मैत्रेयव्याकरण · श्लोक 51-70
यूपस्य तस्य मैत्रेयो दृष्ट्वा चैताम् अनित्यताम्
कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति ॥
यत्व् अहं प्रव्रजित्वेह स्पृशेयम् अमृतं पदम्
विमोचयेयं जनतां व्याधिमृत्युजराभयात् ॥
अशीतिभिः सहस्रैः स चतुर्भिश् च पुरस्कृतः
निष्क्रमिष्यति मैत्रेयः प्रव्रज्याम् अग्रपुद्गलः ॥
नागवृक्षस् तदा तस्य बोधिवृक्षो भविष्यति
पञ्चाशद्योजनान्य् अस्य शाखा ऊर्ध्वं समुच्छ्रिताः ॥
निषद्य तस्य चाधस्तान् मैत्रेयो पुरुषोत्तमः
अनुत्तरां शिवां बोधिं समवाप्स्यति नायकः ॥
यस्याम् एव च रात्रौ स प्रव्रज्यां निष्क्रमिष्यति
तस्याम् एव च रात्रौ हि परां बोधिम् अवाप्स्यति ॥
अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः
देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् ॥
प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ॥
आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम्
तं चापि धर्मं संश्रुत्य प्रतिपत्स्यन्ति शासने ॥
उद्याने पुष्पसंच्छन्ने सन्निपातो भविष्यति
पूर्णं च योजनशतं पर्षत् तस्य भविष्यति ॥
श्रुत्वा नरपति राजा शङ्खो नाम महायशाः
दत्त्वा दानम् असंख्येयं प्रव्रज्यां निष्क्रमिष्यति ॥
अशीतिभिश् चतुर्भिश् च सहस्रैः परिवारितः
नराधिपो विनिष्क्रम्य प्रव्रज्याम् उपयास्यति ॥
अनेनैव प्रमाणेन मानवानां पुरस्कृतः
मैत्रेयस्य पिता तत्र प्रव्रज्याम् निष्क्रमिष्यति ॥
ततो गृहपतिस् तत्र सुधनो नाम विश्रुतः
प्रव्रजिष्यति शुद्धात्मा मैत्रेयस्यानुशसने ॥
स्त्रीरत्नम् अथ शङ्खस्य विशाखा नाम विश्रुता
अशीतिभिश् चतुर्भिश् च सहस्रैः संपुरस्कृता
नारीणां अभिनिष्क्रम्य प्रव्रज्याम् रोचयिष्यति ॥
प्राणिनः तत्र समये सहस्राणि शतानि च
प्रव्रज्याम् उपयास्यन्ति मैत्रेयस्यानुशासने ॥
सुपुष्पिते ऽस्मिन् उद्याने सन्निपातो भविष्यति
समन्ततो योजनशतं पर्षत् तस्य भविष्यति ॥
ततः कारुणिकः शास्ता मैत्रेयः पुरुषोत्तमः
समितिं व्यवलोक्याथ इदम् अर्थं प्रवक्ष्यति ॥
सर्वे ते शाक्यसिंहेन गुणिश्रेष्ठेन त्रायिना
अर्थतो लोकनाथेन दृष्ट्वा सद्धर्मधातुना
रोपिता मोक्षमार्गेण विक्षिप्ता मम शासने ॥
छत्त्रध्वजपताकाभिर् गन्धमाल्यविलेपनैः
कृत्वा स्तूपेषु सत्कारम् आगता हि ममान्तिकम् ॥
मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0