भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.17

1.17.1

इति षोडशः खण्डः ॥16॥
सप्तदशः खण्डः
पुत्रे जाते वरं ददाति

1.17.2

अरणिभ्यामग्निं मथित्वा तस्मिन्नायुष्यहोमाञ् दुहुयात्

1.17.3

अग्नेरायुरसीत्यनुवाकेन प्रत्यृचं प्रतिपर्यायमेकविंशतिमाज्याहुतीर्जुहोति

1.17.4

आज्यशेषे दधिमध्वपो हिरण्यशकलेनोपहत्य त्रिः प्राशापयति

1.17.5

अश्मा भव परशुर्भव हिरण्यमस्तृतं भव
वेदो वै पुत्रनामासि सजीव शरदः शतम् ॥
इति प्रादेशेनाध्यधि प्रतिमुखं प्रदक्षिणं सर्वतो ऽभ्युद्धिशति

1.17.6

पलाशस्य मध्यपर्णं प्रवेष्ट्य तेनास्य कर्णयोर्जपेत्--
भूस्ते ददामीति दक्षिणे भुवस्तेददामीति सव्ये स्वस्ते ददामीति दक्षिणे भूर्भुवः- स्वस्ते ददामीति सव्ये

1.17.7

इषं पिन्वोर्जं पिन्वेति स्तनौ प्रधापयेत्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc