मानवगृह्यसूत्र · अध्याय 1.21
इति विंशः खण्डः ॥20॥
एकविंशतितमः खण्डः
तृतीयस्य वर्षस्य भूयिष्टे गते चूडाः कारयेत् ॥
उदगयने ज्यौत्स्ने पुण्ये नक्षत्रे ऽन्यत्र नवाभ्याम्
जयप्रभृतिर्हुत्वा--
ऽउष्णेन वायुरुदकेनेद्यजमानस्यायुषा
सविता वरुणोदधद्यजमानाय दाशुषेऽ
इत्युष्णा अपो ऽभिमन्त्रयते
अदितिः केशान्वपत्वाय उदन्तु जीवसे
धारयतु प्रजापतिः पुनः पुनः स्वस्तयेऽ ॥
इत्यभ्युन्दति
ओषधे त्रायस्वैनामिति दक्षिणास्मिन्केशान्ते दर्भमन्तर्दधाति
स्वधिते मैनंहिसीरिति क्षुरणाभिनिदधाति
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य केशान् ।
तेन ब्राह्मणो वपत्वायुष्मानयं जरदष्ठिरस्तु ॥
येन पूषा बृहस्पतेरिन्द्रियस्य चायुषे ऽवपत् ।
तेन ते वपाम्यायुषे दीर्धायुत्वाय जीवसे ॥
येन भूयश्चरत्ययं ज्योक्च पश्यति सूर्यः ।
तेन ते वपाम्यायुषे सुश्लोक्याय स्वस्तये ॥
इति तिसृभिस्त्रिः प्रवपति
यत्क्षुरेण वर्तयता सुतेजसा वप्तर्वपसि केशान् ।
शुन्धि शिरो मास्यायुः प्रमोर्षीः ॥
इति लौहायसं क्षुरं केशावापाय प्रयच्छति
मा ते केशाननुगाद्वर्च एतत्तथा धाता दधातु ते ।
तुभ्यमिन्द्रो वरुणो बृहस्पतिः सविता वर्चा आदधुः ॥
इति प्रवपतो ऽनुमन्त्रयते
सुहृत्परिग्राहं हरितगोशकृत्पिण्डे समवचिनोति
उप्त्वाय केशान्वरुणास्य राज्ञो बृहस्पतिः सविता विष्णुरग्निः ।
तेभ्यो निधानं महतं न विदन्नन्तरा द्यावापृथिव्योरपस्युः ॥
इति प्रागुदीचो ह्रियमाणाननुमन्त्रयते
अरिक्ते पत्न्या श्लेषयेदिति श्रुतिः
वरं कर्त्रे ददाति पक्ष्मगुडं तिलपिश्लं च केशवापाय
एतेन तु कल्पेन षोडशे वर्षे गोदानमग्निं वाध्येष्यमाणस्याग्निर्गोदानिको मैत्रायणिरिति श्रुतिः
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0