भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.4

1.4.1

इति तृतीयः खण्डः
चतुर्थः खण्डः
वर्षासु श्रवणेन स्वाध्यायानुपाकुरुते

1.4.2

स जुहेति-
अप्वानामासि तस्यास्तेजोष्ट्रं गमयेम् ।
अहमिद्धि पितुः परिमेधामृतस्य जग्रभ सूर्य इवाजनि स्वाहा ।
सरस्वतीनामासि सरस्वन्नामासि ।
युक्तिर्नामासि योजो नामासि ।
मतिर्नामासि मने नामासि ॥
तस्यास्तेजोष्ट्रीं गमेयम् ।
तस्य तेजोष्ट्रं गमयेमिति सर्वत्रानुषजति

1.4.3

युजे स्वाहा प्रयुजे स्वाहोद्युजेस्वाहेत्येतैरत्तेवासिनां योगमिच्छन्निति

1.4.4

प्राक् स्विष्टकृतोथ जपति ।
ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मा भवतु वक्तारम् ।
वाङ् मे मनसि प्रतिष्ठिना, मनो मे वैचि प्रतिष्ठितमाविरायुर्मयि धेहि वेदस्य वाणीः स्थ ।
ओं भूर्भुवः स्वस्तत्सवितुरिति

1.4.5

दर्भपाणिस्त्रिः सावित्री मधीते ।
त्रिंश्चादितो ऽनुवाकान् ।
को वा युनक्तीति च ।
उपाकुर्महे ऽध्यायानुपतिष्ठन्तु छन्दासीति च

1.4.6

तस्यानध्यायाः समूहन्वातो वलीकक्षारप्रभृति वर्षं न विद्योतमाने न स्तनयतीति श्रुतिराकालिकं देवतुमुलं विद्युद्धन्वोल्कात्यक्षराः शब्दाः ।
आचारेणान्ये

1.4.7

अर्द्धपञ्चमान्मासानधीत्योत्सृजति पञ्चार्द्धषष्ठान्वा

1.4.8

अथ जपति ऋत मवादिषं तन्मावीत् त्तद्वक्तारमावीदावीन्मामावीद्वक्तारम् ।
वाध् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितं माविरायुर् मयि धेहि ।
वेदस्य वाणीः स्थ ।
ओं भूर्भुवः स्वस्तत्सवितुरिति

1.4.9

दर्भपाणिस्त्रिः सावित्रीमधीते ।
त्रींश्चादितो ऽमुवाकान् को वो विमुञ्चतीति विमुच्योत्सृजामहेध्यायान्प्रतीश्वसन्तु छन्दासीति च

1.4.10

प्रतिपदं पक्षिणीं रात्रीं नाधीयीत नात ऊर्ध्वमभ्रेषु

1.4.11

आकालिको विद्युत्स्ननयित्नुवर्षेषु

1.4.12

गोनामेषु मन्त्रब्राह्मणकल्पयितृमेधमहाव्रताष्टापदीं वैषुवतानि दिवाधीयीत वैषुवत्तमार्द्रपाणिः

1.4.13

रुदान्न नक्तं न भुक्ता न ग्रामे

1.4.14

शुक्रियस्य प्रवर्ग्यकल्पे नियमो व्याख्यातस्त्रयोविंशं तु संमील्य

1.4.15

गवां तु न सकाशे गोनामानि गार्भिणीनामसकाशे ऽष्टापदींरेतो मूत्रमिति च

1.4.16

शुनीशीर्यस्य च सौर्ये चक्षुष्कामस्य चक्षुर्नो धेहि चक्षुष इति सूर्यो ऽपो ऽवगाहत इति च आदित्यसैर्ययाम्यानि षडृचानि दिवाधीयीत

1.4.17

उपाकृत्योत्सृज्य च त्र्यहं पञ्चरात्रमेके

1.4.18

वेदारम्भणे समाप्तौ चाकालम्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc