्जुसिरीति प्रतिजानि तु बुद्धाः
मञ्जुश्रियं परिकल्पिततुल्यं नाममियं तथ पूर्वजिनेभिः ।
एष कृता तव संज्ञितकल्पे दिव्य अनागतबुद्धमतीतैः
नामश्रुणि पर्यस्तव शुद्धो नास्य मनो भवि एकमनो वा ।
तस्य मिमं शिवशान्ति भवेयं बोधिवरा भवि अग्रविशिष्टा
मन्त्र अशेष तु सिद्ध भवेया उत्तमयोनि गति लेभे ।
उत्तमिधर्मि समाश्रयि नित्य विघ्नविवर्जित सिद्धि भवेया
ईप्सितमन्त्र प्रसाधयि सर्वां क्षिप्र स गच्छति बोधि ह मञ्जुम् ।
लप्स्यति बोधिगतो मुनिमुख्यः गत्व निषीदति सत्त्वहितार्थम्
बुद्धयि बोधिप्रवर्तयि चक्रं एष गुणो कथितो जिनमुख्यैः ।
मञ्जुरिति शिरीं त्वयि संस्मरि नामं अचिन्त्यगुणाः कथिता जिनमुख्यैः
दर्शतु नित्यप्रभाव त्वदीयं पूर्वकसर्वगतैर्जिनमुख्यैः ।
कल्पभणे या न शक्यमसङ्ख्यैः मन्त्रशता तव शुद्धकुमार
मञ्जुश्रियं तव मन्त्रचर्यं भाषित सर्वमशेषकबुद्धैः ।
एषं कुमार थ सर्वगता वै शासन तुभ्य रतोत्तम वीराः
शुद्धावासनिषण्णजना वै सत्त्वमशेषत ईहय सत्ता ।
न क्रमिमन्त्र त्मदीय कदाचिं नापि कथञ्चिह ये तव मन्त्रम्
मूल पाठ: Mañjuśrīmūlakalpa · Edition: M.M.T. Ganapati Shastri, 1925 (3 vols.), reprint: Delhi: Sri Satguru Publications 1989, pp. 1-722. Cf. also Aryamanjusrimulakalpa. In: Mahayanasutrasamgraha, part II, ed. by P.L. Vaidya, Darbhanga 1964 (Buddhist Sanskrit Texts, 18). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0