भाषा

ENहिગુ
ग्रंथ पाठ

मानमनोहर · भाग 120

वादिवागीश्वर: मानमनोहर
नमस्तस्यै महाभूतबद्धान् अमृतसेवनात् ।
मोचयत्यकुलस्थापि या शक्तिश्चित्स्वरूपिणी ॥ 1 ॥
वागीश्वराचार्यसुतेन वादिवागीश्वरेण क्रियते गभीरः ।
कथासु गर्जत्प्रतिवादिगर्वप्रशान्तये मानमनोहरो ऽयम् ॥ 2 ॥
सिद्धिप्रकरणम्
[ईश्वरसिद्धिः]
1) विवादाध्यासितं कर्म प्रयत्नाधारजं कर्मत्वात्, यत्कर्म तत् प्रयत्नाधारजं यथा - सम्प्रतिपन्नं कर्म, तथा विवादाध्यासितं कर्म, तस्मात्प्रयत्नाधारजम् ।
2) विवादाध्यासितं मूर्तं प्रयत्नाधारजम्, परमाणुव्यतिरिक्तत्वे सति मूर्तत्वात् ।
3) गन्धः प्रयत्नजः, गन्धत्वात्, घटवत्तद्गतगन्धवच्च ।
न च शरीरिणाजन्यत्वादित्यनेन प्रकरणसमत्वम्, नापि तज्जन्यत्वमुपाधिः, अकार्यत्वस्योप्राधेः, व्यर्थविशेषणत्वाच्च ।
एतेन व्याप्तिदर्शनकाले कर्मत्वकार्यत्वादेरङ्करतज्जननादौ केवलस्यापि दर्शनाद् व्याप्तनिश्चय इति पराकृतम्, उपाधिसद्भावस्या ऽनिरूपितत्वात् ।
यावदुपाधिर्न निरूप्यते, तावदेकस्मिन्नपि पिण्डेनयोः सम्बन्धनियमे प्रयोजकत्वं वाच्यम् ।
अन्याप्रयुक्तसम्बन्धस्यापि साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात्, निरूपाधिकसम्बन्धत्वाच्च व्याप्तेः ।
4) किं च विवाध्यासिते पृथिव्युदके प्रयत्नवता घृते, गुरुत्वे सत्यपातित्वात् करतलामलकवत् ।
5) ईश्वरज्ञानं नित्यम्, द्विष्ठव्यतिरिक्तत्वे सति ईश्वरनिष्ठत्वात्, तद्गतमहत्ववत् ।
न च ज्ञानत्वादित्यनेन प्रकरणसमत्वम्, कारणसद्भावस्योपाधेः ।
तस्यापि साधने बाधः --- न हि द्रष्टुर्द्दष्टेर्विपरिलोपो विद्यते (बृह 4.3.23) इत्यागमबाधः ।
अन्यथा जलपरमाणुरूपमनित्यम्, रूपत्वादित्यपि स्यात् ।
न च तत्रापि कारणसद्भाव उपाधिः, तस्यापि साधनाद्बाधाया अभावात् ।
6) विवादाध्यासितम् नित्यविशेषगुणाधारजम् कार्यत्वादाप्यद्वय्णुकवत् ।
यश्च नित्यविशेषगुणाधारः, स एवेश्वरः ।
7) बौद्धं प्रति ईश्वरसाधनम् --- विवादाध्यासितो विकल्पः तदतिरिक्ते प्रमा, प्रमात्वात्, निर्विकल्पकप्रमावत् ।
न चाश्रयासिद्धिस्वरूपासिद्धी, ईश्वरादिषु भक्तानां तद्धेतुल्यादिकल्पना ।
वासनामात्रभाविन्यो जायन्ते विविधाः स्फुटम् ॥
(त सं 282) इति त्वयैवाभ्युपगतेः, मम सुतरामिष्टत्वात्, त्वन्मते स्वप्रकाशत्वेन सर्वज्ञानानां प्रमात्वात्, मम तु प्रकृते ऽविप्रतिपत्तेश्च ।
8) एतज्ज्ञानम्, एतदुत्पादकानित्यव्यतिरिक्तज्ञानजम्, कार्यत्वात्, सम्प्रतिपन्नवत् ।
न चात्रैतद्व्यतिरिक्तत्वमुपाधिः, तव व्यर्थविशेषणत्वात्, मम नित्येष्वपि सम्भवात् ।
कार्यत्वे सतीति विशेषणे पूर्वदोषानुषङ्गः ।
नित्यज्ञानाधार ईश्वर इतीश्वरलक्षणम् ।
तदेवं कार्यत्वादिभिर्हेतुभिः सिद्ध ईश्वरः ॥
[अवयविसिद्धिः]
1) सविकल्पकं सविकल्पकव्यतिरिक्ते प्रमा, प्रमात्वात्, निर्विकल्पकप्रमावत् ।
2) एतत्कार्यम्, एतदुत्पादकज्ञानव्यतिरिक्तजन्यम्, कार्यत्वात् ।
3) निर्विकल्पकम्, निर्विकल्पकोत्पादकज्ञानव्यतिरिक्तजन्यम्, कार्यत्वाद्, ज्ञानान्तरवत्, सविकल्पकवच्च ।
न च निर्विकल्पकत्वमुपाधिः वैयर्थाद्विशेषणस्य ।
यत्प्रकाशते तज्ज्ञानम्, यथा सम्प्रतिपन्नम् ।
प्रकाशते विवादपदमिति नात्र प्रकरणसमत्वम्, उभयवादिसिद्धाश्रयस्य दुर्निरूपत्वात् ।
एतेन वस्तुत्वादयो निरस्ताः ।
विमतं ज्ञानात्मकम्, वस्तुत्वात् सत्त्वात्, सम्प्रतिपन्नवदिति ।

4) स्थूलविकल्पो बाह्ये ऽर्थे प्रमा, प्रमात्वाद्, रूपदर्शनवदित्यवयविसिद्धिः ।
न च वृत्तिविकल्पादिबाधितत्वाद्युत्थानम्, तेषामेव प्रत्यक्षबाधितत्वात् ।
इन्द्रियं द्रव्यग्राहकं न भवति, इन्द्रियत्वाद्, रसनवदिति तु व्याप्त्यसिद्धिस्वरूपासिद्धिदृष्टान्तासिद्धिदुष्टत्वादसाधनम् ।
प्रतियोगिनो ऽज्ञाने व्यतिरेकस्य ज्ञातुमशक्यत्वाद् इन्द्रियस्वरूपस्य द्रव्यविशेषणत्वाच्च ।
अपरे तु गन्धो ऽगन्धोपादानः, कार्यत्वाद्रूपवदित्यवयविसिद्धिं ब्रुवते ।
तत्र चोपादानशब्दस्य समवायिकारणवाचकत्वे दृष्टान्ताभावः, सजातीयमात्रवाचकत्वे सिद्धसाधनता, अत्यन्तसजातीयवाचकत्वे प्रतिज्ञापदयोर्व्याघातः ।
कार्यत्वे सति स्पर्शवदवयवीत्यवयविलक्षणम् ।
[परमाणुसिद्धिः]
1) विवादाध्यासितो गन्ध एतद्गन्धकारणेन जन्यते गन्धत्वात्, कार्यत्वादेतद्वत् ।
न च पिण्डस्येवोपाधित्वम्, तत्समानक्षणानां रूपादीनामपि तथाभावप्रसङ्गात् ।
2) विप्रतिपन्नं कार्यम्, एतन्नीलकारणजम्, कार्यत्वात्, गृह्यमाणनीलवत् ।
न चानुग्राहकतर्काभावः, अन्ते ऽपि स्थिरपदार्थानभ्युपगमे कार्यकारणभावनिर्वाहात्, अन्वयव्यतिरेकप्रयोजकाभावात् ।
कल्पनया तत्सिद्ध्यभ्युपगमे वस्तुनो ऽसत्त्वेन तन्मूलस्य कार्यकारणभावस्यासत्त्वप्राप्तौ विश्वासत्त्वप्रसङ्गः ।
अर्थक्रियाकारित्वस्य सत्त्वात्समर्थस्य क्षेपायोगादित्यादि सहकारिसदसद्भावप्रयुक्तत्वेन परिहरणीयम् ।
सहकारिणामेव हेतुत्वमस्त्विति (चेन्न) तेषामेव चरमत्वनियमे तदुपयोगः स्यात् ।
अत्यन्ततन्तुसंयोगादिष्वप्यवच्छेदकत्वेन तन्तूनामुपयोगात् ।
तेषां चानियामकत्वे ऽन्यत्रापि पटोत्पत्तिप्रसङ्गः ।
क्रमेण कार्यकरणार्हं स्थिरं तद्विपरीतं क्षणिकमिति विप्रतिपत्तेर्विषय उद्घाटनीयः ।
3) विवादाध्यासिता गन्धादयः पृथिव्यारम्भका न संभवन्ति, संयोगव्यतिरिक्तत्वे सति भूतगुणत्वाद्, विभागवत् ।
रस उदकारम्भको न भवति, रूपं तेज आरम्भकं न भवति, स्पर्शो वायुजनको न भवति, शब्दो द्रव्यारम्भको न भवति, भूतविशेषणगुणत्त्वाद्बाह्यैकैकेन्द्रियग्राह्यगुणत्वाद्वा गन्धवत् ।
न चात्रौपाधिकशङ्का ऽप्यस्ति गन्धत्वस्य, तस्याभावे ऽपि गुरुत्वादिषु साध्यस्य दर्शनात् ।
न च शब्दव्यतिरिक्तमुपाधि चरमस्यानुमानस्य, नापि प्रथमस्य रसव्यतिरिक्तत्वं प्रयोजकम्, तद्व्यतिरिक्तस्यापि संयोगादेरुदकारम्भकत्वदर्शनात् ।
एतेन मध्यमयोरुपाधिशङ्का निराकृता ।
अतो गन्धादिव्यतिरिक्तोपादानसिद्धिः ।
4) विवादाध्यासितं कार्यं समवायिकारणकं भावकार्यत्वाद्घटवत् ।
न च व्यर्थविशेषणत्वम्, कार्यत्वमात्रस्य ध्वंसादिषु व्यभिचारात् ।
5) विवादाध्यासितं कार्यं समवायिकारणकं कार्यत्वात्, महामूर्तत्वाद्वाघटवदिति केचित् ।
विवादाध्यासितं कार्यं महत्, समवायिकारणत्वादिति ब्रुवते ।
तैस्तु योगिप्रत्यक्षं समधिगम्य परमाणुष्वनैकान्तिकत्वपरिहारार्थमस्मदादीति विशेषणीयम् ।
तथा च व्यर्थविशेषणत्वम्, प्रतिवादिनो व्यावृत्त्यभावात्, मनसि व्यभिचारश्च ।
तस्मात् त्र्यणुकपरमाणुसिद्धिः ।
कार्यद्रव्याजन्यं मूर्त्तमणुः ।
नित्यो मूर्त्तः परमाणुः ।
[द्रव्यप्रकरणम्]
[पृथिव्या निरूपणम्]
1) विवादाध्यासितं पृथिवीसमवायिकारणकम्, कार्यत्वे सति गन्धत्वात्, सम्प्रतिपन्नवत् ।
न च सोपाधिकत्वं स्यात्, महापृथिवीत्वस्य रूपादौ साध्याव्यापकत्वात् ।
नित्यमूर्त्तारम्भातिरिक्तत्वे सति कार्यत्वस्योदकादिष्वपि सम्भवात् ।
पार्थिवत्वेन विशेषणे विशेष्यवैयर्थ्यात् ।
निरुपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् ।

तस्मात्पार्थिवेन परमाणुना पार्थिवमेवारभ्यत इति नियमः ।
नित्यत्वे सति गन्धवान् पार्थिवः परमाणुरिति पार्थिवपरमाणुलक्षणम् ।
2) देवशरीरमयोनिजं न भवति, शरीरत्वादित्यनैकान्तिकं शलभादिशरीरे ।
विशिष्टसंस्थानवत्वमपि तस्यासिद्धम्, त्रिनयनसहस्राक्षचतुर्भुजादिभेदभिन्नत्वात् ।
विवादाध्यासितः शरीरसन्तानो ऽयोनिजशरीरकः, शरीरसन्तानत्वाद्, गोमयजनितवृश्चिकशरीरसन्तानवत् ।
न चानुकूलतर्कचिन्ता कार्या, अन्यथागमार्थस्यैवानुपपत्तिप्रसङ्गात् ।
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् (ऋ सं 10.121.1) इति श्रुतेः ।
गन्धवच्छरीरं पार्थिवम् ।
3) गन्धोपलब्धिः करणजन्या, कार्यत्वात्, कुंकुमगन्धाभिव्यञ्जकघृतवत् ।
गन्धवदिन्द्रियं घ्राणम् ।
गन्धवती पृथिवी ।
रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती पृथिवी ।
[उदकस्य निरूपणम् --]
उदकत्वसामान्यं शरीरसमवेतं परमाणुजातित्वात्, सत्तावत् ।
विप्रतिपन्नाः परमाणवः परम्परया शरीरारम्भकाः, गुरुपरमाणुत्वात् ।
न च पार्थिवपरमाणुत्वमुपाधिः, तदभावे ऽपि साध्यस्यानुगमदर्शनेन द्व्यणुकादिषु समव्याप्तिकत्वाभावात् ।
अदृष्टविशेषाकृष्टत्वमेव तत्रापि प्रयोजकमित्यन्ये ।
तञ्च पूर्वानुमानेन साधयितुं शक्यते इति न कश्चिद् दोषः ।
शीतस्पर्शवच्छरीरमाप्यम् ।
रसोपलब्धिः करणजन्या, कार्यत्वाद्गन्धोपलब्धिवत् ।
रसनमाप्यम्, रूपरसयोर्मध्ये रसस्यैवाभिव्यञ्जकत्वाल्लालावत् ।
शीतस्पर्शवदिन्द्रियं रसनम् ।
स्नेहवद् द्रव्यमुदकम् ।
रूपरसस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वस्नेहसंस्कारवदुदकम् ।
[तेजसो निरूपणम् --]
1) विवादाध्यासिताः परमाणवः परम्परया शरीरारम्भकाः, रूपिपरमाणुत्वात्, पार्थिवपरमाणुवत् ।
न चापार्थिवपरमाणुत्वादित्यनेन मनःपरमाणुवत्प्रकरणसमत्वम्, सो ऽग्नेर्देवयोन्या आहुतिभ्यः सम्बूय हिरण्यशरीर ऊर्ध्वं स्वर्गलोकमेतीत्यागमबाधात् ।
न च विशिष्टादृष्टाकृष्टत्वमुपाधिः साधनव्यापकत्वात् ।
उष्णस्पर्शवच्छरीरं तैजसम् ।
2) रूपोपलब्धिः करणजन्या, कार्यत्वात् ।
चक्षुः तैजसम्, रूपरसयोर्मध्ये रूपस्यैव व्यञ्जकत्वादालोकवत् ।
उष्णमिन्द्रियं तैजसम् ।
3) विवादाध्यासिताः परमाणवो न पार्थिवाः, अत्यन्ताग्निसंयोगे भस्मानारम्भकत्वात्, जलपरमाणुवत् ।
विवादाध्यासितं तैजसम्, अशीतत्वे सति अपाकजरूपाधारपरमाणुजन्यद्रव्यत्वात्, सम्प्रतिपन्नाग्निवत् ।
उष्णस्पर्शवत्तेजः ।
रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत्तेजः ॥
इति च तेजः ॥
[वायोर्निरूपणम् --]
1) विवादाध्यासिताः (वायवीयाः) परमाणवः परम्परया शरीरारम्भकाः, स्पर्शवत्परमाणुत्वात्, सम्प्रतिपन्नपरमाणुवत् ।
अरूपं शरीरं वायवीयम्, मूर्तत्वे सति त्वगिन्द्रियान्यत्वे च सति व्याप्त्या त्वगिन्द्रियसंयोगाधारः शरीरम् ।

2) स्पर्शोपलब्धिः करणजन्या कार्यत्वाद्रूपोपलब्धिवत् ।
स्पर्शनंवायवीयम्, रूपस्पर्शयोर्मध्ये स्पर्शस्यैवाभिव्यञ्जकद्रव्यत्वाद्, व्यजनानिलवत् ।
अरूपावयवीन्द्रियं स्पर्शनम् ।
पूर्वेष्वत्र च शरीरेन्द्रियव्यतिरिक्तो ऽवयवी विषयः इत्यवगन्तव्यम् ।
3) वायुरस्मदादिप्रत्यक्षविषयो न भवति, वायुत्वात्परमाणुवायुवत् ।
न च परमाणुत्वमुपाधिः, वायुद्वयणुकादिषु साध्यस्याननुगमदर्शनात् ।
वायुरस्मदादिप्रत्यक्षविषयो न भवति, अरूपिद्रव्यत्वादाकाशवत् ।
न चास्पर्शवद्द्रव्यत्वमुपाधिः, साध्याव्यापकत्वात्तत्रैवाभावात् ।
न चोद्भूतस्पर्शाभावो महत्त्वे सति प्रयोजकः, वारिस्थिते तेजसि अभावात् ।
न च तस्यापि प्रत्यक्षत्वम्, उष्णं जलमिति विभ्रमानुपपत्तेः ।
4) स्पर्शनं नीरूपद्रव्यग्राहकं न भवति, बाह्येन्द्रित्वाच्चक्षुर्वत् ।
न च वायुरस्मदादिप्रत्यक्षः, अनुद्भूतरूपानधिकरणत्वे सति उद्भूतस्पर्शाधिकरणत्वाद्घटवदिति साम्प्रतम्, परमाणौ व्यभिचारात् ।
न च महत्त्वे सतीति विशेषणीयम्, प्रत्यक्षसामग्रीसद्भावस्योपाधेः ।
सा चानुविचार्यमाणा उद्भूतरूपस्पर्शमहत्त्वान्नातिरिच्यते ।
तस्यापि साधने ऽपसिद्धन्तः ।
तथा नास्मदादिबाह्येन्द्रियप्रत्यक्षो वायुः, अस्मदाद्यप्रत्यक्षसंख्याधिकरणत्वान्नभोवत् ।
अन्यथा तस्यापि बाह्येन्द्रियप्रत्यक्षत्वप्रसङ्गः, उभयोरपि समानसामग्रीग्राह्यत्वादिति ।
निरूपः स्पर्शवान् वायुः ।
स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवान् वायुः ॥
[आकाशस्य निरूपणम् --]
1) विवादाध्यासिता शब्दोपलब्धिः करणजन्या, कार्यत्वाद्रूपोपलब्धिवत् ।
तच्चेन्द्रियं बाह्यं बाह्यर्थप्रकाशकत्वाच्चक्षुर्वत् ।
शब्दः क्वचिदाश्रितः, गुणत्वाद्रूपवत् ।
शब्दाश्रय इतरेभ्यो भिद्यते, शब्दाश्रयत्वाद्व्यतिरेकेण रूपवत् ।
2) अन्ये तु शब्दो ऽष्टद्रव्यातिरिक्तद्रव्याश्रितः, तद्वृतौ बाधकोपपत्तौ गुणत्वाद्व्यतिरेकेण रूपवदिति ब्रुवते ।
तदसत्, व्याप्तसिद्धेः ।
व्यतिरेकस्याभावरूपत्वेन प्रतियोगिसाध्यज्ञानाधीनज्ञानत्वात्, तज्ज्ञाने ऽनुमानवैयर्थ्यात् ।
न च सर्वाविनाभावानामुच्छेदः, यत्र व्यतिरेकस्य भावरूपत्वं तत्रैतद्दोषस्याभावात् ।
आकाशगतमहत्त्वसपक्षस्यापि संभवान्न केवलव्यतिरेकित्वम् ।
साध्ये ऽष्टद्रव्यातिरिक्ताश्रितत्वमात्रप्रयोगे असाधारणत्वम्, रूपत्वादिसामान्यानामपि सपक्षत्वात्तेभ्यो हेतोर्व्यावृत्तेः ।
3) विप्रतिपन्नमचाक्षुषम्, अरूपिद्रव्यत्वात्, सर्वगतत्वात्, सर्वदा स्पर्शरहितद्रव्यत्वात्, नित्येन्द्रियत्वात्, आत्मवत् मनोवच्च ।
आकाशरूपम्, महत्त्वे सति रूपाजनकत्वात्, नित्यमहत्तात्, सर्वदास्पर्शरहितद्रव्यत्वाद् वायुवदात्मवच्च ।
विप्रतिपन्नं मूर्तमनेन संयुक्तं मुर्तत्वात्सम्प्रतिपन्नवत् ।
अनेनेति विप्रतिपन्नविषयाभिप्रायेण ।
4) आकाशं परिमाणवत्, संयोगित्वाद्घटवत् ।
न च क्रियावत्त्वमुपाधिः, अनुत्पन्नक्रियस्यापि कस्यचिन्नाशात् ।
तस्य तदाधारत्वयोग्यतां विहाय न किञ्चिदन्यदसर्वगतत्वादतिरिच्यते, तच्च परिमाणविशेषः ।
न च स्वात्मनि स्वस्योपाधित्वं, तदतिरिक्तसाध्याकारानभ्युपगमात् ।
असर्वगतत्वस्य रूपादिष्वपि संभवात्, द्रव्यत्वेन विशेषणे विशेष्यवैयर्थ्यात् ।
स्पर्शवत्त्वस्य प्रयोजक्त्वे मनसो ऽपरिमाणत्वप्रसङ्गः, मनसि च तदभावात् ।

तच्चाण्विति वक्ष्यामः ।
आकाशमपरिमितम्, अक्रियत्वाद्रूपवदित्यत्राद्रव्यत्वमुपाधिः ।
5) आकाशं संयोगि विभागि च, द्रव्यत्वाद्घटवत् ।
न च सावयत्वमुपाधिः, तस्य मदुक्तहेतुगर्भितत्वाद्, द्रव्यते सति आरभ्यत्वस्य तत्त्वात् ।
सर्वगतेन्द्रियमाकाशं तदेव श्रोत्रम् ।
न चैवं सर्वत्र शब्दोपलम्भः, वक्तृश्रोतृशरीरसन्निधिशब्दोपलब्धिप्रसङ्गः, तस्यापि कर्णशष्कुल्यवच्छिन्नाकाशस्य विद्यमानत्वात् ।
उपाधिभेदाच्च भेद इत्यनर्थबीजम्, आत्मान्तःकरणादीनामपि तथाभावे विरोधाभावत् ।
शब्दवदाकाशम् ।
शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागवत् ।
[दिक्कालयोर्निरूपणम् --]
विवादाध्यासितः संयोगो विशेषगुणरहितेभ्यो द्रव्येभ्यो जन्यते, संयोगत्वाद्, अन्तःकरणरूपद्वयसंयोगवत् ।
विवादास्पदं विशेषगुणरहितद्रव्यद्वयजन्यम्, कार्यत्वात्, तद्वदेव ।
न चान्तःकरणद्वयसंयोगत्वमुपाधिः, व्यर्थविशेषणत्वात् तद्वदेव ।
न चान्तःकरणद्वयगुणत्वमुपाधिः, द्वयगुणत्वेनैवोपपत्तौ विशेषणवैयर्थ्यात् ।
निरुपाधिकस्य (साध्य)परित्यागे स्वाभावपरित्यागप्रसङ्गात् ।
न च साध्ये बहुवचनक्षेपणातिप्रसङ्ग इति वाच्यम्, दृष्टान्तासिद्धेः भूषणस्य संख्यानभ्युपगमेन मनोगतत्वस्य दूरापास्तत्वात् ।
न मनो मनसा संयुज्यते नित्यद्रव्यत्वादिति साधने दृष्टान्तासिद्धिः ।
अत एव संयोगाभ्युपगमेनास्पर्शवत्त्वाद् द्रव्यानारम्भकत्वमित्याह भाष्यकारः ।
अन्यथा सजातीयतंयोगाभावमेव हेतुं ब्रूयात्, कारणत्वात्संयोगस्य ।
तथा च व्योमशिवः-- `परकीयेन च मनसा सूक्ष्मशरीरस्थं मनः मर्यायेणाभिसम्बन्धयतिऽ ।
न चानैकान्तिकत्वम्, अजसंयोगासिद्धेः ।
न च विमतिपदं विशेषगुणरहितद्रव्याभ्यां न जन्यते, अन्तःकरणसंयोगातिरिक्तत्वाद् व्योमवदिति साम्प्रतम्, अकार्यत्वस्योपाधेः ।
तयोश्च दिक्कालसज्ञेति ।
संख्यापरिमाणपृथक्त्वसंयोगविभागयुक्तौ दिक्कालौ, सर्वगतत्वादिति पूर्ववत्साधनीयम् ।
[आत्मनो निरूपणम् --]
विवादाध्यासितो ऽहंप्रत्ययो ऽहंप्रत्ययव्यतिरिक्ते प्रमा प्रमात्वात्, संप्रतिपन्नवत् ।
[आत्मैव ज्ञानाधारः--]
तस्य च को विषय इति चिन्तायां परशरीरपरात्मादिष्वतिप्रसङ्गनिराकरणार्थं यत्र स्वयं समवेतः, स एव तस्य विषय इति वक्तव्यमिति स्थिते ---
न शरीरं तत्समवायि, कार्यत्वाद्घटवत् ।
न चाशरीरत्वमुपाधिः, मृतशरीरे तदभावे ऽपि साध्यसाधनयोरनुगमदर्शनात् ।
न चाजीवच्छरीरत्वमुपाधिः, सुषुप्तौ जीवच्छरीरे ऽपि तदभावात् ।
अवस्थाविशेषवतः शरीरस्य पक्षत्वान्न दोषः, तथा शरीरत्वात् मृतशरीरवदिति वाच्यम् ।
विवादाध्यासितः प्राणो न ज्ञानाधारः, कार्यत्वाद्वायुत्वात्, प्राणत्वात् सुषुप्तावस्थप्राणवत् ।
विवादाध्यासितं बोधाधारजं कार्यत्वात्, चेष्टावत् ।
न च योग्यानुलब्धिबाधः, प्रयत्नाधारस्येव बोधाधारस्य योग्यत्वेनापि सम्भवात्, गौरत्वादिवद् बोधस्य परप्रत्यक्षासिद्धेः ।
तद्विशिष्टस्यातीन्द्रियत्वान्मनसः परबोधग्रहणे सामर्थ्याभावात् ।
शरीरस्य तु योग्यानुपलब्ध्या बाध इति चेत् ।
किं चातः? तस्यैव बोधाधारत्वात्तदभावे बोधाधारस्यापि अभाव इति चेत् ।
न, नियमासिद्धेः ।
व्याप्तत्वान्नैवमिति चेत्, तर्ह्यनुमानेन बाधो वक्यव्यः, तत्र चाश्रयनिरूपणं दुर्घटम् ।

विवादाध्यासितं बोधाधारजं न भवति, शरीरजन्यत्वादाकाशवदिति प्रागेव व्युदस्तम् ।
शरीरजन्यत्वोपाधिवादे ऽपि मृतशरीरक्रियादिषु व्यभिचारवारणार्थं बोधाधारपूर्वकत्वमभ्युपगन्तव्यम् ।
तद्व्यतिरिक्तत्वे सतीति विशेषणं चोपादेयम् ।
तत्रापि सुषुप्तशरीरक्रियादिषु व्यभिचारपरिहाराय जाग्रत इति विशेषणप्राप्ते, अत्राप्युदासीनस्याकस्मिकनिपतितक्रियापरिहारार्थं कुर्वत इति वक्तव्यम् ।
स्वस्यैव प्रयासाधिक्यमुक्तं स्याद्व्यर्थविशेषणत्वं चोक्तं पूर्वम् ।
उपाधिरविनाभूतधर्मधर्मत्वेन भवत्येवैतद्दूषणम् ।
अन्यथानुमानान्तरेष्वपि तन्न स्यात् ।
निरुपाधिकस्य सम्बन्धस्य व्याप्तित्वेनोपाधिभङ्गे जाते, क्वचित्सम्बन्धे च दृष्टे, अन्यत्र केवलस्य हेतोर्दर्शनमपि न दोषमावहतीत्यवोचमित्यलम् ।
[प्रभाकरमतनिरासः --]
अन्ये तु सर्वार्थवित्तिषु ग्राहकत्वेन आत्मसिद्धिरिति ब्रुवते ।
तदसत्, आत्मनो ऽपि चाक्षुषत्वप्रसङ्गात्, तज्जनितज्ञाने भासमानत्वस्यैव तत्त्वात् ।
यदि च नीरूपद्रव्यस्यापि चाक्षुषत्वम्, तदा नभसो ऽपि तथात्वप्रसङ्गात् ।
न चात्मा चाक्षुषज्ञाने प्रकाशते नीरूपद्रव्यत्वाद्गगनवत् ।
विवादाध्यासितं ज्ञानमात्मप्रतिभासम्, ज्ञानत्वादहमितिसम्प्रतिपन्नवदिति चेत्, न, कालात्ययापदेशात् ।
तथा हि --- अस्ति तावत् सौगततच्छिष्याणामनात्मवासनातो विषयेभ्यो निवृतिः, अनात्मवासनातश्च प्रवृतिरिति ।
न च ते प्रमाणमूले एवेति नियमः, रज्जुसर्पविवेकाग्रहणाद्वा विभ्रमाद्वा शुक्तिरजतविवेकाग्रहणाद्वा विभ्रमाद्वानयोरनुदयप्रसङ्गात् ।
न च ते न निवृत्ती, नापि प्रवृत्ती वा ।
न चाज्ञानुपूर्विका निवृत्तिः प्रवृत्तिर्वा स्वस्थस्य संभवति ।
न चात्मज्ञाने तेषां तदुपपद्यते, तथानभ्यासदशायां को ऽहमित्य(ध्यवसायानुपपत्तिर्निश्चीयते), अनध्यवसाये ऽतिप्रसङ्गात् ।
किं च कः पुनस्तत्प्रतिभासे सम्बन्धार्थः? कर्मत्वम्, तदतिरिक्तं वा? प्रथमे ऽपसिद्धन्तः, द्वितीये दृष्टान्तासिद्धिः* ।
[* -एः एद्न्] विषयत्वं च प्रथमान्नातिरिच्यते ।
ग्राहकगृहीतिभावे तु सिद्धसाधनम् ।
अतो ऽतिरिक्तस्यानुगतसम्बन्धमात्रस्यासिद्धिः ।
किं च योगिनां वियुक्तावस्थायां परमाणुरूपादिविषयचाक्षुषज्ञानस्य पक्षीकारे भवतामाश्रयैकदेशासिद्धः, अन्यथास्माकमनैकान्तः ।
न च मानसप्रत्यक्षत्वे तत्सामग्रयाः सर्वदा सन्निहितत्वात् सुषुप्तावस्थायामप्यात्मज्ञानप्रसङ्गः, अहं शरीरमितिविवेकाग्रहणादिषु अहंज्ञानोत्पत्तौ बाह्येन्द्रियव्यतिरिक्तकारकग्रामस्यैव त्वयापि वक्तव्यत्वात्तद्बलेनैव सर्वस्योपपत्तेः, तथाविधकर्मवैकल्याद्वा ।
तस्मान्न सर्ववित्तिष्वात्मनः* प्रतिभासः ।
[* सर्वविदिष्वा]
[आत्मनो ज्ञानरूपत्वनिरासः--]
स च ज्ञानाश्रयो न तु विज्ञानात्मकः, न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते (बृह 4.3.23) इति श्रुतौ द्रष्टृदृष्ट्योः सम्बन्धप्रतीतेः ।
न चाम्नायप्रतीतो भ्रान्तो भवितुमर्हति, अविशेषात् ।
न च सिद्धार्थे वाचकाभावः, अपसिद्धान्तात् ।
न चातत्परत्वम्, तस्यान्यतो ऽसिद्धत्वेन विशिष्टपरत्वात् ।
न च राहोः शिर इतिवदुपचरितत्वम्, मुख्ये बाधकाभावात् ।
न चाद्वैतश्रुतिर्बाधिका, विपर्यये प्रत्युत तस्य भेदग्राहकत्वात् ।
न च तत्र तस्य सामर्थ्यं नास्तीति वाच्यम्, सामर्थ्ये सति विरोधाभावात् ।
न च सम्बन्धाभावे ग्रहणासम्भवः, अदोषत्वात् ।
न चातिप्रसङ्गः, अनुपलब्धेर्नियामकत्वात् ।
प्रतियोगितत्प्रयुक्तव्यतिरिक्तसामग्रीसान्निध्ये सति प्रतियोगिज्ञाने च सति नियामकत्वात् ।
अथवा करणसम्बन्धस्यैव नियामकत्वात् ।
तथा हि -- घटसंयुक्तेन चक्षुषा जनितं ज्ञानं घटमेवावगाहते नार्थान्तरम्, असम्बद्धत्वात् ।

किञ्चास्ति तावदियं प्रसिद्धिः, ऽअत एव व्यवहरामःऽ इतिवचनात् ।
तस्याश्च कारणाभावे सति नित्यत्वं स्यात् ।
न चैवमप्रत्यक्षत्वं भेदस्य, सम्यगपरोक्षानुभवविषयस्यैव सत्त्वात् ।
नित्यत्वे च त्रयाणां सिद्धेः ।
न चापसिद्धान्तः, अस्माकमपि नित्यप्रतीतिसिद्धेः ।
न च भेदानवस्था बाधिका, भेदान्तरप्रसक्तौ मूलाभावात् ।
भेदभेदिनौ भिन्नाविति लोकव्यवहारदर्शनात् ।
न चैकभेदबलेनान्यभेदानुमानम्, दृष्टान्तभेदाविघातेनोत्थाने दोषाभावात् ।
सो ऽयं पिण्याकयाचनार्थं गतस्यापि शाकादिनः खारिकातैलदातृत्वाभ्युपगम इव ।
दृष्टान्तभेदविघाते त्वनुमानानुत्थानमेव, उपजीव्यस्य प्रबलत्वेन तेनैव बाधात् ।
स्वात्मव्यातकत्वेन जातित्वात् ।
एतेनादृश्यत्वादयो निरस्ताः ।
न चानिर्वचनीयत्वं भेदस्य, तत्र प्रमाणाभावात् ।
ख्यातिबाधान्यथानुपपत्तिः प्रमाणमिति चेत्, अन्यथाप्युपपत्तौ विरोधभावात् ।
असतो भासमानायोगात्, बाधायोगात्सतः, अत्र चोभयं दृश्यते इति चेत्, न; प्रथमे ऽसत्पदस्य बोधकत्वे भासमानायोगादित्यनेन व्याघातः ।
अन्यथापार्थकत्वम्, प्रयुक्तपदार्थानां सम्भूयकारित्वनियमात् ।
द्वितीये सत इति को ऽर्थः? किं सत्तायुक्तस्य, आहोस्विदबाधितस्य, ब्रह्मास्वरूपस्य वा? प्रथमे सत्तायुक्तस्याबाधितत्वेन व्याप्तिः कुत्रः दृष्टा? प्रपञ्चस्य बाध्यत्वाद्, ब्रह्मणो निर्धमकत्वेन सत्ताभावात् ।
द्वितीये साध्याविशिष्टता ।
तृतीये सिद्धसाधनता ।
तस्मान्नानिर्वचनीयत्वमपि ।
[अखण्डार्थत्वखण्डनम्--]
एतेन यदाहुरेकदण्डिनः -- सत्यादिपदमखण्डपरम्, लक्षणवाक्यत्वाद्, गन्धवती पृथिवीतिवत्, घटः कलश इतिवद्वा ।
तदपि निरस्तम्, अखण्डपरनित्यन्यूनानतिरिक्तार्थमित्यर्थो यत इति ।
न चार्द्वतपक्षे सत्यज्ञानानन्दादिशब्दानां सहप्रयोगो घटते, पर्यायत्वात् ।
अपर्यायत्वे ऽद्वैतहानिः ।
न च `प्रकृष्टः प्रकाशः सविताऽ इतिवत् शब्दद्वयेनापि एक एवार्थः प्रतिपाद्यते इति युक्तम्, दृष्टान्तासिद्धेः ।
प्रकृष्टशब्दस्येतरेतराभावादिनिमित्तसव्यपेक्षतया प्रवृत्तेः, प्रकाशशब्दस्य प्रकाशत्वबलात्, अन्यथा तत्रापि पर्यनुयोगस्य तुल्यत्वात् ।
किं च लोके यथा प्रकृष्टप्रकाशशब्दयोः परस्परव्यतिरेकेण प्रयोगः --- प्रकृष्टः पुमान्, प्रदीपः प्रकाश इति ।
द्वयोश्चैकत्र मयूखमालिनि प्रयुक्तयोस्तु अर्थविशेषबोधकत्वम् ।
न चैवं ज्ञानानन्दशब्दयोरस्ति, लौकिकज्ञानानन्दस्यापि ब्रह्मरूपत्वात् ।
भेदेन व्युत्पत्तौ भग्नो ऽद्वैतवादः ।
तस्मादानन्दशब्दो दुःखभावमात्रे प्रयुक्तः, मुख्ये बाधकसम्भवात् --- ऽअशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छा उ 8.12.1) इति वचनात् ।
न चास्य सांसारिकसुखनिषेधपरत्वम्, सुखद्वयस्याभावात् ।
लोके ऽपि मात्रया परमानन्दप्रतीतिरित्यभ्युपगमात् ।
न चात्रावच्छिन्नसुखनिषेधार्थम्, तत्राप्यवच्छेदस्यैव निषेधो न सुखस्य ।
न च सामान्यशब्दस्य संकोचे प्रमाणमस्ति ।
न चानन्दश्रुतिः प्रमाणम्, तस्या उपचरितार्थत्वात् ।
न च विपर्ययः, आनन्दस्य सर्वदा-अदर्शनेनानित्यत्वप्राप्तौ मोक्षत्वव्याघातात् ।
योगर्द्धिसमासादितचिरकालोपभोगयोग्यसुखविशेषपरत्वेनाप्युपपत्तेः ।
अनन्तत्वादिश्रुतिस्तु आपेक्षिकसुखाद्यपेक्षया बहुकालत्वेन व्याख्येया, ऽअमृता देवाऽ इतिवत् ।

न च प्रवृत्त्यनुपपत्तिः, नित्यत्वे सुतरामनुपपत्तेः ।
न हि सिद्धस्य सम्पादनाय कश्चिद् यतते ऽत्र ।
अवच्छेदनिवृत्त्यर्थमिति चेत्, तर्हि प्राप्ताप्राप्तविवेकिनो ऽत्रावच्छेदनिवृत्तिरेव कृत्युद्देश्या, अन्यस्य विद्यमानस्याप्यतन्त्रत्वात् ।
न चैकनित्यसुखवादे कारणोपादानं घटते, तद्विशेषे तु कैव कथा? न चैकस्यैवातिशयानतिशयौ शङ्कार्हौ, एकत्वव्याघातात् ।
अवच्छेदनिवृत्त्यर्थं कारणविशेषोपादानमिति वक्तव्यम्, तत्र च दुःखाभावस्य सुखत्वेनानुभवस्य निरतिशयत्वात्, तदनुपपत्तिरिति यो ऽयं दोष उक्तः, स समानः ।
तस्माद् दुःखाभावातिरिक्तसुखसाधनपर्यालोचनया जन्यमनित्यमनेकं चाभ्युपेयम् ।
न च तथाविधस्य मुक्तौ कथासम्भव इति ।
ज्ञानशब्दश्च ज्ञायते ऽस्मिन्नित्यधिकरणवाचकः ।
आनन्त्यं पुनरूभयान्ताभाव एव, तत्रैव लोकव्युत्पत्तेः ।
एकमिति च द्वैरूप्यनिराकरणपरम्, एकत्वसंख्यां वाचष्टे, लोके तत्रैव व्युत्पत्तेः, लोकावगतशक्तेश्च वेदे बोधकत्वात् ।
तस्माज्ज्ञानाश्रय आत्मेति सिद्धम् ।
[आत्मनो नानात्वम्--]
विवादाध्यासितं मया सम्बद्धं मूर्तत्वात्, मच्छरीरवद् -- इति नित्यत्वानादित्वसर्वगतत्वसिद्धिः ।
तस्य चानेकत्वम्, व्यवस्थान्यथानुपपत्तेः ।
अनिर्वचनीयत्वे निराकृते जीवभेदे ऽविप्रतिपत्तेश्च ।
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ।
(मु 3.1.1) इति श्रुतेः ।
अस्या अर्थः -- द्वौ सुपर्णौ आत्मानौ सयुजौ = सहवर्तमानौ सखायौ = एककार्यकारित्वेन, समानं वृक्षम् = एकं शरीरं परिषस्वजाते = आलिङ्गितवन्तौ ।
तयोरात्मनोर्मध्ये एको = भोक्ता पिप्पलं स्वादु अत्ति = सुखविशेषं भुङ्क्ते ।
अनश्नन् अन्यः = अभोक्ता ईश्वरः अभिचाकशीति = सर्वतो ऽत्यर्थं प्रकाशते इति विस्पष्टो जीवब्रह्मणोर्भेदः ।
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यः ।
(श्वेता 4.5) इतिवत् ।
न च श्रुतिप्रतीतो ऽन्यथा भवितुमर्हति ।
कथं तर्हि `नेह नानास्ति किंचनऽ (बृह 4.4.19) इति, `मृत्योः स मृत्युमाप्नोति, य इह नानेव पश्यतिऽ (कठ 4.10) इति च, (लिङ्गात्) नानात्वदर्शने तद्भावोपचारात् ।
न च सति प्रयोजने निमित्ते चोपचारः प्रवर्तते, न चात्र प्रयोजनमस्तीति वाच्यम्, नियमासिद्धेः ।
अज्ञातमुख्येषु यववराहादिषु गौणशब्दप्रयोगेषु तदभावात् ।
सत्ताबोधकलाक्षणिकगोशब्दे च, यथा गौर्वाहीकः ।
यथाहुर्वार्तिककाराः ---
बहुजातिगुणद्रव्यकर्मभेदावलम्बिनः ।
प्रत्ययान् सहसाजातान् श्रौतलाक्षणिकात्मकान् ॥
न लोकः कारणाभावान्निर्धारयितुमिच्छति ।
बलाबलादिसिध्यर्थं वाक्यज्ञास्तु विविञ्चते ॥
(श्लो वा??)
अस्मदादिगौणप्रतीतेर्हि चिन्ता ।
वृद्धव्यवहारागतेषु गौणप्रयोगेषु को ऽयमाग्रहः, यथा सर्षपरसे तैलशब्दः? मुख्येषु बाधकाभावात् कथमुपचार इति नाशङ्कनीयम्, प्रत्यक्षेण श्रुत्या च भेदप्रतीतेः ।
आत्मा द्रव्यत्वव्यतिरिक्तापरजात्याधारभेदेन नाना, अश्रावणविशेषगुणाधिकरणत्वात्, पृथिव्यादिवत् ।
तत्र न मूर्तत्वमुपाधिः, रूपादौ तदभावे ऽपि साध्यानुगमदर्शनात् ।
मकरन्दस्तु विवादपदानि शरीराणि, एकेनात्मनात्मवन्ति, शरीरत्वात्, मच्छरीरवदिति ।

तस्य नित्यत्वम् ।
विशेषगुणा द्रव्यत्वेन साधनीयाः ।
तस्य गुणाः -- बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मभावनासंख्यापरिमाणपृथक्त्वसंयोगविभागाः ।
प्रयत्नाश्रय आत्मा ।
[मनसो निरूपणम्--]
विवादपदमिन्द्रियजज्ञानविषयः, वस्तुत्वाद् घटवत् ।
विवादाध्यासितो मूर्तसंयोगासमवायिकारणकविशेषगुणाधारः, नित्यत्वे सति अनित्यविशेषणगुणवत्त्वात्, पार्थिवपरमाणुवत् ।
न च तत्त्वमुपाधिः, त्वन्मते घटस्याप्यग्निसंयोगजविशेषगुणाधारत्वात् ।
न च पार्थिवत्वमुपाधिः, त्वन्मते घटस्याप्यग्निसंयोगजविशेषगुणाधारत्वात् ।
न च पार्थिवत्वमुपाधिः, अपक्वनष्टघटे व्यभिचारात् ।
न चास्माकमाद्यमुपाधिः, नभसि तदभावे ऽपि साध्यानुगमदर्शनात् ।
मनः परमाणु, परविशेषगुणासमवायिकारणाश्रयत्वे सति नित्यत्वात्, तैजसपरमाणुवदिति केचित् ।
तन्न, स्पर्शवत्त्वे सति नित्यत्वोपाधेः ।
अणुत्वमात्रसाधने स्पर्शवदमहत्त्वमुपाधिः ।
मूर्तत्वमात्रसाधने च नित्यपदवैयर्थ्यम् ।
तद्व्यतिरिक्त्तस्य हेतुत्वे काशिकाकृतो मते स्पर्शवत्त्वमुपाधिः ।
तमोद्रव्यत्वपक्षे स्पर्शवत्त्वस्य तमस्येव साध्यव्यापकत्वे द्रव्यसमवायिद्रव्यत्वमुपाधिः ।
एतेन मनो मूर्तं विभुसंयोगित्वाद्घटवदित्यपि निरस्तम्, उक्तोपाधिकत्वात् ।
सुखादयो मूर्तसंयोगासमवायिकारणकाः, अनित्यत्वे सति नित्यविशेषगुणत्वात्, पार्थिवपरमाणुरूपदिवदिति विभागजशब्दजशब्देनानैकान्तादसाधनम् ।
अशब्दत्वे सतीति विशेषणे परस्यैव वैयर्थ्यम् ।
मूर्तं मनः श्रोत्रव्यतिरिक्तेन्द्रियत्वादित्यपि निरस्तम्, पूर्वोक्तोपाधेः ।
अविभुत्वे च स्पर्शवत्त्वं साधनावच्छिन्नसाध्यव्यापक उपाधिः ।
एतेनाविभु नित्यद्रव्यत्वादित्यनेनामहत्त्वसाधने साध्यव्यापकत्वात् स्पर्शवत्त्वं नोपाधिरिति श्रीवल्लभोक्तं निरस्तम् ।
न च मनो विभु,
1 सर्वदा स्पर्शरहितद्रव्यत्वात् (न्या कु 3.1),
2 सदा विशेषगुणरहितद्रव्यत्वात्,
3 निरवयवेन्द्रियत्वात्,
4 द्रव्यानारम्भकनित्यद्रव्यत्वात्,
5 नित्येन्द्रियत्वात्,
6 विज्ञानसमवायिकारणसंयोगाधारेन्द्रियत्वात्,
7 सर्वदा स्पर्शरहितद्रव्यत्वात्,
8 नित्यगुणग्राहकेन्द्रियत्वात्,
9 अभूतत्वे सत्यरूपित्वात्, कालवद्, आत्मवद्, आकाशवदिति सत्प्रतिपक्षदूषणे कथं स्वपक्षसिद्धिरिति वाच्यम्, मनसः सर्वगतत्वाभ्युपगमे आकाशकालातिरिक्तस्य साधयितुमशक्यत्वेन धर्मिग्राहकप्रमाणबाधाश्रयासिद्धयोरन्यतराक्रान्तत्वादिति स्पष्टतरमस्मन्न्यायलक्ष्मीविलासे ।
प्रथमस्य तमोद्रव्यत्ववादिनस्तत्रैवानैकान्तिकत्वम्, सर्वदेत्यस्य च व्यर्थत्वात् ।
एतेन द्वितीयतृतीये दूषिते, सप्तमे ऽपिवैयर्थ्यम्, नवमे ऽपि अरूपिपदस्य परं प्रति वैयर्थ्यम्, तमसो ऽभावत्वात् ।
किं बहुना द्रव्यत्वावान्तरजात्यैन्द्रियासजातीयद्रव्यत्वमुपाधिः ।
1 स्पर्शरहितत्वे सति अणु मनः,
2 विज्ञानासमवायिकारणसंयोगाधारत्वे सति मूर्त्तं वा,
3 सुखग्राहकेन्द्रियं वा,
4 अण्विन्द्रियं वा,

5 ज्ञानजनकसंयोगाश्रयं जडं मनः,
6 ज्ञानासमवायिसंयोगाश्रयमिन्द्रियं वा ।
तस्य गुणाः-- संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्काराः ।
एषां मूर्तत्वद्रव्यत्वाभ्यां सिद्धिः ।
1 समवायिकारणं द्रव्यम्,
2 गुणवद् द्रव्यम् ।
[10 तमस आलोकाभावमात्रत्वनिरूपणम्--]
1) तमो नाम द्रव्यन्तरमस्ति ।
तदपि निरूपणीयमिति चेत्, न, प्रमाणासिद्धेः ।
नीलं तम इति प्रतीतिः प्रमाणमिति चेत्, नीलबुद्ध्यसिद्धेः ।
उक्तं च शालिकनाथेनापि-- अप्रतीतावेवायं प्रतीतिभ्रमो मन्दानाम्ऽ (प्र पं 321) इति ।
कथं तर्हि पदप्रयोगः? सिताभाववदुपचारात् ।
असितं नीलमिति लौकिकः प्रयोगः ।
मुख्ये बाधकाभावादिति चेत्, आलोकनिरपेक्षचक्षुषो रूपप्रत्ययजनकत्वासिद्धेः ।
कारणाभावे कार्यं जायते इति दुर्घटमेतत् ।
अन्यथा नीलघटस्यापि ग्रहणप्रसङ्गः ।
कथं तर्हि छायायां कृष्णसर्पभ्रम इति चेत्, दोषवशात् ।
पूर्वदृष्टकृष्णसर्पाध्यारोपको दोष इति ।
किमत्र सादृश्यमिति चेत्, सिताभावत्वम् ।
न चैवमतिप्रसङ्गः, सादृश्यमात्रस्यैव भ्रान्तिज्ञानसामग्रीत्वासिद्धेः ।
उपयुज्यन्ते हि विशेषादर्शनादयो ऽपि आलोकाभावसहकारिणो धर्मादयो ऽपि, वक्रदीर्घावयवीन्द्रियसंयोगादयश्च दोषाः ।
2) मानसमेव वा स्वप्नविभ्रमादीति केचित् ।
न चैवमतिप्रसङ्गः, चाक्षुषलोकाभावे करितुरगादिस्मरणविशेषस्यापि तत्र हेतुत्वाभ्युपगमान्नातिप्रसङ्गः ।
एतेन संख्याक्रियादिप्रतीतिरपि निरस्ता, तत्रैव विप्रतिपत्तेः, शब्दप्रयोगस्योपचारेणाप्युपपत्तेः, लौकिकव्यवहारस्य च सम्युग्धत्वात् ।
3) एकदेशिनः पुनर्नीलप्रतीतिमभ्युपगम्य भ्रान्तत्वमाचक्षते ।
यथाहुः --- अञ्जनपुञ्ज इव शार्वरं तम इति भ्रान्तिप्रकरणे तत्र प्रतिभासिकबाधानुपपत्तेः ।
अनेनापहृतविषयत्वेनानुत्थानाद्बाधकनिरूपणं दुर्घटमिति पश्यामः ।
4) शब्देन विना प्रतीतिसाधनं च ।
तमः शब्दस्य तर्हि को ऽर्थ इति चेत्, उभयवादिप्रतिपन्न आलोकसंसर्गाभावः ।
आलोकविशेषे सत्यपि आलोकान्तराभावस्यापि सम्भवात् प्रयोगप्रसङ्ग इति चेत्, तत्र किमालोकाभावप्रयोगो ऽस्ति, न वा? अस्ति चेत्, तमःशब्दप्रयोगो ऽप्यस्तु, का नो हानिः? पर्यायशब्दत्वात् ।
अथ यथा ज्वालाया आशुतरविनाशित्वेन मध्ये विनाशे विद्यमाने ऽपि तत्सदृशज्वालोत्पत्त्या तिरोहितत्वान्न नाशव्यवहारः, तदालोके सत्यालोकान्तराभावस्य तिरोधानान्न तदभावव्यवहार इति ।
लौकिकप्रतीतिस्तु भ्रमत्वेनोच्यते ।
तत्तुल्यं ते तर्ककर्कशमतेरप्युक्तपरिहारश्चक्षुरालोकासहकृतं रूपिग्राहकं द्रव्यग्राहकेन्द्रियत्वात्त्वग्वदिति वादिनः कालग्राहकघ्राणेनानैकान्तिकं व्यर्थविशेषणता च ।
चक्षुरालोकनिरपेक्षं द्रव्यं गृह्णाति, इन्द्रियत्वादिति साधने घ्राणेन प्रतिवादिनानैकान्तिकता विवक्षिता---साधकत्वं च ।
न हि तव तथाविधं तम एवेति लक्षणं कालादेरपि आलोकनिरपेक्षेन्द्रियग्राह्यत्वात् ।
5) आलोकभावस्योभयवादिसम्प्रतिपन्नत्वात् तमःशब्दवाच्यत्वे नास्ति विप्रतिपत्तिर्नात्र प्रकरणं वाच्यम् ।
विवादाध्यासितः आलोकभावः तमःशब्दवाच्यः, इतरेतराभावव्यतिरिक्तालोकाभावत्वात् ।
यदित्थं न भवति, तदित्थमपि न भवति, यथालोक एव ।
अन्ये तु तम आलोकाभावः, आलोकानपेक्षचक्षुषि सत्येवासति च लिङ्गादौ गृह्यमाणत्वात्, सम्प्रतिपन्नालोकाभाववदिति ब्रुवते ।
तत्र कौ पक्षसपक्षौ? भिन्नाभिन्नाविति चिन्तनीयमिति ।

योगिमानसग्राह्यत्वाच्चावधारणासम्भवेन हेत्वसिद्धिश्च ।
तस्मादेवं प्रयोगक्रमः --- तमःपदमालोकाभाववाचकम्, आलोकानपेक्षचक्षुर्ग्राह्यवाचकत्वाद्, आलोकाभावपदवत् ।
निरूपितो द्रव्यपदार्थ एष, नवप्रकारो मुदमातनोतु ।
नवात्मकस्य त्रिदशाधिपस्य, त्रिलोकपूज्यत्रिपुरान्तकस्य ॥
इति श्रीमानमनोहरे द्रव्यपदार्थः ॥
[गुणप्रकरणम्]
[1-4 रूपरसगन्धस्पर्शाणां निरूपणम्--]
1) प्रत्यक्षं रूपे प्रमाणम् ।
विवादपदं घटोत्पत्त्यनन्तरकाले जायते, घटगुणत्वात्, सम्प्रतिपन्नघटसंयोगवत् ।
न च सामान्यगुणत्वमुपाधिः, तद्गतपरिमाणादीनामपि पश्चादुत्पत्तिप्रसङ्गात् ।
2) विवादपदं कार्यं पार्थिवविशेषगुणत्वाद्घटरूपवत् ।
न च कार्यगतत्वमुपाधिः, परमाणुसंयोगसंस्काराद्यव्यापनात् ।
3) विवादपदं कार्यं संख्यापरिमाणपृथक्त्वगुरुत्वसंस्कारव्यतिरिक्तत्वे सति पार्थिवगुणत्वात् पार्थिवपरमाणुसंयोगवत् ।
4) विवादपदमग्निसंयोगजविशेषगुणवद्, अनित्यविशेषगुणत्वे सति नित्यत्वादात्मवत् ।
5) विवादपदमवयव्याश्रयकाले न रूपजनकमाश्रयत्वाज्जलाणुवत् ।
6) विवादपदमाश्रयनाशनाश्यमानकार्यव्यतिरिक्तगुणाश्रयः, गुणवत्त्वात्समवायिकारणत्वादात्मवत् ।
7) रूपत्वमनाश्रिते ऽपि समवेतम्, रूपजातित्वात्सत्तावत् ।
8) विवादाश्रयो ऽनेकरूपाधिकरणम् न भवति, अवयवित्वात्, शुक्लतन्तुवत् ।
विवादपदं न नीलत्वाधिकरणम्, पीतारब्धत्वात्, विवादपदं न पीतत्वाधिकरणम्, नीलारब्धत्वात्पीतवन्नीलवच्च ।
9) विवादपदं पीतत्वाधिकरणम्, पीतारब्धत्वात्, पीतवदिति चेत् न, विरुद्धजातिसमावेशेन बाधितत्वात्, अन्यथा विवादपदं गोत्वाधिकरणम्, पार्थिवादित्यापि स्यात् ।
रूपत्वावान्तरपीतत्वव्यतिरिक्तजात्यनाश्रयरूपत्वं चोपाधिः ।
एतेन शुक्लं रूपमेकमेवेति निरस्तम्, तरतमभावस्यापि दृष्टेः ।
10) नित्यत्वे सत्यनेकार्थे वर्तमानत्वात्सामान्यमित्युक्तं स्यात्, तस्य च यावद्द्रव्यभावित्वात् ।
पाकजेषु रक्तप्रत्ययो दुर्घटः ।
तदनेकप्रकारम् ।
गुणत्वे सति चक्षुःस्पर्शनयोर्मध्ये चक्षुषैव ग्रहणार्हं रूपम् ।
एतेन रसगन्धस्पर्शा अपि निरूपिताः ।
चित्रा अपि ते ऽवगन्तव्याः ।
11) गुणत्वे सति रसनग्राह्यो रसः ।
12) गुणत्वे सति घ्राणग्राह्यो गन्धः ।
पृथिवी स्पर्शवती रूपित्वात्, तेजोवत् ।
विवादपदं स्पर्शवद्, द्रव्यारम्भकत्वात्, तेजोवत् ।
चक्षुःस्पर्शनयोर्मध्ये स्पर्शनेनैव ग्राह्यो गुणः स्पर्शः ।
[5-6 संख्यापृथक्त्वयोर्निरूपणम्--]
(इ. एकत्वैकपृथक्त्वयोः सिद्धिः)
1) स्पर्शवद् गुणासमवायिकारणाद्विष्ठगुणयोराश्रयः, द्रव्यत्वाद् मूर्तत्वात्, पटारम्भकतन्तुवत् ।
न च स्पर्शवत्त्वमुपाधिः, स्पर्शवतां घटादीनामपि तथाविधगुणद्वयाश्रयत्वप्रसङ्गात् ।
न च द्रव्यासमवायिकारणत्वमुपाधिः, विशेषणवैयर्थ्यात् ।
निरूपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् ।
तत्राकाशादिषु यौ गुणौ, तयोरेकमेकत्वं, अपरमेकपृथक्त्वम् ।

अन्यत्रापि तौ पूर्वोक्तहेतोरेव साध्यौ ।
2) विप्रतिपन्नः संयोगः स्वतो ऽधिकवृत्तिकार्यैकार्थसमवेतत्वार्हः, संयोगत्वात्, त्रितन्तुकारम्भकसंयोगवत् ।
3) परमाणवः संयोगाधिकवृत्तिकार्यसमवायिकारणम्, अणुत्वाद्, द्व्यणुकवत् ।
4) विप्रतिपन्नो ऽवयवी कारणत्वार्हेण सह तुल्याश्रयः, अवयवित्वाद्, द्व्यणुकवद् द्वितन्तुकवच्च ।
रूपादीनामेकाश्रयवृत्तित्वात्, संयोगस्य द्विष्ठत्वात् ।
त्रिचतुरारब्धत्वान्न सिद्धसाधनता ।
अनेनैव यथा परिमाणसिद्धिरपि ।
(इइ. अनेकत्वानेकपृथक्त्वयोः सिद्धिः)
1) विवादाध्यासितो बुद्धिजगुणयोराश्रयः, द्रव्यत्वात्समवायिकारणत्वाद्, आत्मवत् ।
न चात्मत्वमुपाधिः, ईश्वरे व्यभिचारात् ।
अत्रैकम्-- अनेकत्वसंख्या, अपरम्-- अनेकपृथक्त्वमिति ।
2) तदेवं सिद्धयोः संख्यापृथक्त्वयोर्व्यवहारेणापि सिद्धिः ।
अस्ति च तावदेकं द्वे त्रीणि इत्यादिव्यवहारः ।
न चासौ निर्निबन्धनः, पदत्वव्याघातप्रसङ्गात् ।
न चाभेद एकत्वं भेदसमुच्चयः पुनरनेकत्वमिति युक्तम् ।
अभेदः किं पटस्तदतिरिक्तो वा? आद्ये (एकः पट इति) सहप्रयोगानुपपत्तिः, पर्यायत्वात् ।
द्वितीये संप्रतिपत्तिधर्मपदार्थो ऽसाविति चेत्, किमत्र प्रमाणम्? गुणादावभेदव्यवहार इति चेन्न, व्यवहारमात्रादर्थासिद्धेः, तस्य गौणस्यापि बहुशो दर्शनात् ।
मुख्ये बाधकाभावात्, कथं गौणत्वमिति चेत्, न; साधकस्याप्यभावात् ।
उत्पत्तिकारणाभावस्य विस्पष्टत्वात् ।
समवाय्यसमवायिकारणयोरभावात्, निमित्तकारणमात्रादेवोत्पत्तिस्तु तत्सिद्धौ सत्यां कल्पनीया, अप्रतीतेस्तदसिद्धेः ।
3) यद्यप्यपेक्षाबुद्धिवैजात्यसमवायाद् द्वित्वत्रित्वदिव्यवहाराणामपि भेदसमुच्चयो न संकरमापादयति, तथाप्यननुसंहितवैजात्यादीनां बालगोपालादीनां द्वाविति व्यवहारो ऽयं न तन्निबन्धनः द्व्यणुकपरिमाणं द्वित्वसंख्यया विना न घटते ।
नित्यपरमाणुपरिमाणाभ्यां परमाणुपरिमाणस्यानारम्भात्, प्रचयस्य चानाशङ्कनीयत्वात् ।
कारणपरिमाणत्वस्य न साधकतेति वाच्यम्, अत्रावान्तरातिशयवत्त्वस्योपाधेः, प्रचयजन्ये ऽपि परिमाणे तस्यानारम्भकत्वाच्च ।
तथापेक्षाबुद्ध्यापि जन्यते, इदमेकमिदमेकमिति ज्ञानान्वयव्यतिरेकानुविधायित्वात् ।
न च व्यञ्जकत्वेनोपपत्तिः, समानेन्द्रियग्राह्यसमानदेशावस्थितानां युगपदिन्द्रियसम्बद्धानामिन्द्रियसम्बन्धव्यतिरेकेण नियतव्यञ्जकव्यङ्ग्यत्वादर्शनात् ।
अतः संयोगसमानता द्वित्वस्येति ।
4) एके द्वित्वं बुद्धिजं नियमेनैकप्रतिपत्तृवेद्यत्वादित्याहुः ।
तेषां ज्ञानप्रागभावेन व्यभिचारः --- गुणत्वे सतीति विशेषणे ईश्वरेच्छायाम्, कार्यत्वे सतीति विशेषणे जागरादिज्ञाने ।
अन्वयव्यतिरेकाभ्यां चापेक्षाबुद्ध्यभावे द्वित्वाभावोपलम्भात्तद्विनाशस्य द्वित्वविनाशहेतुत्वम् ।
अनुमानक्रमस्तु --- द्वित्वं निमित्तकारणनाशनाश्यव्यक्तिसमवेतम्, तज्जातित्वात्सत्तावत् ।
सत्तादिनिमित्तकारणीभूतदेहनाशनाश्यमाने युञ्जानस्यान्त्यसुखज्ञाने समवेतम् ।
एवं सर्वं पृथक्त्वे वक्तव्यमिति ।
[7 परिमाणस्य निरूपणम्--]
1) विवादाध्यासितं द्विष्ठगुणानसमवायिकारणानित्यविशेषणगुणव्यतिरिक्ताद्विष्ठगुणाश्रयः, द्रव्यत्वाज्जलपरमाणुवत् ।
न च स्पर्शवत्त्वमूर्तत्वे उपाधी, पवनपार्थिवपरमाणौ व्यभिचारात् ।
ईश्वरो नित्यविशेषगुणव्यतिरिक्तानसमवायिकारणाद्विष्ठगुणाश्रयः, आत्मत्वाज्जीववत् ।
नित्यैकत्वैकपृथक्त्वपरिमाणसाधनविवक्षायामनसमवायिकारणमिति न वाच्यम् ।
अद्विष्ठ इति द्विष्ठगुणत्वावान्तरजातिरहित इति बोद्धव्यम्, अन्यथा एकत्वेन सिद्धसाधनता ।
2) तथा व्यवहारेणापि साधनीयम् --- अस्ति तावदयं महान्, अयं महानिति व्यवहारः ।
न चात्र महत्त्वसामान्यमेव निमित्तम्, तरतमभावस्यानुपपत्तिप्रसङ्गात् ।

अन्यथा मधुररसस्याप्युच्छेदप्रसङ्गात्, मधुरत्वसामान्यादेव द्रव्याश्रिताद् व्यवहारोपपत्तेः ।
3) प्रचयसंख्यापरिमाणानामन्वयव्यतिरेकाभ्यां तदुत्पत्तौ कारणत्वम् ।
विवादाध्यासितो ऽणुपरिमाणव्यतिरिक्तपरिमाणाश्रयः, द्रव्यत्वात् ।
विवादाध्यासितो महत्परिमाणव्यतिरिक्तपरिमाणाश्रयः, द्रव्यत्वाद्घटवत् परमाणुवच्च ।
न चात्राणुत्वमहत्त्वे उपाधी, रूपादिषु व्यभिचारात् ।
द्रव्यत्वेन विशेषणे वैयर्थ्यम् ।
ह्रस्वदीर्घव्यवहारयोरन्यथानुपपत्तिश्च प्रमाणम् ।
आश्रयनाशान्नाश इत्यत्र प्राचीनमनुमानं वाच्यम् ।
4) द्वित्वासमवायिकारणकवृत्तिगुणत्वावान्तरजातीयं परिमाणम् ।
[8 संयोगस्य निरूपणम्--]
1) विवादपदमसमवायिकारणजन्यं कार्यत्वाद्रूपवत् ।
न च प्रध्वंसे व्यभिचारः, प्रागभावप्रतियोगित्वस्य भावत्वे सतीति विशेषितस्य तत्रासिद्धेः ।
न चात्रोपाधिशङ्काप्यधिरोहति, विस्पष्टश्च घटौ संयुक्ताविति प्रत्ययः ।
निराकृतश्च क्षणभङ्ग इति नाविरलदेशे उत्पादस्तन्निमित्तत्वेनाशङ्कनीयः ।
कर्मसंयोगयोः तज्जनकत्वं प्रत्यक्षसिद्धमेव ।
2) आकाश आत्मना संयुज्यते, द्रव्यत्वादिति केचित् ।
तन्न, क्रियावत्त्वमूर्तत्वयोः परत्वापरत्वयोर्वोपाधित्वात् ।
आत्मा आकाशेन न संयुज्यते, अमूर्तत्वाद्रूपवत् ।
न चात्राद्रव्यत्वमुपाधिः, आकाशे तदभावेन सपक्षाव्यापकत्वात् ।
3) विभागाश्रयनाशाभ्यां च तस्य नाशः ।
आश्रयनाशोत्तरसंयोगाभ्यां च विभागनाशः ।
संयोगस्य त्वाश्रयनाशविभागाभ्यामेव नाश इत्युक्तम् ।
नित्यत्वात्परमाण्वाकाशयोराश्रयनाशनाश्यत्वं तत्संयोगस्य न सम्भवति ।
सर्वमुक्तिपक्षे च विरोधिगुणप्रादुर्भावो ऽपि दुर्घटः ।
अतो निमित्तनाशनाश्यत्वमङ्गीक्रियते इति ।
अनित्यः सम्बन्धः संयोगः, घटजनकतदवयवनिष्ठगुणत्वावान्तरजातीयः संयोगः ।
[9 विभागस्य निरूपणम्--]
1) कर्म संयोगव्यतिरिक्तासमवायिकारणम्, संयोगव्यतिरिक्तत्वे सति असमवायिकारणत्वाद्रूपवत् ।
न चाकर्मत्वमुपाधिः, आकाशादिषु व्यभिचारात् ।
असमवायिकारणत्वे सतीति विशेषणे केवलसंयोगारम्भकेण संयोगेन व्यभिचारात् ।
संयोगव्यतिरिक्तत्वे सतीति विशेषणे वैयर्थ्यम् ।
न च संयोगव्यतिरिक्तासमवायिकारणत्वादिति संयोगस्यैवासमवायिकारणत्वं प्रतीयते इति बाधितविषयत्वम्, भवतां कर्मणः कर्मासमवायिकारणत्वात् ।
न चैवं प्रथमानुमाने सिद्धसाध्यता, मन्दगतौ तदभावात् व्यतिरिक्तासिद्धेः ।
तव च संस्कारस्याप्यसिद्धेः ।
अन्त्यकर्मणः कर्माजनकत्वात्, मम तस्यैव पक्षत्वात् ।
2) किं चास्ति तावदयं विभागव्यवहारः ।
न चासौ निर्निबन्धनः ।
न च संयोगाभावो निमित्तम्, संयोगनाशे एव कारणभावात् ।
न च कर्मणः तत्र कारणत्वम्, गुणानां कर्मविनाश्यत्वादर्शनात् ।
विप्रतिपन्नः संयोगो न कर्मनाश्यः, गुणत्वात्सम्प्रतिपन्नवत् ।

न च विभागविनाश्यो ऽपि न भवति, तस्मादेवेति साम्प्रतम्, प्रतियोग्यसिद्ध्या व्याप्त्यसिद्धेः ।
सिद्धि वा तद्विनाशकत्वेनैव कल्पना, निष्कारणकार्यसिद्धेः ।
3) स च द्विविधः --- कर्मजविभागजभेदात् ।
विवादाध्यासितो विभागो न कर्मासमवायिकारणकः, कर्मैकार्थसमवेतत्वाच्छब्दवत् ।
विवादपदमात्मातिरिक्तं द्रव्यं विभागजन्यगुणाधिकरणम्, नित्यद्रव्यत्वादात्मवत् ।
न चात्मत्वमुपाधिः, ईश्वरे व्यभिचारात् ।
आकाशे च व्याप्त्यभावात् ।
4) अन्ये तु द्रव्यारम्भकसंयोगविरोधिविभागोत्पत्तिकाले नावयवकर्म आकाशादिदेशाद् विभागारम्भकम्, कर्मत्वादिति ब्रुवते ।
तदसत्, आकाशदेशेन विभागमारभते कर्मत्वादित्यपि वक्तुं शक्यत्वात् ।
तस्मान्न कारणविभागाद्विभागः स्यात् ।
विवादपदमात्मना विभज्यते द्रव्यत्वादिति पूर्ववद्दूषणीयम् ।
5) आश्रयविनाशोत्तरसंयोगाभ्यां च तद्विनाशः ।
उत्तरसंयोगाद्विनाशः पश्चादपि कथं विभागप्रत्ययानुवृत्तेरपि न वाच्यम्, प्रत्ययस्यैवासिद्धेः, शब्दप्रयोगस्य चान्यथाप्युपपत्तेः, श्रवणमात्रादेव मुख्यत्वानिर्णयात् ।
संयोगसंसर्गाभावे विभागपदस्यापि न पृथक् संकेतः, संयोगप्रागभावे ऽपि व्यवहारदर्शनात् ।
संयोगसमानाश्रयत्वे सति संयोगविनाशको विभागः ।
[10-11 परत्वापरत्वयोर्निरूपणम्--]
1) विवादपदं परमाणुवृत्त्यद्विष्ठगुणजनकम्, परमाणवो वा कार्यवृत्त्यद्विष्ठगुणजनका मूर्त्तत्वात्, पार्थिवपरमाणुवद्घटवच्चेति ।
विवादपदं स्वारब्धद्रव्ये गुणजनकम्, द्रव्यत्वे सति द्रव्यारम्भकत्वादीश्वरवत् ।
विवादपदं परमाणुजन्यम्, कर्महेत्वद्विष्ठगुणाश्रयम्, मूर्त्तत्वादगुणत्वात्पार्थिवपरमाणुवत् ।
तदेवं सिद्धयोः परापरव्यवहारादपि सिद्धिः ।
अन्वयव्यतिरेकाभ्यां चादित्यपरिवर्तनदेशसंयुक्तसंयोगाल्पीयस्त्वभूयस्त्वज्ञानस्य हेतुत्वम् ।
व्यञ्जकत्वे पूर्ववद् दोषो ऽनुसन्धेयः ।
2) विवादाध्यासितो ऽद्विष्ठबुद्धिजगुणयोराश्रयः, विज्ञानासमवायिकारणाधारत्वादात्मवत् ।
अश्रोत्राणामविशेषगुणवत्वात् ।
कार्यद्रव्येण स्वसमवायिकारणेन कृताद्विष्ठगुणेन गुणत्वावान्तरजातीयं परत्वम् ।
समवायिकारणेन स्वकार्ये क्रियमाणेनाद्विष्ठगुणेन गुणत्वावान्तरजातीयमपरत्वम् ।
कारणविनाशाद् विनाशः ।
[12 बुद्धेर्निरूपणम्--]
1) बुद्धौ प्रमाणं न वक्तव्यम्, सर्वतन्त्रसिद्धान्तसिद्धत्वात् ।
तदनभ्युपगमे स्ववचनविरोधादयः प्रसञ्जनीयाः ।
ज्ञानत्वं अस्मदादिमानसप्रत्यक्षव्यक्तिसमवेतम्, ज्ञानजातित्वात्सत्तावत् ।
अस्मदादीत्यविवक्षायां प्रमेयत्वादिकं योगिप्रत्यक्षसाधकमनुसन्धेयम् ।
प्रत्यक्षत्वानभ्युपगमे ज्ञानाभ्युपगमो निर्मूलः, तत्कारणेनैव तत्कल्पकव्यवहारोपपत्तेः ।
अनवस्था तु नास्ति, अदृष्टादिकारणसामग्र्या नियामकत्वात् ।
रूपादिवदुद्भूतत्वस्यापि ज्ञाने ऽनभ्युपगतत्वात्, तथाविधस्यैव प्रत्यक्षत्वात् ।
2) प्रभाकरमते विवादपदं न मानसप्रत्यक्षं ज्ञानत्वादिति न साम्प्रतम्, सर्वमुक्तिपक्षे दृष्टान्तासिद्धेः, अन्यस्मिन्नपि प्रभाकरस्य सर्वदा एकत्वे निश्चायकाभावात् ।
न च घटं जानामीत्यत्र कल्पनालाघवादेकमेव ज्ञानं कल्पनीयम् --- इत्यर्थापत्त्युपन्यासो दोषः स्यात्, न हि परेणानेकत्वसाधने सोपन्यस्ता ।
3) किं च ज्ञानं प्रत्यक्षं वस्तुत्वाद्घटवत् ।
न चाज्ञानत्वमुपाधिः, तव सर्वज्ञानस्य प्रत्यक्षत्वासिद्धेः ।
नञश्चेतरेतराभाववाचकत्वे ऽपि विशेषणवैयर्थ्यात् ।

ज्ञानव्यतिरिक्तत्वमिति तस्यार्थः ।
तत्र च न ज्ञानपदस्योपयोगः ।
न च ज्ञानं मानसप्रत्यक्षं न भवति, ज्ञानत्वादिति साम्प्रतम्, असाधारणत्वात् ।
न च मानसप्रत्यक्षत्वे ऽनवस्थादोषः, योग्यभ्युपगमवादिनां तस्यासम्भवाददोषाच्च ।
तस्माज्ज्ञानं मानसप्रत्यक्षमिति ।
(1 अख्यातिवादनिरासः--)
अथ केचिदख्यातिं समर्थयन्ति, विवादपदं रजतविषयं रजतज्ञानत्वादिति ब्रुवते ।
ते तु प्रष्टव्याः--- किमिदं रजतज्ञानं नाम? 1 रजतस्य ज्ञानं रजतज्ञानम्? 2 रजतं तज्ज्ञानं च रजतज्ञानमिति वा? 3 रजतशब्दोल्लेखि ज्ञानं वा? 4 रजतार्थिनः प्रवृत्तिहेतुभूतं ज्ञानं वा?
न प्रथमः, षष्ठ्यर्थस्य विषयविषयिभावव्यतिरेकेणान्यस्यासम्भवे
साध्याविशिष्टत्वात् ।
न द्वितीयः, उभयासिद्धेः, ज्ञानस्य निराकारत्वात् ।
नापि तृतीयः, उल्लेखार्थस्य विशेषणत्वे ऽसिद्धेः ।
तज्ज्ञानजनितस्मृतिमात्रयोगित्वे पूर्वपदज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात् ।
न चतुर्थः, विवेकाग्रहणवादिनामिदमिति ज्ञानस्यापि शुक्तिकालम्बनस्य तद्धेतुत्वेन व्यभिचारात् ।
एतेन रजतमिति प्रत्युक्तम्, पूर्वोक्तपक्षाद्बहिर्भावाभावात् ।
यच्च विमतं ज्ञानं यथार्थं ज्ञानत्वादिति ब्रुवते, तत्रोभयवादिप्रतिपन्नज्ञानव्यक्तेरसिद्धत्वादाश्रयासिद्धिः ।
रजतार्थिनः प्रवृत्त्यन्यथानुपपत्तिपरिकल्पिततज्जनकज्ञानमात्रस्य पक्षीकारे प्रमाणबाधः, स्वसमानविषयेष्टसाधनज्ञानजन्यत्वात्प्रवृत्तेः ।
त्वयाप्येतस्य सम्यग्रजतप्रवृत्तावभ्युपगमात् ।
तत्रापि विवेकग्रहणमात्रस्यैव प्रयोजकत्वे पदानामन्विताभिधायित्वभङ्गप्रसङ्गः ।
बालकस्य स्वात्मनि विवेकाग्रहणमात्रात्प्रवृत्तिं पश्यत उत्तमवृद्धवाक्यप्रयोगानन्तरं प्रवर्त्तमानमध्यमवृद्धप्रवृत्तेरपि तन्मात्रपूर्वकत्वकल्पनात् ।
तदकारणिभूतमपि तत्र विशिष्टज्ञानमव्यभिचारबलेन प्रवृत्तिपूर्वक्षणे कल्प्यते ।
तत्र च शब्दस्य कारणत्वमिति वदतो ऽभ्युपगतसिद्धान्तभङ्गः, तस्य च प्रवृत्तिमात्रेणैव कल्पनाभावात् ।
चक्षुश्चाक्षुषसत्यज्ञानातिरिक्तज्ञानजनकम्, इन्द्रियत्वात्त्वग्वत् ।
विवादपदं स्वस्मारितपदार्थान्वयबोधकम्, आकाङ्क्षासन्निधिमत्पदकदम्बत्वात्सम्प्रतिपन्नवत् ।
न च योग्यतावत्त्वमुपाधिः, अनाकांक्षितासन्निहितपदानां योग्यतावत्त्वे ऽप्यबोधकत्वात् ।
आकांक्षासन्निधिभ्यां विशेषणे विशेष्यवैयर्थ्यात् ।
तस्मादस्त्ययथार्थं ज्ञानम् ।
(2 अप्रमाज्ञानस्य भेदाः--)
तच्च लोकप्रवृत्त्यनुसारेण निश्चयानिश्चयभेदेन भिन्नम् ।
अनिश्चयो ऽप्यनध्यवसायः संशय इति ।
मिथ्यानिश्चयो विपर्ययः ।
विरुद्धकोटिसंस्पर्श्यनिश्चयः संशयः ।
विरुद्धकोट्यसंस्पर्श्यनिश्चयो ऽनध्यवसायः, अस्माभिरप्यनवधारणत्वस्य संशयानध्यवसाययोरभ्युपगतेः ।
तेन चास्मदुक्तावान्तरभेदस्याभ्युपगतत्वाद्भासर्वज्ञेन सहास्माकं नास्ति विप्रतिपत्तिरिति नात्र प्रपञ्च्यते ।
तर्कस्तु नान्यो ऽस्ति, अनध्यवसायलक्षणेनैव संगृहीतत्वात् ।
[3 प्रत्यक्षज्ञानस्य निरूपणम्--]
चक्षुश्चक्षुर्जन्यसविकल्पकव्यतिरिक्तज्ञानजनकम्, इन्द्रियत्वान्मनोवत् ।
विवादपदं प्रत्यक्षम्, वस्तुत्वात्प्रमेयत्वाद्घटवत् ।
प्रत्यक्षसामग्र्यसद्भाव उपाधिरिति कश्चित् ।
तन्न, तस्यापि साधनात् ।

अनुपपन्नमेतद्, बाधितविषयत्वाद्, बाह्येन्द्रियासम्बद्धविषयत्वात्, मनसो बाह्ये ऽर्थे ऽस्वातन्त्र्यात् ।
अन्यथातिप्रसङ्गादिति चेत्, नातिप्रसङ्गो हि बाधकः स्यात्, तन्नियामकमुखेन साधको ऽपि भविष्यति ।
आत्मा ज्ञातव्य इति वाक्यप्रसिद्धो योगजो धर्मः सर्वदर्शित्वादिफलकः ।
न च नासौ धर्मकल्पकः, तेन विनानुपपत्तेरभावादिति साम्प्रतम्, योगवतां विशिष्टकुले ऽप्युत्पादस्य तत्त्वज्ञानोपयोगिनो धर्मविशेषमन्तरेणासम्भवात् ।
यदाह भगवान् स्वयमेव-- `शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायतेऽ (गी 6.11) इति ।
अस्मदादिज्ञानोत्पत्त्यर्थमिन्द्रियमर्थेन संयोगसमवायावपेक्ष्य यथायोगं करोति ।
संयुक्तसमवायस्तु न संयोगसमवायव्यतिरेकेणान्यो ऽस्ति ।
अन्यथा पदार्थान्तरत्वप्रसङ्गादिति न प्रपञ्च्यते ।
नित्यमीश्वरज्ञानं यथार्थपरोक्षमिति प्रत्यक्षम् ।
(4 अनुमितिज्ञानस्य निरूपणम्--)
(4.1 स्यादेतत् --) अनुमितौ किं प्रमाणमिति चेत्, प्रत्यक्षमिति ब्रूमः ।
भवति हि वह्निमान् पर्वत इति ज्ञानमिति हि दूरदेशस्थस्य कस्यापि मतिः ।
तथापि तेन तस्यानुमितित्वं कथमवगम्यते इति मा वोचः, प्रत्यक्षत्वेऽ पि समानत्वात् ।
तत्कारणानुमाने किं प्रमाणमित्यपि न वक्तव्यम्, तत्किं प्रमाणमात्रं सिद्धम्, येन विशेषे प्रश्नः स्यात्? तत्सिद्धौ चानेन प्रमाणेनान्वयव्यतिरेकापरनाम्ना प्रत्यक्षसामग्रीप्रविष्टेनान्येन वा सिद्धिरिति यत्किञ्चिदेतत् ।
(4.2 व्याप्तिस्वरूपम्--) ननु करणं भवद्भिरुच्यमानमनुपपन्नम्, व्याप्तेरभावात्, सिद्धायां वा ज्ञातुमशक्यत्वात्, न, निरुपाधिकसम्बन्धस्य व्याप्तित्वात् ।
कः पुनरुपाधिरिति चेत्, येन विना ययोः सहभावादर्शनं तत्र येन यस्य व्यभिचारः, स तस्मिन्नुपाधिरिति ।
दृष्टान्तमात्रव्यापको वा, साधनव्यापकत्वे सति साध्यव्यापको वा ।
स द्विविधः--- अन्वयोपाधिर्व्यतिरेकोपाधिरिति ।
उभावपि शङ्कितौ निश्चितौ च ।
विवादपदं सत्तारहितं जातित्वात्सत्तावदित्यत्र सत्तास्वरूपमुपाधिः शङ्क्यते ।
अग्निषोमीयहिंसा पापसाधनं हिंसात्वादित्यत्र निषिद्धत्वमुपाधिर्निश्चीयते, साधनेनाविनाभावाभावे ऽपि साध्येन सह सुवर्णस्तेयादिषुपाधेरनुगमदर्शनात् ।
क्षित्यादिकमकर्तृकं शरीरिणाजन्यत्वाद्व्योमवदित्यत्राजन्यत्वमुपाधिर्निश्चितः, विशिष्टस्य प्रयोजकत्वकल्पनायां प्रमाणाभावात् ।
सर्वं कार्यं नित्यप्रयत्नपूर्वकं कार्यत्वाद्व्यतिरेकेणाकाशवदित्यत्राप्रयत्नपूर्वकत्वमुपाधिः ।
साध्ये विशेषणस्योपादानमन्वयिनि दूषणम्, व्यतिरेकिणि तु तदभावस्य साधनत्वेनोपयोगे तस्य व्यवच्छेदकत्वे नोपयोग इति विशेषणवैयर्थ्यम् ।
धूमगतकटुकत्वादिवद् दूषणमेव ।
एतेन शङ्कितोपाधिरप्यूह्यः ।
साध्यसाधनभावश्च व्याप्तिस्थल एव विवक्षित इति ।
व्यतिरेकेणापि तत्रान्वयिसमानत्वमेवेति चरमलक्षणस्यापि तत्र सम्भवः ।
न चोपाध्यभावो ज्ञातुं न शक्यते ।
अदृष्टानां प्रथमपिण्ड एवाभावेनोपाधित्वानुपपत्तेः ।
न ह्यविद्यमानं जपाकुसुममुपाधिर्भवति ।
तेषां पञ्चपिण्डादर्शनेनाभावो निश्चीयते ।
अतीन्द्रियोपाधिप्रसञ्जनं तु नानुमानमात्रसद्भावे ऽपि भवितुमर्हति, निर्बीजत्वात् ।
अनुमानविशेषे तु वादिप्रतिवाद्यभ्युपगतं तत्पदार्थविशेषस्वरूपनिरूपणेन निराकर्तव्यमिति ।
(4.3 परार्थानुमानम्--) तत्र प्रतिज्ञाहेतुनिदर्शनानुसन्धानप्रत्याम्नानात्मकं वाक्यरूपं परार्थानुमानम् ।
तत्राकांक्षाक्रमेण लौकिकपदप्रवृत्तेः ।
सिद्धसाध्यतायाश्च परिहारार्थमाश्रयज्ञानस्य च प्रथममाकांक्षितत्वात् प्रथमतः प्रतिज्ञावचनम् ।
तदनन्तरं हेतोः, तदाश्रयत्वात् ।
कारणमात्रसिद्धौ विशेषे जिज्ञासायां सत्यामाकांक्षापर्यालोचनया हेतुमात्रस्यैव वचनम् ।
तदनु धर्मजिज्ञासायां सत्यां व्याप्तेराकांक्षितत्वात्तन्निरूपणम् ।

तदनन्तरं सर्ववाक्यानामेकवाक्यताप्रतिपादनाय साध्यसिद्धेरभिलषितायाः ख्यापनाय निगमनवचनम् ।
तथा हि शब्दो ऽनित्यः कार्यत्वाद्, यत्कार्यं तदनित्यं यथा घटः, कार्यश्च शब्दः, तस्माच्छब्दो ऽनित्यः ।
पक्षवचनं प्रतिज्ञा, हेतुवचनमपदेशः, दृष्टान्तवचनमुदाहरणम्, दृष्टान्तवचनानन्तरहेतुवचनमुपनयः, उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनम् ।
गम्यमानार्थत्वान्निगमनं न प्रयोक्तव्यमिति चेन्न, तस्यादूषणत्वात् ।
अन्यथा हेतुमात्रमेव प्रयोक्तव्यं स्याद्, विदुषां विशिष्टार्थस्यार्थादेव प्रतीतेः ।
(4.4 अवयवद्वयवादः--)
वयं तन्न बुध्यामहे, साधनानुपयुक्तवचनस्याधिकत्वात् ।
प्रतिवादिना हि साधनजिज्ञासा कृता किं प्रमाणमिति ।
तत्र यावदङ्गविशिष्टं साधनम्, तावद् वक्तव्यम् ।
अङ्गे च द्वे एव व्याप्तिपक्षधर्मत्वे ।
न हि ततो ऽधिकं प्रवृत्यङ्गम् ।
तदधिकभूतं ज्ञातव्यं किमस्ति? कालात्ययापदिष्टस्यानैकान्तिके ऽन्तर्भावात् ।
निरुपाधिकानुमानद्वयस्य चैकत्रासम्भवात् ।
सम्भवे वा वस्तुनो द्व्यात्मकत्वं को निवारयेत्? निरुपाधिकस्य साध्यपरित्यागे स्वभावपरित्यागप्रसङ्गात् ।
तदेवं स्थिते रूपद्वये, तत्प्रतिपादनार्थं वचनद्वयमेव वक्तव्यम्, हेतोः पक्षधर्मतावचनेन विशिष्टवाचिना तत्सिद्धेः ।
तस्माद्यत्कार्यम्, तदनित्यं यथा घटः, कार्यश्च शब्द इत्यन्वयिनि ।
यन्नित्यम्, तदकार्यं यथा व्योम, कार्यश्च शब्द इति व्यतिरेकिणि ।
तस्मादवयवद्वयमेव प्रयोक्तव्यम् ।
अन्वयव्यतिरेकीत्यपरो नेष्यते, एकेनैवानुमितिसिद्धौ समुदितस्य हेतुत्वे प्रमाणाभावात् ।
अविनाभावजनितपरोक्षानुभवो ऽनुमितिः तत्साधकतममनुमानम् ।
तल्लक्षणरहितं तत्सदृशमनुमानाभासम् ।
(4.5 हेत्वाभासाः--) तच्चासिद्धविरुद्धानैकान्तिकभेदभिन्नम् ।
अनिश्चितपक्षवृत्तिरसिद्धः, शब्दो ऽनित्यः चाक्षुषत्वादिति ।
स चोभयासिद्धो ऽन्यतरासिद्धश्च ।
पक्षविपक्षयोरेव वर्तमानो हेतुर्विरुद्धः, नित्यः शब्दः कार्यत्वादिति ।
असाधकत्वज्ञापकत्वं हि दूषणम् ।
साध्यविपरीतानौपाधिकसम्बन्धितया विरुद्धस्य लिङ्गता ।
ननु साध्यविपरीतगामिता क्वचिद्व्यभिचरति, येनानौपाधिकत्वे समर्थं स्यादतो विशिष्टं न दूषणमिति चेत् ।
तन्न, जल्पवादयोर्हि परसाधनं निवर्त्य स्वपक्षे साधनं वाच्यम्, अतो लाघवाय विशिष्टोपन्यासः ।
साधनान्तरं तु न वाच्यमेव ।
वितण्डायां तु विपक्षवृत्तिता परमुद्भाव्या, अनुमित्युत्पत्तिप्रतिबन्धकत्वं च दूषणम् ।
साध्यतदभावयोर्वर्तमानत्वेन ज्ञातो ऽनैकान्तिकः ।
स च निश्चितः, शङ्कितश्च ।
स कः? अनित्यः शब्दः, प्रमेयत्वादिति निश्चितः ।
मनो विभु, सर्वदा स्पर्शरहितद्रव्यत्वादिति शङ्कितः, सोपाधिकत्वात् ।
(4.6 दृष्टान्ताभासः--)
दृष्टान्ताभासस्तु साध्यविकलसाधनविकलव्याप्त्यकथनविपरीतव्याप्तिकथनाश्रयहीनाः ।
साधर्म्योदाहरणवैधर्म्योदाहरणे साध्यव्यावृत्तसाधनव्यावृत्ताव्याप्तिकथनविपरीतव्याप्तिकथनादीनामुदाहरणानि तु प्रशस्तपादैरभिहितानीति न प्रपञ्च्यन्ते ।
उभयविकलस्तु नास्ति, तस्य साध्यसाधनविकलाभ्यामनतिरेकात् ।
न हि कालात्ययापदिष्टानैकान्तिकत्वं नाम समुदितमस्ति दूषणम् ।

(5 आर्षज्ञानस्य निरूपणम्--)
आर्षसद्भावे किं प्रमाणमिति चेत्, प्रत्यक्षमिति ब्रुमः ।
अस्ति तावद्विप्रतिपन्ना प्रतिभा क्वचिदर्थाविसंवादिनी ।
तस्या अनधिगतार्थगन्तृत्वादनुभूतित्वं सिद्धम् ।
न चैतदतिरिक्तं प्रामाण्यं नाम यत् साधनीयमवशिष्यते ।
न चार्थाविसंवादित्वमेव नास्ति, बाधकाभावात् ।
न च प्रतिभात्वादर्थविसंवादः, अपरोक्षत्वात् ।
अन्यथा प्रत्यक्षस्यार्थविसंवादप्रसङ्गात् ।
ननु ज्ञानाविसंवादित्वग्राहकप्रत्येक्षण तत्पूर्वकाबाधिततत्प्रवृत्तिभ्यां तज्ज्ञानविषयीकृतार्थस्य यथार्थस्य क्रियाकारित्वेन बाधितविषयत्वादनुमानस्यैव दुर्बलत्वमिति चेत्, समः समाधिः ।
प्रतिभात्वाविशेषे ऽपि कथमेकस्य संवादित्वम्, अपरस्य विसंवादित्वमिति चेत्, न, अपरोक्षत्वाविशेषे ऽपि प्रत्यक्षस्य कस्यचित्संवादित्वं कस्यचिदिति कुतः? अवान्तरवैजात्यादिति चेत्, तुल्यमस्तु प्रतिभायां प्रामाण्यम् ।
तथापि पूर्वयोरन्तर्भाव इति चेत्, न, अविनाभावानपेक्षत्वेनानुमितावनन्तर्भावात् ।
परोक्षत्वान्न च प्रत्यक्षम् ।
कथं पुनरस्याः परोक्षत्वमिति चेत्, अनुमितेरपि परोक्षता कथम्? इन्द्रियव्यापाराभावे उत्पद्यमानत्वादिति चेत्, समानमेतत् ।
अन्तःकरणस्य व्यापारो ऽस्तीति चेत्, समानम् ।
धर्मविशेषजत्वाद्योगिप्रत्यक्षान्तर्भूतमिति चेत्, न, धर्मविशेषजत्वासिद्धेः, धर्मविशेषमात्रजन्यत्वस्य व्यभिचारात् ।
अविनाभावनिरपेक्षः सम्यक् परोक्षानुभव आर्षः ।
स्वसमानविषयसंस्कारजं स्मरणम् ।
यथार्थस्य प्रमाणभावे नास्ति विप्रतिपत्तिः, परैरपि तस्य सम्यगनुभवत्वाभ्युपगमात्, तार्किकैरपि यथार्थज्ञानत्वस्य तत्रानिराकरणात् ।
तस्मात्सम्यगनुभवः प्रमेति पूर्वाचार्याः ।
यथार्थं ज्ञानं प्रमेति नवीनाः ।
अयमेव च भाष्यकर्त्तुरभिप्राय, अन्यथा प्रमाणमध्ये तत्पठनमसङ्गतं स्यात् ।
न हि प्रमितिविद्याशब्दयोर्लोके ऽर्थभेदो ऽस्ति ।
तस्माच्चतुर्विधं प्रमाणम् ।
((तथा श्रुतिस्मृतिप्रत्यक्षमैतिह्यमानचतुष्टयमिति । ))
(6 शब्दप्रमाणस्यानुमाने ऽन्तर्भावनिरूपणम्--)
ननु ततो ऽतिरिक्तान्यपि शब्दादीनि सन्तीति चेत्, न अप्रसिद्धेः ।
नद्यास्तीरे पञ्च फलानि सन्तीति वाक्यादर्थप्रत्ययो जायते इति चेत्, अत्र कस्य कारणत्वमिति विभाव्यताम्--- न प्रत्यक्षस्य, अर्थस्याविस्पष्टत्वात् ।
नानुमानस्य व्याप्तेरभावात् ।
न हि नद्यास्तीरे पञ्च फलानि सन्तीति वाक्येन नदीतीरफलसम्बन्धस्याव्यभिचरितः सम्बन्धः, अनाप्तवाक्ये तदभावात् ।
आप्तत्वे सतीति विशेषणे पूर्वमर्थसिद्धेरसिद्धो वाक्यार्थः, सम्यग्ज्ञानवत एव तत्त्वात् ।
तदेतदसत्, पुरुषविशेषोक्तत्वस्य हेतुविशेषणत्वेनैवोपादानात् ।
तेन च प्रोक्तस्याप्यनुमानान्नाप्रयोजकता ।
यत्र तु तदुक्तस्यापि व्यभिचारः क्वचित्, तत्र तद्व्यतिरिक्तत्वे सतीत्यपि विशेषणम्, विशिष्टस्य व्याप्तिबलेन साधनत्वम् ।
यत्र तु व्यभिचारस्थलं स्यात्, तत्र नार्थनिश्चयः, किन्तु सन्देह एव, एतावतापि लौकिकानामर्थे सन्देहादेव प्रवृत्तिसिद्धेः ।
(7 वेदानां पौरुषेयत्वनिरूपणम्--)
वेदस्य पुरुषविशेषकृतत्वाभावेन कथमनुमानमिति चेत्, तर्ह्याप्तोक्तत्वस्याप्यभावेनाप्रामाण्यप्रसङ्गात् ।
न च स्वतः प्रामाण्यं वेदस्य, सम्यङ्मिथ्याबोधसाधारणातिरिक्तकारणजन्यत्वात् ।
तथा हि प्रमा सम्यङ्मिथ्याबोधसाधारणातिरिक्तकारणजन्या, कार्यत्वाद्, अप्रमाण्यवत् ।
सम्यक्त्वं नियतज्ञाने ऽपि कदाचिन्न निर्धार्यते, निश्चयत्वानिश्चये ऽपि सन्देहविषयत्वाद्, अप्रमावत् ।
विवादास्पदं कार्यम्, वेदजन्यमतिजम्, कार्यत्वाद्घटवत् ।

ईश्वरकृतत्वाविशेषे ऽपि बुद्धादिवाक्यानामागन्तुकदोषसमवधानादप्रामाण्यम्, बुद्धादीनामनाप्तत्वात् ।
वेदार्थो वेदनिरपेक्षप्रमितिवेद्यो, मेयत्वाद्घटवत् ।
वेदार्थो वेदनिरपेक्षस्वालम्बनमत्याधारविरचितवाक्यमेयो मेयत्वात्, सम्प्रतिपन्नवत् ।
यच्च वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् ।
वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥
(श्लो वा वाक्य 366)
तत्र च गुर्वध्ययनपूर्वकत्वमात्रे सिद्धसाध्यता ।
ब्रह्मणो ऽपि जीवविशेषस्य सुप्तप्रबुद्धवत्कल्पान्तरानुभूतवेदस्मरणात् ।
न च प्रवाहविच्छेदादप्रणेतृपूर्वकत्वप्रसङ्गः, उच्चार्यमाणवाक्यसदृशवाक्यज्ञाननिरपेक्षस्यैव तत्र कर्तृत्वाभ्युपगमात् ।
स्वतन्त्रपुरुषप्रणेतृत्वविवक्षायां तु साध्यविकलत्वम् ।
उभयवादिसम्प्रतिपन्नपक्षाङ्गीकारे ऽपि सिद्धसाध्यता ।
अपरत्र चाश्रयासिद्धिः ।
भारताध्ययनादेरपि एवं कुशंक्यत्वात् ।
तत्संप्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृकत्वादिति तु मम? तव? उत यस्य कस्य साधारण्येन वेति? प्रथमतृतीयचतुर्थेष्वसिद्धिः ।
द्वितीये तु व्यभिचारः ।
अत एव मदनुमाने ... {ओने लिने लोस्त् इन् थे म्स्.} अन्यथा सिद्धसाधनत्वादकार्यत्वं चोपाधिः ।
(8 उपमानप्रमाणस्यानुमाने ऽन्तर्भावनम्--)
उपमानं तु मदीया गौरनेन सदृशीति गोसदृशगवयमालोकयतो ऽनुमानमेव ।
कथमिति चेत्, भवति हि पूर्वं गवि गवयसादृश्यमित्यनुमितिः ।
अनुगतधर्मस्य गवये ऽपि वर्तमानस्य प्रत्यक्षग्रहणार्हत्वात्, मानान्तरोपनीतस्यापि विशेषणत्वोपपत्तेः ।
अथवा मदीया गौरनेन सदृशी, स्वसादृश्येनैतदवच्छेदकत्वाद्, भ्रातृभगिनीवत् ।
अन्यथा गवयसादृश्यस्याप्यग्रहणप्रसङ्गात् ।
प्रत्यक्षमते तदनु विशेषणविशेष्यभावस्य कामचारत्वदर्शनेन सादृश्यावच्छिन्नगव्यनुमानम् ।
संज्ञासंज्ञिसम्बन्धकः स्वसन्दिग्धे न्यायसम्पादितव्यक्तिः पश्चान्निश्चितवाक्यार्थमवबुध्यते इति ।
सादृश्यमात्रस्य गवयपदवाच्यते अप्रतीतगूनामव्यवहारप्रसङ्गपर्यालोचनया निर्निमित्तप्रश्नाननुगुण्यचिन्त्यमानाप्तस्यान्यथाकथकत्वासम्भावनेन च सादृश्यस्योपलक्षणत्वे निर्णीते तदेव वाक्यं गवयपदस्य गवयत्वनिमित्तत्वं बोधयति ।
गवयशब्दः गवयत्ववाचकः, असति वृत्त्यन्तरे ऽभियुक्तैः प्रयुज्यमाननैमित्तिकपदत्वाद्गोत्वे गोशब्दवत् ।
न च विशेषणासिद्धिः, वृत्त्यन्तराभावत्वस्य त्वयाप्यभ्युपगतत्वात् ।
अन्यथानुमानस्याप्रवृत्तिः, अनुग्राहकतर्काभावात् ।
विवादपदं गवयपदनिमित्तम्, विशिष्टजातित्वाद्व्यतिरेकेण गोत्ववदिति ।
(9 अर्थापत्तेरप्यनुमानत्वोपवर्णम्--)
अर्थापत्तिरप्यनुमानम् ।
तथा हि सम्बन्धबोधमन्तरेणानुपपद्यमानार्थदर्शने ऽपि प्रमितेरुपपत्तिः, बुद्धे तु सम्बन्धे भवतो ऽप्यनुमितिरेव ।
प्रमाणद्वयविरोधो ऽपि सावकाशानवकाशयोः सावकाशस्य विषयसंकोच इति व्याप्तिदर्शनवतो गेहानुपलब्धिं निरवकाशां पश्यतस्तद्विरोधिजीवनवाक्यं सावकाशं पश्यतस्तस्य वाक्यस्य बहिर्विषयत्वप्रमितिरनुमितिरेव ।
श्रुतार्थापत्तिस्तु न शङ्कामप्यारोहति, वाक्यमन्तरेण वाक्यानुपपत्तेरभावात् न हि पीनो देवदत्तो दिवा न भुंक्तेऽ इति वाक्यं `रात्रौ भुंक्तेऽ इति वाक्येन विनानुपपन्नम् ।
शाब्दी ह्याकांक्षा शब्देनैव परिपूर्यते, न हि पचतीति पदं प्रत्यक्षादिना निराकांक्षमपि तु ओदनपदेनेति चेत्, न, अस्मिन् वाक्ये आकांक्षायोग्यतयोरभावात् क्रियाकारकयोः सम्पूर्णत्वात् ।
पीनत्वं भोजनेन विना ऽनुपपन्नम्, भोजनकार्यत्वादिति चेत्, न तर्ह्याकांक्षाविरहः, योग्यताविरहस्तु स्यात् ।
न च सो ऽप्यस्ति त्रैकालिकभोजननिषेधे हि स स्यात्, न ह्यभुक्त्वा पीनः क्षणमपि तिष्ठति ।
त्रैकालिकभोजननिषेधस्तु विशिष्टकार्याद्रात्रिभोजनकारणानुमानं स्वैरं प्रवर्तताम्, न रात्रिवाक्यकल्पनावकाशः ।
अस्तु तर्हि पचतीत्यत्रैवोदनपदकल्पना श्रुतार्थापत्तिरिति चेत्, तत्राप्यर्थस्यैव कल्पनात् ।
शब्दाक्षिप्तो ऽपि शब्द एवेति नियमे ऽतिप्रसङ्गः ।

अथवा तथाविधपदस्य विशिष्टसंसर्गेणैव व्याप्त्या तत्कल्पनमिति ।
अपि च केयमाकांक्षा नाम? जिज्ञासेति चेत्, सा तु कुतः? शब्दार्थयोरपर्यवसानादिति चेत्, तर्हीष्टापत्तिरेव ।
न चैवं शब्दविलोपप्रसङ्गः, इष्टत्वात्, तस्य वाक्यानुमाने ऽन्तर्भावो ऽभ्यधायि ।
(10 अनुपलब्धेः प्रत्यक्षे ऽन्तर्भावः--)
अभावः प्रत्यक्षः, प्रमेयत्वाद्, घटवत् ।
न चेन्द्रियार्थसम्बन्धाभावो बाधकः, असम्बद्धस्यापि प्रत्यक्षत्वे को दोषः? अतिप्रसङ्ग इति चेत्, तत्परिहारिका दृश्यानुपलब्धिर्भविष्यति ।
न च तावन्मात्रस्य कारणत्वमस्तीति वाच्यम्, अन्धस्यापि शुक्लपटे पीतत्वाभावप्रतीतिप्रसङ्गात् ।
न हि प्रतियोगी येनैवेन्द्रियेण गृह्यते, तेनैवाश्रयो ग्रहीतव्यः व्योम्नि स्पर्शाभावग्रहणप्रसङ्गात् ।
स्मर्यमाणे ऽपि देवकुले देवदत्ताभावसंविदो ऽभ्युपगमात् ।
विस्तरस्तु न्यायलक्ष्मीविलासे इत्युपरम्यते ।
(13--14 सुखदुःखयोर्निरूपणम्--)
प्रत्यक्षेण सुखमुपलभ्यते, अहं सुखीति व्यवहारदर्शनात् ।
न च दुःखाभाव एव सुखम्, सत्यपि दुःखे तद्व्यवहारदर्शनात् --- सन्तापवतः शीतह्रदे निमग्नार्धकायस्य सुख्यहमिति मतेः ।
कतिपयदुःखाभावश्च नारकीयस्याप्यस्ति ।
न च तन्नित्यम्, कारणविशेषोपादानवैयर्थ्यं स्यात् ।
ज्ञायमानं निरुपाधिकृतिव्याप्यं सुखम् ।
एवं दुःखमिति वक्तव्यम् --- निरुपाधिकहेयं दुःखम् ।
(15--17 इच्छाद्वेषप्रयत्नानां निरूपणम्--)
कर्म प्रयत्नसाधनगुणजन्यम्, कर्मत्वाद्व्यतिरेकेण घटवत् ।
कर्मकारणमपि विप्रतिपन्नो गुणो ज्ञानजन्यः, कर्मकारणगुणत्वात् ।
तत्तत्कारणस्य सुखदुःखज्ञानस्य वैजात्यात्कार्यस्य वैजात्यमिति इच्छाद्वेषप्रयत्नसिद्धिः ।
तत्रेच्छाप्रयत्नावपि नित्यावनित्यौ च बुद्धिवत् ।
कर्मकारणगुणनिमित्तसुखज्ञानजन्येन गुणत्वावान्तरजातीयेच्छा ।
कर्मकारणगुणनिमित्तदुःखज्ञानजन्येन गुणत्वावान्तरजातीयो द्वेषः ।
अस्मदादिप्रत्यक्षचेष्टानिमित्तेन गुणत्वावान्तरजातीयः प्रयत्नः ।
(18-20 गुरुत्वद्रत्वस्नेहानां निरूपणम्--)
(1 गुरुत्वम्--) विवादपदमसमवायिकारणजन्यम्, कर्मत्वात्, सम्प्रतिपन्नवत् विप्रतिपन्नमस्मदाद्यप्रत्यक्षम्, गुरुत्वाद्, व्यतिरेकेण घटवत् ।
आद्यपतनासमवायिकारणेन गुणत्वावान्तरजातीयं गुरुत्वम् ।
(2 द्रवत्वम्--) स्यन्दनमसमवायिकारणजन्यम्, कार्यत्वाद्, घटवदिति द्रवत्वसिद्धिः ।
प्रत्यक्षेण च ।
आद्यस्यन्दनासमवायिकारणेन गुणत्वावान्तरजातीयं द्रवत्वम् ।
तैजसाः परमाणवो द्रवत्वाधाराः, रूपिपरमाणुत्वात् पार्थिवपरमाणुवत् ।
न च गुरुत्वरसवत्त्वे उपाधी, घटे साध्याभावात् ।
न च परमाणुत्वविशिष्टमेतदुपाधिः, घृतादौ साध्यसिद्धत्वे ऽप्यभावात्साध्याव्यापकत्वम् ।
(3 स्नेहः--) उदकं गुणत्वावान्तरजात्या स्वाश्रयव्यावर्त्तकगुणाश्रयः, रसवत्वात्, पृथिवीवत् ।
न च पृथिवीत्वमुपाधिः, सपक्षाव्यापकत्वात् ।
तदेवं स्थिते प्रत्यक्षेणापि स्नेहः सिद्धः ।
चक्षुःस्पर्शनग्राह्यत्वे सति गुणत्वावान्तरजात्या स्वाश्रयव्यवर्तकः स्नेहः ।
(21 संस्कारस्य निरूपणम्--)
(1 वेगः--) विमतिपदमद्विष्ठकर्मासमवायिकारणाश्रयः परमाणुत्वात्, पार्थिवपरमाणुवत् ।

मूल पाठ: Mānamanohara · Edition: Swami Yogindrananda, 1973 Varanasi : Ṣaḍdarśanaprakāśana pratiṣṭhāna · Data entry Diwakar Acharya with assistance from Raju Rimal · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc