भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण · श्लोक 5-24

5

उदधिस् तेन कालेन द्वात्रिंशत्शतयोजनः
शोषम् आयास्यते यस्माच् चक्रवर्ती यथा ह्य् असौ ॥

6

दशयोजनसाहस्रा जम्बुद्वीपो भवैष्यति
आलयः सर्वभूतानां विस्तरेण समन्ततः ॥

7

ऋद्धिस्फीता जनपदा अदण्डा अनुपद्रवाः
तत्र काले भविष्यन्ति नरास् ते शुभकर्मिनः ॥

8

अकण्टका वसुमती समाहरितशाद्वला
उन्नमन्ती नमन्ती च मृदुतूलपिचूपमा ॥

9

अकृष्टोत्पद्यते शालि मधुनाश् च सुगन्धि च
चैलवृक्षा भविष्यन्ति नानारङ्गोपशोभिताः ॥

10

पुष्पपत्रफलोत्पता वृक्षाश् च क्रोशम् उच्छ्रिताः
अशीतिवर्षसहस्राणि आयुस् तेषां भविष्यति ॥

11

निरामयाश् च ते सत्वा वीतशोका महोत्सवाः
वर्णवन्तो महाशख्या महानागबलाच् चिताः ॥

12

त्रया रोगा भविष्यन्ति इच्छा अनशनं जरा
पञ्चवर्षशता कन्या स्वामिनम् वरयिष्यति ॥

13

तदा केतुमती नाम राजधानी भविष्यति
आवासः शुद्धसत्वानां प्राणिनां शुभकर्मिणम् ॥

14

योजनद्वादशायामं सप्तयोजनविस्तरम्
नगरं कृतपुण्यानां भविष्यति मनोरमम् ॥

15

सप्तरत्नमयाश् चैव प्रकाराः क्रोशम् उच्चिताः
इष्टका द्वारखण्डानां नानारत्नविभूषिताः ॥

16

परिषाश् च भविष्यन्ति रत्न इष्टकसंचिताः
पद्मोत्पलसमान् कीर्णाश् चक्रवाकोपशोभिताः ॥

17

समन्ततः परिवृताः सप्तभिस् तलापङ्क्तिभिः
चतूरत्नमयास् तालाः किंकिणी जालशोभिताः ॥

18

वातेनेरिततालेभ्यस् तदा श्रुति मनोहराः
भविष्यन्ति शुभा शब्दा तूर्यास् पञ्चाङ्गिका इव ॥

19

ये च तस्मिन् पुरे मर्त्याः क्रीडारतिसुखान्विताः
तेनैव तालशब्देन क्रीडिष्यन्ति प्रमोदिताः ॥

20

पुष्करिणो भविष्यन्ति कुमुदोत्पलसंचेताः
उद्यानवनसंपन्नं भविष्यति च तत् पुरम् ॥

21

भविष्यति तदा राजा शम्खो नाम महाद्युतिः
महाबलचक्रवर्ती चतुर्द्वीपेश्वरः प्रभुः ॥

22

चतुरङ्गबलोपेतः सप्तरत्नसमन्वितः
पूर्णसहस्रपुत्राणां तस्य राज्ञो भविष्यति ॥

23

इमां समुद्रपर्यन्ताम् अदण्डेन वसुन्धराम्
पालयिष्यति धर्मेण समेन स नराधिपः ॥

24

महानिधानाश् चत्वारो नयुतशतलक्षिताः
भविष्यन्ति तदा तस्य राज्ञः शंखस्य भूपतेः ॥

मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc