भाषा

ENहिગુ
ग्रंथ पाठ

मानमनोहर · भाग 2126

न च रूपित्वमुपाधिः, आलोके व्यभिचारात् ।
न च रूप्यणुत्वं प्रयोजकम्, सपक्षाव्यापकत्वात् ।
प्रतिवद्धद्रवत्वस्य तैजसद्व्यणुकस्याप्युत्पत्तिसम्भवात्, तन्निवृत्यर्थं परमाणुत्वे सतीति विशेषणे वैयर्थ्यम् ।
स च वेगः प्रत्यक्षे द्रव्ये प्रत्यक्षेणैव गृह्यते, वेगेन गच्छतीति प्रतीतेः ।
(2 स्थितिस्थापकः--) विवादाध्यासिताः परमाणवः [कर्मासमवायिकारणाद्विष्ठगुणा]धाराः, स्पर्शवत्त्वादश्रौत्रानित्यविशेषगुणत्त्वादिषुवदात्मवच्च ।
अन्यथाकृष्टमुक्तानां शाखादीनां पुनर्मण्डलीभावो न स्यात् ।
विवादाध्यासितो वेगातिरिक्तसंस्काराश्रयः, अश्रौत्रानित्यविशेषगुणवत्त्वाद्, आत्मवदिति स्थितिस्थापकसिद्धिः ।
उन्नमनकर्मासमवायिकारणाद्विष्ठगुणावान्तरजातीयः संस्कारः स्थितिस्थापकः ।
(3 भावना--) स्मृत्त्यन्यथानुपपत्त्या भावनासिद्धिः ।
पूर्वानुभवस्य चिरातीतत्वात् ।
स्वोत्पादकानित्यज्ञानसमानविषयज्ञानजनकेन गुणावान्तरजातीया भावना ।
(22--23 धर्माधर्मयोर्निरूपणम्)
(1 धर्मः--) यागः स्वर्गोत्पादनसमर्थावान्तरव्यापारकः, अन्यथा यागस्वर्गयोः साध्यसाधनभावस्य प्रतीतस्यानिर्वाहात् ।
प्रतीयते च कामनाविषयत्वेन साध्यत्वं स्वर्गस्य, विधिबलाद्यागस्य साधनत्वेनानुष्ठेयत्वम् ।
न च वाच्यं साध्यसाधनभावः क्षणिकस्य यागस्य कालान्तरभाविनि स्वर्गे विनावान्तरव्यापारं उपपद्यते इति मध्ये ऽपूर्वसिद्धिः ।
अपरे च यागस्वर्गयोः साध्यसाधनभावो नापूर्ववाक्यात्प्रतीयते, योग्यताविरहात् ।
अतो लिङेवापूर्वमभिधत्ते, व्युत्पत्तिस्तु लोकवेदाभ्याम् ।
लोके ऽपि क्रियाकार्ये लिङ्प्रयोगदर्शनादिति ब्रुवते ।
तत्रान्यथाख्यातिपक्षे योग्यतामन्तरेणापि प्रतिपत्तेरभ्युपगमात् ।
कामाधिकारेषु फलं प्रति कारणस्यैव सतस्तस्य नियोगं प्रति विषयत्वाभ्युपगमात् ।
अन्यथा नित्यकाम्यवैषम्यविगमः स्यात् ।
विहितभावार्थजात्यास्मदाद्यतीन्द्रियात्मगुणो धर्मः ।
(3 अधर्मः--) यो ब्राह्मणायावगुरेत्तं शतेन यातयात्ऽ (तै सं 2.6.10.2) इति शतयातनायाः साध्यत्वावगमात् ।
अवगूर्णस्य चिरातीतत्वे तत्साधनत्वं साक्षादनुपपन्नमित्यन्तरापूर्वेण भवितव्यम् ।
अधर्मत्वयोगादधर्मः ।
(24 शब्दस्य निरूपणम्--)
1 शब्दो गुणः, बाह्येन्द्रियाणां मध्ये अवयव्यग्राहकेणैव गृह्यमाणाया जातेरधिकरणत्वाद्गन्धवत् ।
यदि शब्दो द्रव्यं स्यात्, केनचिद्विशेषगुणेन भवितव्यम्, अन्यथा प्रत्यक्षत्वानुपपत्तेः, विशेषगुणप्रत्यक्षतानिबन्धनत्वाद्द्रव्यप्रत्यक्षतायाः ।
2 शब्दो द्रव्यं साक्षादिन्द्रियसम्बन्धेन गृह्यमाणत्वाद्घटवदिति चेत्, न, व्यर्थविशेषणत्वात् ।
न हि भेदाभेदवादिनां रूपादिभिर्व्यवहितः सम्बन्धो ऽस्ति ।
अथ स्वसम्बद्धेन्द्रियेण गृह्यमाणत्वादिति, तथापि वैयर्थ्यमिन्द्रियपदस्य ।
स्वपदस्य ग्राह्यपदस्य न व्यावर्तनमस्ति अद्रव्यस्य भवतां नये सम्बन्धानभ्युपगमात्, संयोगसम्बन्धयोः पर्यायत्वात्, अन्यत्रोपचरितत्वात् ।
अन्यथा योग्यतासम्बन्धलक्षणेन रूपस्यापि साक्षात्सम्बन्धेनावेद्यत्वेन व्यभिचारः ।
सम्बन्धित्वादिति प्रतिवाद्यनैकान्तिकम् ।
3 शब्दो गुणो न भवति, श्रावणत्वात्, शब्दत्ववदिति चेत्, न, अद्रव्यत्वेन ह्यस्य समानत्वात् ।
अनैकान्तिकश्च शब्दगतसंख्यायां भवतः ।
4 शब्दो गुणः, आत्मव्यतिरिक्तत्वे सति इन्द्रियाणां मध्ये नित्येनैवाध्यक्षीकृताया जातेरधिकरणत्वात्सुखवत् ।
अनित्यः शब्दः, इन्द्रियविशेषगुणत्वाच्चक्षुर्गतरूपवत् ।
न चाकाश एव वर्तमानत्वात्, तन्महत्ववदिति सत्प्रतिपक्षत्वम्, आकाशभागविनष्टघट इव स्वसंयोगे व्यभिचारात् ।
अनित्य शब्दः अरसत्वे सत्यवयव्यग्राहकेणैव गृह्यमाणजातेरधिकरणत्वाद्गन्धवदिति भाट्टं प्रति ।

यच्च नित्यः शब्द, आत्मविशेषगुणान्यत्वे सति इन्द्रियाणां मध्ये नित्येनैव गृह्यमाणत्वादिति, [तद्] दुःखाभावे ऽनैकान्तिकम् ।
सामान्यवत्त्वे सतीति विशेषणे ऽपि तथा, परमते तत्रापि जातेरभ्युपगमात् ।
यदाह-
यद्वानुवृत्तिव्यावृत्तिबुद्धिग्राह्यो यतस्त्वयम् ।
तस्माद्गवादिबद्धस्तु प्रमेयत्वाच्च गम्यताम् ॥
(श्लो वा अभाव 9) इति
प्रतिवाद्यनैकान्तिकं च, आकाशवायुसंयोगस्यापि योग्यताकरणग्राह्यस्य तथाभावात् ।
अस्मदादीति विशेषणे वैयर्थ्यात्, नादैश्च व्यभिचारात् ।
एवं व्यवस्थिते प्रत्यक्षेणापि साध्यते नष्टः शब्द इति प्रतीतेः ।
आकाशविशेषगुणः शब्दः ।
यदपरजातीयेन विना समवायिकारणत्वाभावः, स गुणः ।
केवलनिमित्तकारणे च वर्तमानापरजातीयत्वं वा ।
समवाय्यसमवायिकारणरहिते ऽपि वर्तमानापरजातीयत्वं वा ।
[कर्मपदार्थप्रकरणम्]
1) आद्यसंयोगाविभागावसमवायिकारणजौ, कार्यत्वाद्, घटवदिति कर्मसिद्धिः ।
तच्च प्रत्यक्षम्, प्रमेयत्वाद्, घटवत् ।
विमतिपदमिन्द्रियसंयोगव्यतिरिक्तं संयोगासमवायिकारणग्राहकम्, द्रव्यग्राहकेन्द्रियत्वात्, मनोवत् ।
कर्म, अप्रत्यक्षम्, कर्मत्वादिति दृष्टान्तासिद्धिः ।
अयोगीति विशेषणेन व्याप्त्यसिद्धिः, योग्यनभ्युपगमात् ।
तत्कारणादेव संयोगविभागसिद्धिः ।
कर्मासिद्धिप्रसङ्गश्च ।
2) तच्चानन्तापरजातीयम्, पतनोत्क्षेपणादिप्रत्ययानां तुल्यत्वात् ।
आद्यविभागासमवायिकारणजातीयं कर्म संयोगविभागयोरनपेक्षकारणत्वार्हं वा ।
एतेन विश्वस्माद्भेदग्राहिभ्यो गुणेभ्यो ऽपि भेदसिद्धिः कर्मणः ।
[सामान्यपदार्थप्रकरणम्]
यद्यप्येकाकारप्रत्ययस्य भिन्नेष्वेकनिमित्तमन्तरेणानुपपद्यमानत्वेन सामान्यसिद्धिरिति न युक्तम्, तथाविधदर्शने ऽपि विप्रतिपत्तेः ।
सति कल्पकस्य प्रामाण्ये ऽविवादात्तत्साधितमिति न युक्तम्, तद्वाधितमित्यस्यापि वक्तुं शक्यत्वात् ।
तथापि ---
कारणस्य हि सिद्धत्वाद्विकल्पस्यापि भेदतः ।
व्यावृत्तेरपि भिन्नत्वादन्योन्याश्रयदूषणात् ॥
तस्मादस्ति जातिः ।
(1 सत्ता--) विवादपदं द्रव्यं समानजातीयसमवायिकारणम्, समवायिकारणत्वात्, मृद्वत् ।
न च स्पर्शवत्त्वमुपाधिः, अन्त्यावयविनि तव व्यभिचारात् ।
अस्माकं तु व्याप्तिकाले सत्ताप्रतिपत्तौ चान्यत्रापि सिद्धिः, व्याप्तिविघटकत्वेन व्याप्तिकाले एवास्य दूषणत्वात् ।
व्याप्त्युत्तरकालभावितत्वात् पक्षादिव्यवस्थायाः ।
विहाय सत्तामन्त्यावयविषु साध्याभावे ऽप्युपाधेर्भावात् ।
(2 द्रव्यत्वम्--) विवादाध्यासितं रूपवृत्तिस्पर्शवज्जातिमत्, समवायिकारणत्वाद् घटवत् --- अत्र विप्रतिपत्तिविषयस्यैव तथाविधत्वान्न साध्ये विशेषणोपादानाद् दूषणम्, अन्यथा उद्घाटितमात्रमेव साधनीयम् ।
(3 पृथिवीत्वम्--) विवादाध्यासितमुदकावृत्तिजातिमद्, गन्धत्वाद्घटवत् ।
(4 जलत्वम्--) विवादाध्यासितं पृथिव्यवृत्तिजातिमद्, गुरुत्वाद्घटवत् ।
(5 तेजस्त्वम्--) विवादाध्यासितमनुष्णावृत्तिजातिमद्, उष्णत्वाद्दीपवत् ।

वाय्ववृत्तित्वसाधने रूपित्वादिति वाच्यम् ।
(6 वायुत्वं--) विवादाध्यासितमाकाशावृत्तिजातिमत्, स्पर्शत्वाद्घटवदिति ।
(7 आत्मत्वम्--) विप्रतिपन्नमाकाशावृत्तिजातिवद्, अश्रौत्रविशेषगुणाधारत्वाद्घटवत् ।
(8 मनस्त्वम्--) विवादपदमात्मावृत्तिजातिमद्, मूर्तत्वाद्घटवत् ।
(9 द्रव्यत्वादेः प्रत्यक्षत्वम्--) विवादपदं कर्मावृत्तिचाक्षुषजातिग्राहकम्, इन्द्रियत्वान्मनोवत् ।
(10 रूपत्वम्--) असमवायिकारणं पीतमपीतवृत्तिगन्धावृत्तिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति गन्धान्यत्वाद्घटवत् ।
(11 रूपत्वस्य प्रत्यक्षत्वम्--) विप्रतिपन्नं स्पर्शनेन्द्रियाग्राह्यजातिग्राहकम्, स्पर्शनव्यतिरिक्तेन्द्रियत्वान्मनोवत् ।
एवं रसत्वादेरपि प्रत्यक्षत्वं वाच्यम् ।
(12 नीलत्वम्--) नीलमनीलरूपावृत्तिजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यनीलव्यतिरिक्तत्वाद्घटवत् ।
एवं पीतत्वादिष्वपि वाच्यम् ।
(13 रसत्वम्--) रसः संयोगावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति संयोगान्यत्वाद्घटवत् ।
(14 मधुरत्वम्--) मधुरो ऽमधुररसावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यमधुररसव्यतिरिक्तत्वाद्घटवत् ।
एवं तिक्तत्वादिष्वपि वाच्यम् ।
(15 गन्धत्वम्--) गन्धो रूपावृत्तिजातिमान्, केवलनिमित्तकारणत्वे सति रूपान्यत्वाद्घटवत् ।
(16 सुरभित्वम्--) सुरभिरसुरभिगन्धावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यसुरभिगन्धान्यत्वाद्, घटवत् ।
(17 स्पर्शत्वम्--) स्पर्शो रसावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति रसान्यत्वाद्घटवत् ।
(18 शीतत्वम्--) शीतो ऽशीतस्पर्शावृत्तिजातिमान्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यस्पर्शान्यत्वाद्घटवत् ।
एवमशीतत्वादिष्वपि वाच्यम् ।
(19 संख्यात्वम्--) संख्या परिमाणावृत्तिजातिमती, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति परिमाणान्यत्वाद्, घटवत् ।
एवं द्वित्वादिष्वपि वाच्यम् ।
(20 परिमाणत्वम्--) असमवायिकारणं महत्त्वं संख्यावृत्तिमहत्त्वान्यपरिमाणवृत्तिजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति संख्याव्यतिरिक्तत्वात्, तद्वत् ।
(21 पृथक्त्वम्--) असमवायिकारणं पृथक्त्वं परिमाणवृत्त्येकपृथक्त्वव्यतिरिक्तवृत्तिजातिमत्, परिमाणव्यतिरिक्तत्वे सति केवलनिमित्तकारणव्यतिरिक्तकारणत्वात्तद्वत् ।
एवं चैकपृथक्त्वादिष्वपि वाच्यम् ।
न च तत्र सामान्यभावः, एकपृथक्त्वद्विपृथक्त्वशब्दानामन्यथोपपत्तावपि नियामकापरजातिमन्तरेण द्विपृथक्त्वोत्पत्तावेकपृथक्त्वस्य हेतुत्वानिर्णयात् ।
अन्वयव्यतिरेकव्यवस्थापकाभावात् ।
(22 संयोगत्वम्--) विप्रतिपन्नमसमवायिकारणं पृथक्त्वावृत्तिजातिमत् केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सति पृथक्त्वान्यत्वात्तद्वत् ।
(23 विभागत्वम्--) विभागः संयोगावृत्तिजातिमान्, संयोगव्यतिरिक्तत्वे सति द्वयासमवायिकारणत्वाद् द्वितन्तुकवत् ।
(24 परत्वम्--) परत्वं विभागावृत्तिजातिमत्, संयोगासमवायिकारणत्वात् ।
अपरत्वबुद्धित्वादिष्वप्येवं वाच्यम् ।
गुरुत्वद्रवत्वस्नेहसंस्कारेष्वपि प्राचीनमनुमानं वाच्यम् ।
(25 ब्राह्मणत्वस्य प्रत्यक्षत्वम्--) विवादाध्यासितं ब्राह्मणव्यतिरिक्तवर्णावृत्तिजातिग्राहकम्, इन्द्रियत्वात्, चक्षुर्वत् ।
(26 ब्राह्मणत्वम्--) ब्राह्मणो ऽब्राह्ममनुष्यानाधारजात्याधारः, अब्राह्मणमनुष्यव्यतिरिक्तत्वे सत्यवयवित्वाद्, गोवत् ।
विवादाध्यासितः शरीरसन्तानो ऽयोनिजः, शरीरसन्तानत्वाद्, गोमयजवृश्चिकशरीरसन्तानवदित्यनुमानेनाब्राह्मणपूर्वके क्वचिद् ब्राह्मणशब्दे प्राप्ते न ब्राह्मणजन्यशरीरनिबन्धनो ब्राह्मणशब्दः ।
एवं शूद्रत्वादिष्वप्यौपाधिकनिराकरणं वाच्यम् ।
(27 कर्मत्वम्--) उत्क्षेपणं गुणानाश्रयाक्षेपणत्वव्यतिरिक्तजातिमत्, केवलनिमित्तकारणव्यतिरिक्तकारणत्वे सत्यगुणत्वाद्घटवत् ।
नन्वत्र कर्ममात्रपक्षीकारे वाय्वादिषु व्यभिचारः, अविप्रतिपन्नानामपि पक्षीकारे कर्मत्वासिद्धिः, किन्त्वन्यदेव कर्मवाय्वोरनुगतं सामान्यं स्यात् ।
नैवम्, न ह्यत्र परममीषामेकजातीयत्वं साध्यते, किन्तु गुणानाश्रयोत्क्षेपणत्वव्यतिरिक्तजातिमात्रम् ।
या चैकानेकतातीतिज्यामानांतनिर्णयथा(?) ।
तत्राकाशवृत्तिजातिमत्वादिति साधनैरतिरिक्तजातिप्रसक्तौ तद्विषयत्वेनाप्यस्य निर्वाहात्, न वाय्वादिष्वतिरिक्तानुगमे प्रमाणमस्ति ।
कर्मणि त्वनेन साध्यमानं न कर्मत्वादतिरिच्यते ।

गुणावृत्तित्वे सति सकलकर्मवृत्त्युत्क्षेपणत्वव्यतिरिक्तत्वस्य वा तत्त्वात् ।
तथाविधस्यात्र प्रतीतेः केवलकर्मत्वसाधनस्यात्र वाय्वादावनैकान्तिकत्वपरिहारार्थं विप्रतिपन्नपदोपादानम् ।
वाय्वादिगतं मानान्तरोपनीतं भेदमवगाहते ऽतो न कर्मत्वासिद्धिः ।
परन्तु वाय्वादौ प्रश्नः स्यात् ।
कथकानां कथान्तरहेत्वन्तराण्यप्यनुसन्धेयानि ।
एवं रूपत्वादिष्वप्यनुसन्धेयम् ।
तस्मादभिप्रेतसंसिद्धौ पीतापीतादिसमवेतत्वे सति गन्धावृत्तित्वमिति रूपत्वमित्यलम् ।
नित्यत्वे सत्यनेकसमवेतं सामान्यम् ।
[विशेषपदार्थप्रकरणम्]
विवादपदं गुणसामान्यव्यतिरिक्तसमवायि, द्रव्यत्वाद्घटवत् ।
निःसामान्य एकेनैकसमवायी विशेषः ।
[समवायस्य निरूपणम्]
विवादास्पदं घटसम्बद्धम्, द्रव्यत्वादात्मवत् ।
विवादास्पदं नित्यसंबन्धेन सम्बद्धं, द्रव्यत्वादाकाशवत् ।
आकाशशब्दयोश्च नित्यसम्बन्धो भाट्टैरभ्युपगम्यते, अतो न साध्यविकलता तत्र संयोगसमवायमात्रे विप्रत्तिपत्तिर्न धर्मिणि ।
अपरे तु संयोगः स्वव्यतिरिक्तसम्बन्धाद्भिन्नः, मेयत्वादिति ब्रुवते ।
कः पुनरत्रानुकूलतर्कः? [न तावत्] समानाधिकरणप्रतीत्यनुपपत्तिः, सा हि न सम्बन्धमात्रे, नाप्यसति सम्बन्धे रज्जुघटयोर्हिमवद्विन्ध्ययोश्च तदभावात् ।
भेदाभेदनिबन्धनासाविति चेत्, अस्ति तावद्भेदः सम्प्रतिपन्नो घटरूपयोः, अभेदः पुनः कः स्यात्? भेदाभावः, तद्विरोधस्तदन्यो वा? न तावत् प्रथमः, विरोधात् ।
न द्वितीयः, आश्रयकृतः स्वरूपकृतः कार्यकृतो वा विरोधः स्यात्, सर्वथा तद्विरोधानुवृत्तेः ।
द्वितीये तु तदेवास्तु किमनेन प्रथमेन? तृतीयः, समवायेनानतिरेकान्नास्ति तत्र विप्रतिपत्तिः ।
घटरूपयोरितरेतराभावो नास्तीति चेत्, भेदो ऽस्ति, इतरेतराभावो नास्तीति व्याहतम्, तयोः पर्यायत्वात् ।
स्वरूपं भेदश्चेत्, तर्हि तत्प्रतीतेः प्रतियोगिसापेक्षत्वं दुर्घटम् ।
न च प्रथमद्वितीयौ, घटरूपयोरुभयोरभावप्रसङ्गात् ।
नापि चरमः, तयोर्हि कार्यं प्रतिपत्तिः स्यात्, तद्व्यतिरिक्तं वा किञ्चित्? तत्रैव स्थितिरितरप्रतिविरोधिनी तदतिरिक्तापेक्षिणी वा? प्रथमे न कदाचिदपि तयोः प्रतिपत्तिः स्यात्, सर्वदा तद्विरोधानुवृत्तेः ।
द्वितीये तु तावदेवास्तु किमनेन? तृतीये सविदां जन्मैव दुर्घटम् ।
यद्यस्माद्भिन्नशब्दवाच्यम्, तत्तदपेक्षया भिन्नम्, यथा घटापेक्षया घटगतं रूपमिति ।
विवादाध्यासिताः शब्दा आकाशसमवायेनैव समवायिनः, समवायित्वात्, शब्दाकाशवत् ।
न च समवायस्यैकत्वे वस्तुसङ्करप्रसङ्गः, तस्य समस्तविश्वासंकरत्वेनैव परिकल्पितत्वात् ।
न हि तस्याप्रत्यक्षस्य पूर्वं स्वभावो निर्धारितः ।
एकस्य भिन्नस्वभावत्वे ऽन्य इति चेत्, न, चित्ररूपवत्तथाविधस्यैकस्वभावात् ।
एवं च कल्पनालाघवात्समवायस्य नियत्वं क्वचित्परेणाभ्युपगमात् ।
तस्मात्तत्समवायस्य नित्यत्वम्, एकत्वस्य साधितत्वात् ।
समवायो ऽस्मदादिप्रत्यक्षो न भवति, अस्मादादिप्रत्यक्षाप्रत्यक्षसम्बन्धत्वाद्, घटाकाशसम्बन्धवत् ।
नित्यसम्बन्धः समवायः ।
इहप्रत्ययविषयीभावः ।
[अभावपदार्थप्रकरणम्]
यदि नास्तीति प्रत्ययवेद्यमानो ऽपि त्वया नेष्ट इति वक्तुं नोचितम् ।
केवलज्ञानं चास्माभिरभ्युपगतमिति, तदपि विकल्प्य दूषणीयम् ।
पतनादिकार्यं प्रतिबन्धकाभावोत्पादककारणादेवोत्पाद्यते कार्यत्वाद्दाहादिवत् ।
अघटं भूतलमिति व्यवहारो भूतलातिरिक्तविषयः, भूतलमात्रव्यवहारातिरिक्तत्वे सति भूतलव्यवहारत्वादिति मानं भूतलमिति व्यवहारेणानैकान्तिकम् ।

तथाप्यभावो ऽभ्युपगन्तव्यः केवलज्ञानाभावे ऽप्यभावव्यहारदर्शनात् ।
भवति हि घटतद्रूपयोः सहोपलम्भे ऽपि रूपं घटो न भवतीति भिन्नश्चोत्पादव्यवहारः, न च तत्र केवलज्ञानमस्ति ।
आधाराग्रहणे ऽपि सर्वेषामन्तराले आलोकाभावव्यवहारात् ।
करपरामर्शेणान्धकारे ऽन्धस्यापि मूर्ताभावव्यवहारदर्शनात् ।
किञ्च चक्षुश्चक्षुर्ग्राह्यभावव्यतिरिक्तग्राहकम्, इन्द्रियत्वात् ।
स चतुर्विधः, प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावभेदात् ।
प्रतियोगिभेदाद्भिन्नत्वमभावस्य, तादात्म्यसंसृष्टपूर्वापरसंसृष्टानां प्रतियोगित्वात् ।
अन्यथा प्रतिबन्धकाभावस्य कारणत्वं दुर्घटम् ।
अत्यन्ताभावस्यापीतरेतराभावे ऽन्तर्भावात् ।
तस्य च सत्यपि प्रतिबन्धे भावाद्व्यभिचारः ।
समवायान्यो ऽसमवाय्यभावः ।
[पदार्थान्तरनिराकरणम्]
(1 शक्तेः पदार्थान्तरत्वनिरासः--) शक्तिरपि पदार्थान्तरमस्तीति चेत्, न, तत्सद्भावे प्रमाणाभावात् ।
स्फोटानुपपत्तिरिति चेत्, न, प्रतिबन्धाभावेनाप्युपपत्तेः ।
तत्र च प्रागभावादिविकल्पाः योग्यतानुपलब्धिसामान्येन परिहर्तव्याः ।
कार्यलक्षणाभ्युपगमेनोत्तम्भकमन्त्रस्य स्फोटोत्पत्तावपि नानियतहेतुत्वम् ।
ब्रीहीन् प्रोक्षतीति द्वितीयायाश्च न तत्समवेतसंस्कारवाचकत्वं क्रियाजन्यफलभागित्वं च न तत्समवायिनमाक्षिपति, किन्तु तादर्थ्यमात्रम् ।
अन्यथोपयुक्तानां प्रस्तरादीनां होमेनोत्पाद्यमानः संस्कारो न तेषां स्यात्, तेषां विनष्टत्वात् ।
न च तत्र संस्कार्यत्वं नास्ति, ``भूतभाव्युपयोगं च द्रव्यं संस्कारमर्हतिऽऽ इति न्यायात् ।
तत्र च निराश्रयस्य संस्कारस्यावस्थानानुपपत्तेरात्माश्रयत्वं कल्पनीयम् ।
तद्वदितरत्रापि भवतु, को दोषः?
(2 ज्ञाततायाः पदार्थान्तरत्वनिरासः--) घटमहं जानामीत्यत्र प्राभाकराणां नये ज्ञानजनितफलस्य घटे कस्यचिदभावात् तत्र कथं कर्मत्वमिति चिन्त्यम् ।
अत एव भाट्टैर्ज्ञातता ऽभ्युपगम्यते इति चेत्, तेषामप्यतीतानागतेषु का वार्त्ता? तत्रापि जातेरनुवर्तमानत्वाददोष इति चेत्, कथं तर्हि व्यक्तौ ज्ञातत्वम्? तयोरभेदादिति चेत्, न, भेदस्यापि विद्यमानत्वात् ।
भेदे ऽप्यदोष इति चेत्, न, रसनेन रसज्ञानमात्रेणैव तदाश्रयस्यापि ज्ञातत्वप्रसङ्गात् ।
सत्ताज्ञानत्वमात्रेणैव जात्यन्धस्यापि रूपज्ञानप्रसङ्गः ।
ज्ञाततानभ्युपगमात् कथं ज्ञानस्य विषयनियम इति चेत्, ज्ञातताया एव कथमाश्रयनियमः? कारणमहिम्नेति चेत्, समः समाधिः ।
(3 विशिष्टतयाः पदार्थान्तरतानिरासः--) एतेन विशिष्टतापि निराकृता, तदुत्पादकसामग्र्या एव विजातीयज्ञानोत्पत्तावप्युपपत्तेः ।
न च विषयवैलक्षण्याभावे वैजात्यं दुर्घटम्, अनुभवस्मृत्योरवैजात्यप्रसङ्गात्, अधिकविषयत्वे स्मृतेरपि प्रमाणत्वप्रसङ्गात् ।
अन्याया विशिष्टताया अतीतानागतेष्ववस्थनं दुर्घटम्, आश्रयाभावात् ।
(4 विषयीभावस्य पदार्थान्तरनिरासः--) एतेन विषयीभावरूपः सम्बन्धो निरस्तः, तन्नियामकेनैव ज्ञानार्थयोर्नियमोपपत्तेः ।
एवं सान्निध्यादयो ऽपि निराकर्तव्याः ।
(5 सादृश्यस्य पदार्थान्तरत्वनिरासः--) अस्तु तर्हि सादृश्यं पदार्थान्तरमिति चेत्, न, मानाभावात् ।
न च व्यवहारो मानम्, तस्य सामान्यादिसम्बन्धत्वेनाप्युपपत्तेः ।
कथं तर्हि सामान्ये सादृश्यव्यवहारः, कुतः श्येनचितं चिन्वीत (तै सं 5.4.11) इत्यत्रातिदेशनम्? तत्रापि व्यक्तिसादृश्यस्यैव प्रतीतेः ।
व्यक्तेश्च शब्दार्थत्वात्, श्येनत्वैकार्थसमवेतद्वित्रधर्मवतो ऽनुष्ठानस्य सम्भवात् ।
संकेतग्रहस्यौपाधिकशब्दवदुपपत्तेः ।
(6 प्रधानस्य पदार्थान्तरत्वप्रत्याख्यानम्--) एवं प्रधानादयो ऽपि निराकार्याः, साधकाभावात् ।
न च विवादपदं साक्षात्परम्परया वा प्रकृतिजन्यम्, कार्यत्वादित्यवीतमिति वाच्यम्, व्यप्त्यसिद्धेः ।
न च सुखदुःखमोहाः कारणपूर्वकाः, कार्यत्वादिति साम्प्रतम्, संयोगादिषु व्यभिचारात् ।
न च सदुत्पत्तिपर्यालोचनया तत्सिद्धः, तत्रैव विवादात् ।

न च तदर्थमुपादीयमानत्वात् तत्र सत्त्वम्, निमित्तकारणे व्यभिचारात् ।
न च सति कारणव्यापारः असार्थकत्वादिति जातिनियमज्ञेन व्यवस्था घटते ।
येनैव प्रमाणेन घटभावसिद्धिस्तेनैव प्रमाणेन योग्यानुपलब्ध्या पटोत्पत्तेः पूर्वं तन्तुष्वपि पटाभावसिद्धिः ।
अयोग्यत्वेनानुपलब्धिशङ्कायामितरत्रापि सम्भावनां को निवारयेत्? कार्यापेक्षया चरमसहकारिकारणादुत्पत्तिरिति नानवस्थादूषणम्, मूलक्षतेरभावात् ।
नापि पुनरुक्तत्वविरोधो घटादिभिस्तस्याश्चोत्पत्तेरभ्युपगमात् ।
अभिव्यक्ते तु सर्वासामभिव्यक्तीनां सदातनत्वाद् दृष्टादृष्टव्यास्थादौःस्थ्यम् ।
किं बहुना ``परस्परविरोधे हि न प्रकारान्तरस्थितिःऽऽ इति न्यायात् पदार्थान्तराणां न सम्भवः, सप्तलक्षणानां परस्परविरोधादिति ।
[मोक्षप्रकरणम्]
तत्र हि द्रव्यादिनां हेयोपादेयस्वरूपेण ज्ञाने सति संसारस्य दुःखभूयस्त्वं पश्यतः सुखमपि दुःखानुषङ्गाद्दुःखपक्षे निक्षिप्तम् ।
उपनिषदा च ज्ञातजीवात्मब्रह्मणो वैशेषिकोक्तदृशा भगवद्भक्तिमनस्कस्य सद्गुरुकटाक्षपातक्षीणान्तरायस्य परमेश्वरसाक्षात्कारकुतूहलिनो ऽहोरात्रं निदिध्यासनमाचरतो ऽनन्तकालक्रमेण परिपक्वज्ञानस्य प्रकृष्टयोगजधर्मशालिनः कथञ्चित्साक्षात्कृतपरमेश्वरस्य प्रवृद्धप्रतिपक्षनिरवकाशीकृतमिथ्याज्ञानस्य कारणाभावादपगतरागद्वेषप्रवृत्तिसम्भावनस्याशेषदुःखाभावात् स्वेन रूपेणावस्थानं भवति ।
स चायं मोक्ष इति मनीषिभिरुदाह्रियते ।
न च सुखस्याप्यभावादप्रवृत्तिः, भवतामपि सुखस्याप्रवृत्तिकरत्वात् ।
न हि तत्साध्यम्, नित्यत्वव्याघातात् ।
न हि सिद्धार्थे कश्चित्प्रयतते इति भवतामपि अविद्यानिवृत्तिरेव कृतिसाध्या, ततश्च तदेव प्रयोजनं यथाह- ``यमर्थमधिकृत्य प्रवर्तते, तत् प्रयोजनम्ऽऽ (न्या सू 1.1.24) ।
``आनन्दं ब्रह्मणो रूपं तच्च मोक्षे ऽभिव्यज्यतेऽऽ इति सन्तोषजसुखभिप्रायेण गौण्या वृत्त्या दुःखाभावाभिप्रायेण वा कथंचिद्गुणवाद इति, ``अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽऽ (छा उ 8.12.1) इति वचनात् ।
न च सांसारिकसुखाभिप्रायेण तत्, सांसारिकसुखस्यापि ब्रह्मसुखानतिरिक्तत्वात् ।
स्वयम्प्रकाशत्वे च स्वस्य मुक्तिसंसारयोरविशेषप्रसङ्गात् ।
अत्र केचित्-- दुःखपरिहारार्थं ज्ञानसुखयोः पूर्वं विषयविषयिभावो ऽनुपपन्नः पश्चादुत्पाद्य इति ब्रूयुः ।
तदसाम्प्रतम्, तत्सद्भावे प्रमाणाभावात् ।
यस्य लोके ऽप्रसिद्धिः, तस्य प्रयोजकत्वमित्यपि दुर्घटमेव ।
नेह ज्ञानमस्ति, विषयविषयिभावो नास्तीति दृष्टपूर्वम्, ज्ञानस्य वाक्येनोत्पादकसामग्र्या एव वा तदुत्पादकत्वात् ।
प्रधानादिनिरासेनैव तदुक्तमोक्षस्यापि भङ्गो वेदितव्यः ।
विमतं कदाचिद्विशेषगुणरहितम्, विज्ञानासमवायिकारणाधारत्वादनित्यविशेषगुणाधारत्वान्मनोवद्व्योमवच्च ।
न च जीवा नित्यज्ञाना आत्मवदीश्वरवदिति साम्प्रतम्, ईश्वरस्वरूपस्यैवोपाधेः ।
पिण्डव्यभिचाराभावात् ।
न च नित्यविशेषगुणाधारा इति साध्यर्थः, अपार्थिवद्व्यणुकारम्भकत्वे सति विशेषगुणवत्त्वोपाधेः ।
विशेषणाभावाद्भवतां पुनर्विशेषगुणरहितत्वात् ।
सुखत्वं नित्यसमवेतम्, तज्जातित्वादिति तु तद्गतनिकर्षत्वेन व्यभिचरतात्यलमतिप्रसङ्गेन ।
नमस्त्रिपथगाक्रान्तजटाजूटाय शम्भवे ।
नमस्ते जगदुत्पत्तिस्थितिध्वंसविधायिने ॥
इति श्रीवादिवागीश्वराचार्यविरचितः
मानमनोहरः समाप्तः ॥

मूल पाठ: Mānamanohara · Edition: Swami Yogindrananda, 1973 Varanasi : Ṣaḍdarśanaprakāśana pratiṣṭhāna · Data entry Diwakar Acharya with assistance from Raju Rimal · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc