मानवगृह्यसूत्र · अध्याय 2.9
इति द्वितीयपुरुषे ऽष्टमः खण्डः ॥8॥
नवमः खण्डः
उत्तमायाः प्रदोषे चतुष्पथे ऽङ्गशो गां कारयेत्
यो य आगच्छेत्तस्मै तस्मै दद्यात्
श्वो ऽन्यां कारयेत्
तस्यावपां जुहुयात्--
वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके मेदसो घृतस्य कुल्या अभिनिःस्रवन्तु सत्याः सन्तु यजमानस्य कामाः स्वाहा ।
इति
अथास्या वक्षसा उदगोदनं श्रपयति
तस्याष्टकाहोमकल्पेन शेषो व्याख्यातः
अवशिष्टं भक्तं रन्धयति
श्वो ऽवशिष्टं भक्तं रन्धयित्वा पिण्डानामावृता त्रीन्मांसौदनपिण्डान्निदधाति
श्राद्धमपरपक्षे पितृभ्यो दद्यात्
अनुगुप्तमन्नं ब्राह्मणान् भोजयेन् नावेदविद्भुञ्जीतेति श्रुतिः
यदि गवा पशुना वा कुर्वीत प्रोक्षणमुपपायनं पर्यग्निकरणमुल्मुकहरणं वपाहोममिति
त्रैधं वपां जुहुयात् स्थालीपाकमवदानानि च
सोमाय पितृमते स्वधा नम इति
जुहोति यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम् ।
अग्नये काव्यवाहनाय स्वधा नम इति तृतीयाम्
एवं मासि मासि नियतं तन्त्रं पिण्डपितृयज्ञे
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0