भाषा

ENहिગુ
ग्रंथ पाठ

माण्डूक्योपनिषत्कारिका · अध्याय 1

1.1

बहिःप्रज्ञो विभुः विश्वो ह्य् अन्तःप्रज्ञस् तु तैजसः ।
घनप्रज्ञः तथा प्राज्ञ एक एव त्रिधा स्मृतः

1.2

दक्षिणाक्षिमुखे विश्वो मनस्य् अन्तस् तु तैजसः ।
आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः

1.3

विश्वः हि स्थूलभुङ् नित्यं तैजसः प्रविविक्तभुक् ।
आनन्दभुक् तथा प्राज्ञस्त्रिधा भोगं निबोधत

1.4

स्थूलं तर्पयते विश्वं प्रविविक्तं तु तैजसम् ।
आनन्दश् च तथा प्राज्ञं त्रिधा तृप्तिं निबोधत

1.5

त्रिषु धामसु यद्भोज्यं भोक्ता यश् च प्रकीर्तितः ।
वदैतदुभयं यस् तु स भुञ्जानो न लिप्यते

1.6

प्रभवः सर्वभावानां सताम् इति विनिश्चयः ।
सर्वं जनयति प्राणश् चेतो ऽंशून् पुरुषः पृथक्

1.7

विभूतिं प्रसवं त्व् अन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिर् अन्यैः विकल्पिता

1.8

इच्छामात्रं प्रभोः सृष्टिर् इति सृष्टौ विनिश्चिताः ।
कालात् प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः

1.9

भोगार्थं सृष्टिर् इति अन्ये क्रीडार्थम् इति चापरे ।
देवस्यैष स्वभावो ऽयम् आप्तकामस्य का स्पृहा

1.10

निवृत्तेः सर्वदुःखानाम् ईशानः प्रभुर् अव्ययः ।
अद्वैतः सर्वभावानां देवास् तुर्यो विभुः स्मृतः

1.11

कार्यकारणबद्धौ ताव् इष्येते विश्वतैजसौ ।
प्राज्ञः कारणबद्धस् तु द्वौ तौ तुर्ये न सिध्यतः

1.12

नात्मानं न पराश् चैव न सत्यं न अपि चानृतम् ।
प्राज्ञः किञ्चन संवेत्ति तुर्यं तत् सर्वदृक् सदा

1.13

द्वैतस्याग्रहणं तुल्यम् उभयोः प्राज्ञतुर्ययोः ।
बीजनिद्रायुतः प्राज्ञः सा च तुर्ये न विद्यते

1.14

स्वप्ननिद्रायुताव् आद्यौ प्राज्ञस् त्व् अस्वप्ननिद्रया ।
न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति निश्चितः

1.15

अन्यथा गृह्णतः स्वप्नो निद्रा तत्त्वम् अजानतः ।
विपर्यासे तयोः क्षीणे तुरीयं पदम् अश्नुते

1.16

अनादिमायया सुप्तो यदा जीवः प्रबुध्यते ।
अजम् अनिद्रम् अस्वप्नम् अद्वैतं बुध्यते तदा

1.17

प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रम् इदं द्वैतम् अद्वैतं परमार्थतः

1.18

विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशाद् अयं वादो ज्ञाते द्वैतं न विद्यते

1.19

विश्वस्यात्वविवक्षायाम् आदिसामान्यम् उत्कृष्टम् ।
मात्रासंप्रतिपत्तौ स्याद् आप्तिसामान्यम् एव च

1.20

तैजसस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् ।
मात्रासंप्रतिपत्तौ स्याद् उभयत्वं तथा विधम्

1.21

मकारभावे प्राज्ञस्य मानसाम् अन्यम् उत्कटम् ।
मात्रासंप्रतिपत्तौ तु लयसामान्यम् एव च

1.22

त्रिषु धामसु यत् तुल्यं सामान्यं वेत्ति निश्चितः ।
स पूज्यः सर्वभूतानां वन्द्यश् चैव महामुनिः

1.23

अकारो नयते विश्वम् उकारश् चापि तैजसम् ।
मकारश् च पुनः प्राज्ञं नामात्रे विद्यते गतिः

1.24

ओंकारं पादशो विद्यात् पादा मात्रा न संशयः ।
ओंकारं पादशो ज्ञात्वा न किञ्चिद् अपि चिन्तयेत्

1.25

युञ्जीत प्रणवे चेतः प्रणवो ब्रह्म निर्भयम् ।
प्रणवे नित्ययुक्तस्य न भयं विद्यते क्वचित्

1.26

प्रणवो ह्य् अपरं ब्रह्म प्रणवश् च परः स्मृतः ।
अपूर्वो ऽनन्तरो ऽबाह्यो ऽनपरः प्रणवो ऽव्ययः

1.27

सर्वस्य प्रणवो ह्य् आदिर् मध्यम् अन्तस् तथैव च ।
एवं हि प्रणवं ज्ञात्वा व्यश्नुते तद् अनन्तरम्

1.28

प्रणवं हीश्वरं विद्यात् सर्वस्य हृदि संस्थितम् ।
सर्वव्यापिनम् ओंकारं मत्वा धीरो न शोचति

1.29

अमात्रो ऽनन्तमात्रश् च द्वैतस्योपशमः शिवः ।
ओंकारो विदितो येन स मुनिर् नेतारो जनः

मूल पाठ: Māṇḍūkyopaniṣatkārikā (also known as Gauḍapādakārikā, Māṇḍūkyakārikā or Āgamaśāstra) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc