मानवगृह्यसूत्र · अध्याय 1.22
अदितिः श्मश्रुः वपत्वित्यूदेन श्मश्रुप्रवपति शुन्धि मुखमिति च ॥
इत्येकविंशः खण्डः ॥21॥
द्वाविंशः खण्डः
सप्तमे नवमे वोपायनम्
आगन्त्रा समगन्महि प्रथममर्तिं युयोतु नः ।
अरिष्टाः संचरेमहि स्वस्ति चरता दिशः ।
स्वस्त्यागृहेभ्यः ॥
इत्युप्तकेशेन स्नातेनाक्तेनाभ्यक्तेनालंकृतेन यज्ञोपवीतिना समेत्य जपति
अथास्मै वासः प्रयच्छति--
या अकृन्तन्या अतन्वन्या आवन्या अवाहरन्
याश्चाग्न्या देव्यो ऽन्तानभितो ऽभितो ऽततनन्त
तास्त्वा देव्यो जरसे संव्ययन्त्वायुष्मन्निदं परिधत्स्व वासः ॥
इत्यहतं वासःपरिधाप्यान्वारभ्याधारावाज्यभागौ हुत्वा-यशेषे दध्यानीय दधिक्राव्णो अकारिषमिति दधि त्रिः प्राश्नाति
को नामासीत्याह
नामधेये प्रोक्ते ऽऽदेवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति हस्तं गृह्णन्नाम गृह्णाति प्राङ्मुखस्य प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नासीनस्य दक्षिणमुत्तानं दक्षिणेन नीचारीक्तमरिक्तेन सविता ते हस्तमग्रहीदासावग्निराचार्यस्तव देवसवितरेषते ब्रह्मचारी त्वं गोपाय समावृतत् ।
कस्य ब्रह्मचार्यसि ।
प्राणस्य ब्रह्मचार्यसि ।
कस्त्वा कमुपनयते ।
काय त्वा परिददामि ।
कस्मै त्वा परिददामि ।
तस्मै त्वा परिददामि ।
भगाय त्वा परिददाम्यर्यम्णे त्वा परिददामि सवित्रे त्वा परिददामि सरस्वत्यै त्वा परिददामीन्द्राग्निभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामिसर्वेभ्यस्त्वा देवेभ्यः परिददामीति परिददाति
ब्रह्मणोग्रन्थिरसि स ते मा विस्रसदिति हृदयदेशमारभ्य जपति ।
प्राणानांग्रन्थिरसीति प्राणदेशम्
ऋतस्य गोप्त्री तपसस्तरुत्री घ्नती रक्षः सहमाना अरातीः
सानःसमगन्तमभिपर्य्येहि भद्रे धर्त्तारस्ते सुभगे मेखले मारिषाम ॥
इति मौञ्जीं पृथिवीं त्रिगुणां मेखलामादत्ते
युवासुवासा इति मेखलां प्रदक्षिणं त्रिः परिव्ययति
पुंस स्त्रीन्ग्रन्थीन्बध्नाति
इयं दुरुक्तात्परिबाधमाना वर्णं पुराणं पुनतीम आगात्
प्राणापानाभ्यां बलमाभजन्ती शिवादेवी सुभगे मेखले मारिषाम ।
इति तस्यां परिवीतायां जपति--
मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं ते अस्तु
मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यम् ॥
इति
यज्ञियस्य वृक्षस्य दण्डं प्रदाय कृष्णाजिनं चादित्यमुपस्थापयति-
अध्वनामध्वपते श्रैष्ठ्यस्य स्वस्त्यस्याध्वनः पारमशीय ।
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥
पश्येम शरदः शतं जीवेम शरदः शतम् ।
शृणुयाम शरदः शतं प्रब्रवाम शरदः शतम् ।
अदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥
या मेधाप्सरःसु गन्धर्वेषु च यन्मनः ।
दैवी या मानुषी मेधा सा मामाविशतामिहैव ॥
इति
अभिदक्षिणमानीयाग्नेः पश्चात्--
एह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव ।
कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥
इति दक्षिणेन पादेनाश्मानमास्थापयति
पश्चादग्नेर्महदुपस्तीर्य सूपस्थलं कृत्वा प्राङासीनः प्रत्यङ्ङासीनायानुवाचयति गायत्रीं सावित्रिमपि ह्येके त्रिष्टुभमपि ह्येके जगतीमोमित्यपत्का व्याहृतिभिश्च
तां त्रिरवगृह्णीयात्तां द्विरवकृत्य तां-सकृत्समस्येत् पादशोर्ऽधर्चशः सर्वामन्तेन
यत्तिसृणां प्रातरन्वाह यद् द्वयोर्यदेकस्याः सं वत्सरे द्वादशाहे षडहे त्र्यहे वा तस्मात्सद्यो ऽनूच्येति श्रुतिः
वरं कर्त्रे ददाति कांस्यं वसनं च
यस्य तु मेधाकामः स्यात्पलाशं नवनीतेनाभ्याज्य तस्य च्छायायां वाचयेत्-सुश्रवः सुश्रवा असि ।
यथा त्वं सुश्रवःसुश्रवा असि एवं मां सुश्रवः सौश्रवं कुरु ॥
यथा त्वं देवानां निधिपो असि
एवमहं मनुष्याणां वेदानां निधिपो भूयासम् ॥
इति
अ-तेह वा अयमेषां वेदानामेकं द्वौ त्रीन् सर्वान्वेति यमेवंविद्वांसमुपनयतीति श्रुतिः
व्याख्यातं ब्रह्मचर्यम्
अथ भैक्षं चरते मातरमेवाग्रे याश्चान्याः सुहृदो यावत्यो वा सन्निहिताः स्युः
आचार्याय भैक्षमुपकल्पयते तेनानुज्ञाते भुञ्जीतेति श्रुतिः
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0