मैत्रेयव्याकरण · श्लोक 67-86
स्त्रीरत्नम् अथ शङ्खस्य विशाखा नाम विश्रुता
अशीतिभिश् चतुर्भिश् च सहस्रैः सा पुरस्कृता
नारीणां सह निष्क्रम्य प्रव्रज्याम् उपयास्यति ॥
प्राणिनां तत्र समये सहस्राणि शतानि च
प्रव्रज्याम् उपयास्यन्ति मैत्रेयस्यानुशासने ॥
ततः कारुणिकः शास्ता मैत्रेयो द्विपदोत्तमः
समितिं व्यवलोक्याथ इदम् अर्थं प्रवक्ष्यति ॥
सर्वे ते शाक्यमुनिना मुनिश्रेष्ठेन तायिना
अर्थतो लोकनाथेन दृष्टाः सद्धर्मधातुना
रोपिता मोक्षमार्गणे विक्षिप्ता मम शासने ॥
छत्त्रध्वजपताकाभिर् गन्धमाल्यानुलेपनैः
कृत्वा शाक्यमुनेः पूजां ह्य् आगता मम शासने ॥
कुङ्कुमोदकरसेन चन्दनेनानुलेपनम्
दत्त्वा शाक्यमुनेः स्तूपे ह्य् आगता मम शासने ॥
बुद्धं धर्मं च सङ्घं च गत्वा तु शरणं सदा
कृत्वा तु कुशलं कर्म आगता मम शासने ॥
शिक्षापदानि समादाय x शाक्यमुनिशासने
प्रतिपाल्य यथाभूतं ह्य् आगता मम शासने ॥
दत्त्वा सङ्घे च दानानि चीवरपानभोजनम्
विचित्रं ग्लानभैषज्यं ह्य् आगता मम शासने ॥
चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा
प्रातिहारकपक्षं च अष्टाङ्गं सुसमाहितम्
उपवासम् उपोषित्वा ह्य् आगता मम शासने ॥
प्रातिहार्यत्रयेणासौ श्रावकान् वेदयिष्यति
सर्वे ते ह्य् अस्रवान् धर्मान् क्षपयिष्यन्ति x x x ॥
प्रथमः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णाः षण्नवतिः कोट्यः श्रावकाणां भवच्छिदाम् ॥
द्वितीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णाश् चतुर्नवतिः कोट्यो मुक्तानां क्लेशबन्धनात् ॥
तृतीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णा द्वानवतिः कोट्यो मुक्तानां शान्तचेतसाम् ॥
धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान्
सार्धं श्रावकसङ्घेन पुरे पिण्डं चरिष्यति ॥
ततः प्रविशतस् तस्य रम्यां केतुमतीपुरीम्
मान्दारवाणि पुष्पानि पतिष्यन्ति नरोत्तमे
देवताः प्रकरिष्यन्ति तस्मिन् पुरगते मुनौ ॥
चत्वारश् च महाराजाः शक्रश् च त्रिदशाधिपः
ब्रह्मदेवगणैः सार्धं पूजां तस्य करिष्यति ॥
उत्पलकुमुदपद्म पुण्डरीकसुगन्धिकम्
अगुरुं चन्दनं चैव दिव्यमालास् तथैव च ॥
चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः
तं लोकनाथम् उद्वीक्ष्य प्रविशन्तं पुरोत्तमम् ॥
पथि भूमिः स्थिता तत्र मृदुतूलपिचूपमा
विचित्रं च श्रुतं माल्यं विस्तरिष्यन्ति ते पथि ॥
मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0