मानवगृह्यसूत्र · अध्याय 1.5
इति चतुर्थः खण्डः ।
पञ्चमः खण्डः
अथातो ऽन्तरकल्पं व्याख्यास्यामः
दर्भमयं वासः परिधायचम्यापां नप्त्र इति तीरे जपित्वापो ऽवगाह्य ओंभूर्भुवः स्वस्तत्सवितुरिति
दर्भपाणिस्त्रिः सावित्रीमधीते त्रीं श्वादितो ऽनुवाकान्
आपो देवीर्हविष्मतीरिमा निग्राभ्यो स्थ महित्रीणामवो ऽस्तु अग्नेररायुरसि देवी रापो अपां नपाद्देवीरापो मधुमतीरग्नये स्वाहा रात्रीं रात्रीमित्यष्टौ
या ओषधयः समान्यायन्ति पुनन्तु मा पितरो ऽग्नेर्मन्वे सशेवृधमधिधाः कया नश्चित्र आभुवदूतीति तिस्रः
तच्छंयोरा वृणीमह इति मार्जयित्वा वासांस्युत्सृजायाचार्यान्पितृधर्मेण तर्पयन्ति
श्राद्धकल्पेन शेषो व्याख्यातः
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0