भाषा

ENहिગુ
ग्रंथ पाठ

मानवगृह्यसूत्र · अध्याय 1.16

1.16.1

इति पञ्चदशः खण्डः ॥15॥
षोडशः खण्डः
अष्ठमे गर्भमासे जयप्रभृतिभिर्हुर्वा फलैः स्नापसित्वा या ओषधय इत्यनुवाकेनाहतेन वाससा प्रच्छाद्य गन्धपुष्पैरलंकृत्य फलानि कण्ठे वै संसृज्याग्निं प्रदक्षिणं कुर्यात्

1.16.2

प्रजां मे नर्यपाहीति मन्त्रेणोपस्थानं कृत्वा गुणवतो ब्राह्मणान् भोजयेत्

1.16.3

फलानि दक्षिणा दद्यात्

1.16.4

ततः स्वस्त्ययनंच

1.16.5

यो गुरुस्तमर्हयेत्

मूल पाठ: Mānavagṛhyasūtra (= Maitrāyaṇīyamānavagṛhyasūtra) · Edition: Ramakrishna Harshaji Sastri: Mānavagṛhyasūtra of the Mitrāyaṇīya Śākhā, Baroda : Central Library 1926 (Gaekwad's Oriental Series, 35) · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc