मैत्रेयव्याकरण · श्लोक 71-90
सङ्घे दत्त्वा च दानानि चीवरं पानभोजनम्
विविधं ग्लानभैषज्यम् आगता हि ममान्तिकम् ॥
कुङ्कुमोदकसेकं च चन्दनेनानुलेपनम्
दत्त्वा शाक्यमुनेः स्तूपेष्व् आगता हि ममान्तिकम् ॥
शिक्षापदानि चादाय शाक्यसिंहस्य शासने
परिपाल्य यथाभूतम् आगता हि ममान्तिकम् ॥
उपोषधम् उपोष्येह आर्यम् अष्टाङ्गिकं शुभम्
चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा
प्रातिहारिकपक्षं चाप्य् अष्टाङ्गं सुसमाहितम् ॥
शीलानि च समादाय संप्राप्तानि च शासनम्
बुद्धं धर्मं च सङ्घं च सत्त्वास् ते शासनं गताः
कृत्वा च कुशलं कर्म मच्छासनम् उपागताः ॥
तेनैते प्रेषिताः सत्त्वाः प्रतीष्टाश् च मयाप्य् अमी
गणिश्रेष्ठेण मुनिना परीता भूरिमेधसा ॥
प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति
श्रुत्वा च ते ततो धर्मं प्राप्स्यन्ति पदम् उत्तमम् ॥
प्रातिहार्यत्रयेणासौ श्रावकान् विनयिष्यति
सर्वे ते अस्रवास् तत्र क्षिपयिष्यन्ति सुरताः ॥
प्रथमः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णाः षण्नवतिकोट्यः श्रावकाणां भवच्छिदाम् ॥
द्वितीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णाश् चतुर्नवतिः कोट्यः शान्तानां भूरिमेधसाम् ॥
तृतीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णा द्वाविंशतिः कोट्यः शान्तानां शान्तचेतसाम् ॥
धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान्
सार्धं श्रावकसङ्घेन पुरे पिण्डं चरिष्यति ॥
ततः प्रविशतस् तस्यां रम्यां केतुमतीं पुरीम्
मान्दारकाणि पुष्पानि पतिष्यन्ति पुरोत्तमे
देवताः प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ ॥
चत्वारश् च महाराजाः शक्रश् च त्रिदशाधिपः
ब्रह्मा देवगणैः सार्धं पूजां तस्य करिष्यति ॥
उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकम्
अगुरुं चन्दनं चापि दिव्यं माल्यं पतिष्यति ॥
चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः
तं लोकनाथम् उद्वीक्ष्य प्रविशन्तं पुरोत्तमम् ॥
दिव्यश् च तूर्यनिर्घोषो दिव्यं माल्यं पतिष्यति
देवता प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ ॥
ये तु केतुमतीं के चिद् वासयिष्यन्ति मानुषाः
ते पि तं पूजयिष्यन्ति प्रविशन्तं पुरोत्तमम् ॥
पथि भूम्यास्तरं तत्र मृदुतूलपिचोपमम्
विचित्रं च शुभं माल्यं विकिरिष्यन्ति ते तदा ॥
छत्त्रध्वजपताकाभिर् अर्चयिष्यन्ति मानुषाः
शुभैश् च तूर्यनिर्घोषैः प्रसन्नमनसो नराः ॥
मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0