मानवगृह्यसूत्र · अध्याय 1.6
इति पञ्चमः खण्डः ।
षष्ठः खण्डः ।
अथातोग्निं प्रवर्तयन्ति
उत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे वेद्याकृतिं कृत्वाहवनीयस्थाने सप्तच्छन्दांसि प्रतिष्ठाप्य विष्ठरा दर्भमुष्ठीन्वा दक्षिणाग्निस्थाने प्रौगाकृतिं कौशितं खात्वा पश्चादुत्करमपां पूरयित्वा
गार्हपत्यस्थाने ऽग्निं प्रणीय युञ्जानः प्रथमं मन इत्यष्टौ दुत्वा ।
ञकूतमग्निं प्रयुजं स्वाहेति षड् जुहोति विश्वो देवस्य नेतु रिति सप्तमीम्
यज्ञियानां समिधां त्रीं स्त्रीन् समित्पूलानुपकल्प्य प्राक्स्विष्टकृतस्तिष्ठन्तो व्याहृतिपूर्वकं खण्डिलस्यादीतस्त्रिभि रनुवाकैरेकैकेन स्वाहाकारान्ताभिरादधति
आपोदिष्टीयाभिः कौसितान् मार्जयित्वा धानाभिर् ब्राब्मणान्स्वस्ति वाचयन्ति धानाभिर् ब्राह्मणान्स्वस्ति वाचयन्ति
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0