भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.20

1.20.1

इत्यूनविंशः खण्डः ॥19॥
विंशतितमः खण्डः
अथान्नप्राशनम्

1.20.2

पञ्चमे षष्ठे वा मासि पयसि स्थालीपाकं श्रपयित्वा स्नातमलङ्कृतमहतेन वाससा प्रच्छाद्यान्नपते ऽन्नस्य नो देहीति हुत्वा हिरण्येन प्राशयेदन्नात्परिस्रुत इत्यृचा

1.20.3

रत्नसुवर्णोपस्करणायुधानि दर्शयेत्

1.20.4

यदीच्छेत्तदुपसंगृह्णीयात्

1.20.5

ततो ब्राह्मण भोजनम्

1.20.6

वासो दक्षिणा

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc