मानवगृह्यसूत्र · अध्याय 2.7
इति द्वितीयपुरुषे षष्ठः खण्डः ॥6॥
सप्तमः खण्डः
आग्रहायण्यां पौर्णमास्यां पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति--
अपः श्वेतपदाग्राहि पूर्वेण चापरेण च ।
सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धव्यः स्वाहा ॥
श्वेतो रुषत्यो विदधात्यश्वो दधद्गर्भं वृषः सत्वर्यां ज्योक् ।
समं जनाश्चक्रमयो वसानाः प्रोषादसाविरसि विश्वमेतत् ॥
शेताय रौषिश्वाय स्वाहा, न वै श्वेतस्याभ्याचारे अहिर्जघान किंचन ।
श्वेताय वैताहव्याय स्वाहा. ॥
अभयं नः प्राजापत्येभ्यो भूयात् स्वाहा ॥
इति
स्रस्तरे ऽहतं वास उदग्दशमास्तीर्योदकां व्रीहीन् यवान्वास्य परिषिञ्चति स्योना पृथिवी भवेति द्वाभ्यां सुत्रामाणमिति द्वाभ्याम्
शमीशाखया च सपलाशयोदञ्च त्रिः समुन्मार्ष्टि स्योना पृथिवी भवेति द्वाभ्यां सूत्रमाणमिति द्वाभ्यां नमो अस्तु सर्पेभ्य इति तिसृभिश्च
शाम्यन्तु सर्पाः स्वशया भवन्तु ये अन्तरिक्ष उत ये दिवि श्रिताः ।
इमां महीं प्रत्यवरोहेम ।
शिवामजस्रां शिवां शान्तां सुहेमन्तामुत्तरामुत्तरां समांक्रियासम् ॥
इति ज्येष्ठ प्रथमानुदीच आवेशयति
उदीर्घं जीवो असुर्न आगादयः प्रागात्तम आज्योतिरेति ।
आरैकपन्थां यातवे सूर्या-यागन्मा यत्न प्रतरं न आयुः ।
इति कनिष्ठप्रथमानुज्जिहते
चैत्र्यामुद्ग्रोणम्
न तत्र स्तालीपाको न शाखया समुन्मार्ष्टि
अयं तल्पः प्रतरणो वसूनां विश्वार्त्विभ्य(?) तल्पो अस्मान् ।
ज्योग् जीवेम सर्ववीरा वयं तम ॥
इति तल्पमभिमन्त्र्यते
त्राणि नाभ्यानि फाल्गुन्यामाषाढ्यां कार्तिक्याम्
तासु नाधीयीत
तासु पयसि स्थालीपाकः स व्याख्यातः
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0