मैत्रेयव्याकरण · श्लोक 87-4
छत्त्रध्वजपताकानि गन्धमाल्यानुलेपनैः
श्रुतैश् च तूर्यनिर्घोषैः प्रसन्नमनसो नराः
शास्तुः पूजां करिष्यन्ति देवपुत्रा महर्द्धिकाः ॥
स च शक्रः सहस्राक्षो देवराजो महाद्युतिः
प्रहृष्टः प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् ॥
नमस् ते पुरुषाजन्य नमस् ते पुरुषोत्तम
अनुकम्पस्व जनतां भगवन्न् अग्रपुद्गल ॥
महर्द्धिको देवपुत्रस् तस्य मारो भविष्यति
स चैव प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् ॥
ब्राह्मणपरिवारेण ब्रह्मा चैव पुरस्कृतः
कथयिष्यति सद्धर्मं ब्रह्मघोषम् उदीरयन् ॥
आकीर्णा पृथिवी सर्वा अर्हद्भिश् च भविष्यति
क्षीणास्रवैर् वान्तदोषैः प्रहीणभवबन्धनैः ॥
हृष्टा देवा मनुष्याश् च गन्धर्वा यक्षराक्षसाः
शास्तुः पूजां करिष्यन्ति नागाश् चापि महर्द्धिकाः ॥
ते च नूनं भविष्यन्ति अखिलाश् छिन्नसंचयाः
छिन्नस्रोता अनादीना उत्तीर्नाभवसागराः
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥
ते वै नूनं भविष्यन्ति अममा अपरिग्रहाः
अजातरूपरजता अनिकेता असंस्तवाः
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥
ते वै नूनं भविष्यन्ति छिन्नजालविशक्तिकाः
ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥
षष्टिवर्षसहस्राणि मैत्रेयो द्विपदोत्तमः
देशयिष्यति सद्धर्मं सर्वभूतानुकम्पकम् ॥
शतलक्षसहस्राणि प्राणिनं स विनायकः
विनयित्वा च सद्धर्मं ततो निर्वाणम् एष्यति ॥
परिनिर्वृतस्य x x तस्यैव x महामुनेः
दशवर्षसहस्राणि सद्धर्मः स्थास्यते तदा ॥
प्रसादयित्वा चित्तानि तस्मिन् शाक्यमुनौ जिने
ततो द्रक्ष्यथ मैत्रेयं संबुद्धं द्विपदोत्तमम् ॥
इदम् आश्चर्यकं श्रुत्वा इमाम् ऋद्धिम् अनुत्तमाम्
को विद्वान् न प्रसीदेत अतिकृष्णाभिजातिकः ॥
तस्माद् इहात्मकामेन माहात्म्यम् अभिकाङ्क्षिणा
सद्धर्मो गुरुकर्तव्यः स्मरता बुद्धशासनम् ॥
छारिपुत्र महाप्रज्ञो धर्मसेनापतिर् विभुः
लोकस्य अनुकम्पार्थं शास्तारं परिपृच्छति ॥
यो ऽसाव् अनागतो बुद्धो निर्दिष्टो लोकनायकः
मैत्रेय इति नाम्ना ऽसौ सूत्रपूर्वापरान्तिके ॥
तस्याहं विस्तरञ् चैवं श्रोतुम् इच्छामि नायक
ऋद्धिञ् चास्यानुभावञ् च तन् मे ब्रूहि नरोत्तम ॥
अथैनम् अवदच् छास्ता व्याकरिष्याम्य् अहं तव
विस्तरन् तस्य बुद्धस्य मैत्रेयस्य शृणोहि मे ॥
मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0