मानवगृह्यसूत्र · अध्याय 1.18
इति सप्तदशः खण्डः ॥17॥
अष्टादशः खण्डः
दशम्यां रात्र्यां पुत्रस्य नाम दध्याद् घोषवदाद्यन्तरन्तस्थं द्वयक्षरं चतुरक्षरंवा त्र्यक्षरं दान्तं कुमारीणाम्
तेनाभिवादयितुं त्यत्का पितुर्नामधेयं यशस्यं नामधेयं देवताश्रयं नक्षत्राश्रयं देवतायाश्च प्रत्यक्षम् प्रतिषिद्धम्
स्नात्वा सहपुत्रो ऽभ्युपैति
अथैनमभिभृशति-ऽअग्नेष्ट्वा तेजसा सूर्यस्य वर्चसा विश्वेषां त्वा देवानां क्रतुनाभिभृशामीति प्रक्षालितपाणिर्नवनीतेनाभ्याज्याग्नौ प्रताप्य ब्राह्मणाय प्रोच्यभिभृसेदिति श्रुतिः
वरं कर्त्रे ददाति
अङ्गादङ्गात्संभवसि हृदयादधिजायसे
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥
इति प्रवासादेत्य पुत्रस्य मूर्द्धनि जपेत्
न मधुमांसे प्राश्नीयादापशुबन्धात्
संवत्सरे चाजाविभ्यामग्निधन्वन्तरी यजेत्
मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0