मानवगृह्यसूत्र · अध्याय 2.8
इति द्वितीयपुरुषे सप्तमः खण्डः ॥7॥
अष्टमः खण्डः
तिस्रो ऽष्टकाः
ऊर्ध्वमाग्रहायण्याः प्राक् फाल्गुन्यास्तमिश्राणामष्टम्यः
तासु नाधीयीत
तासु पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति--
या देव्यष्टकेष्वपसापस्तमास्तपा अवया असि ।
त्वं यज्ञे वरुणस्यावया असि तस्यै त एना विधेम ॥
उलूखला ग्रावाणो घोषमकुर्वत हविः कृण्वन्तः परिवत्सरीयम्
एकाष्टके सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृदो वयं ते ॥
यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम् ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥
संवत्सरस्य प्रतिमां ये त्वा रात्रीमुपासते ।
तेषामायुष्मतीं प्रजांरायस्पोषेण संसृजस्व ॥
इति चतस्रः स्थालीपाकस्य
अष्ठकार्यै सुराधसे
स्वादेति सर्वत्रानुषजति
हेमन्तो वसन्ते ग्रीष्मऋतवः शिवानः शिवानो वर्षा अभयाश्चिरं नः वैश्वानरो ऽधिरतिः प्राणादो नो अहोरात्रे कृणुतां दीर्घमायुः ॥
शान्ता पृथिवी शिवमन्तरिक्षं द्यौर् नो देव्यभयं कृणोतु ।
शिवा दिशः प्रदिश आदिशो न आपो विद्युतः परिपान्त्वायुः ॥
आपो मरीचीः परिपान्तु विश्वतो धाता समुद्रो अभयं कृणोतु ।
भूतं भविष्यदुत भद्रमस्तु मे ब्रह्मभिगूर्त्तं स्वराक्षाणः ॥
कविरग्निरिन्द्रः सोमः सूर्यो वायुरस्तु मे अग्निर्वैश्वानरो अपहन्तु पापम् ।
बृहस्पतिः सविता शर्म यच्छतु श्रियं विराजं मयि पूषा दधातु ॥
इति पञचाज्यस्य
जयान्हुत्वेडामग्न इति स्विष्टकृदिति
एवं सर्वासु
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0