भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 2.6

2.6.1

इति द्वितीयपुरुषे पञ्चमः खण्डः ॥5॥
षष्ठः खण्डः
अथातो ध्रुवाश्वकल्पं व्याख्यास्यामः

2.6.2

आश्वयुज्यां पौर्णमास्याम्

2.6.3

ऋत्विगव्यङ्गः स्नातः शुचिरहतवासाः

2.6.4

प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे ऽश्वत्थस्याधस्तान्न्यग्रोधस्य वापां वा समीपे वेद्यकृतिं कृत्वा तस्यां चतुष्कोणवनस्पतिशाखायामसक्तचीरायां गन्धस्रग्दामवत्यां चतुर्दिशं विन्यस्तोदकुम्मसहिरण्यबीजपिटिकायामपूपस्रस्तरलाजोल्लोपिकमङ्गलफलाक्षवत्यां सर्वगन्धसर्वरससर्वौषधीः सर्वरत्नानि चोपकल्प्य प्रतिसरदधिमधुमोदकस्वस्तिकनन्द्यावर्तवत्यामग्निं
प्रणीयाश्वत्थपलाशखदिररोहितकोदुम्बराणामन्यतमस्येध्ममुपससाधाय तिस्रः प्रधानदेवता यजत्युच्चैःश्रवसं वरुणं विष्णुमिति स्थालीपाकैः पशुभिश्चाश्विनौ चाश्वयुजौ चाज्यस्य

2.6.5

जयान् हुत्वा या ओषधयः समन्न्यायन्ति पुनन्तु मा पितरो ऽग्नेर्मन्व इति चतुर्भिरनुवाकौरपो ऽभिमन्त्र्याश्वान्स्नपयति

2.6.6

गन्धस्नग्दामभिरलंकृत्य प्रदक्षिणं देवयजनं त्रिः परियन्ति

2.6.7

प्राहर्षं कारयन्ति

2.6.8

इष्टे यथास्थानं व्रजन्ति

2.6.9

गौरनड्वांश्च दक्षिणा

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc