भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण · श्लोक 65-84

65

प्राणिनां तत्र समये सहस्राणि शतानि च
प्रव्रज्याम् उपयास्यन्ति मैत्रेयस्यानुशासने ॥

66

ततः कारुणिकः शास्ता मैत्रेयो द्विपदोत्तमः
समितिं व्यवलोक्याथ इदम् अर्थं प्रवक्ष्यते ॥

67

सर्वे ते शाक्यमुनिना मुनिश्रेष्ठेन तायिना
अर्थतो लोकनाथेन दृष्टाः सद्धर्मधातुना
आरोपिता मोक्षमार्गे निक्षिप्ता मम शासने ॥

68

छत्रध्वजपताकाभिर् गन्धमाल्यानुलेपनैः
कृत्वा शाक्यमुनेः पूजां ह्य् आगता मम शासने ॥

69

कुंकुमोदकसेकेन चन्दनेनानुलेपनम्
दत्त्वा शाक्यमुनेः स्तूपे ह्य् आगता मम शासने ॥

70

बुद्धं धर्मं च संघं च गत्वा तु शरणं सदा
कृत्वा तु कुशलं कर्म ह्य् आगता मम शासने ॥

71

शिक्षापदान् समादाय शाक्यसिंहस्य शासने
प्रतिपाद्य यथाभूतं ह्य् आगता मम शासने ॥

72

दत्त्वा संघे च दानानि चीवरं पानभोजनम्
विचित्रं ग्लानभैषज्यं ह्य् आगता मम शासने ॥

73

चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा
प्रातिहारकपक्षं च अष्टाङ्गं सुसमाहितः
उपवासम् उपोष्येह ह्य् आगता मम शासने ॥

74

प्रातिहार्यत्रयेणासौ श्रावकान् विनयिष्यति
सर्वे ते सास्रवान् धर्मान् क्षययिष्यन्ति सुरताः ॥

75

प्रथमः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णाः षण्नवति कोट्यः श्रावकाणां भविष्यति ॥

76

द्वितीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णाश् चतुर्नवति कोट्यः क्लेशमुक्ता क्षणाट् ॥

77

तृतीयः सन्निपातो ऽस्य श्रावकाणां भविष्यति
पूर्णा द्वानवति कोट्यो मुक्तानां शान्तचेतसाम् ॥

78

धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान्
सार्धं श्रावकसंघेन पुरे पिण्डं चरिष्यति ॥

79

ततः प्रवेशतस् तस्य रम्यां केतुमतीपुरीम्
मान्दारवाणि पुष्पानि पतिष्यन्ति पुरोत्तमे
देवताः प्रक्रमिष्यन्ति तस्मिन् पुरे गते मुनौ ॥

80

चत्वारश् च महाराजानः शक्रश् च त्रिदशाधिपः
ब्रह्म देवगणैः सार्धं पूजां तस्य विधास्यति ॥

81

उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकम्
अगुरुं चन्दनं चैव दिव्यमाल्यं तथैव च ॥

82

चैलक्षेपं विधास्यन्ति देवपुत्रा महर्द्धिकाः
तं लोकनाथम् उद्वीक्ष्य प्रविशन्तं पुरोत्तमम् ॥

83

पथि तत्र स्थिता भूमिर् मृदुस् तूलपिचूपमा
विचित्रं च ततो माल्यं विकरिष्यन्ति ते पथि ॥

84

छत्त्रध्वजपताकाभिर् गन्धमाल्यानुलेपनैः
शुभैश् च तूर्यनिर्घोषैः प्रसन्नमनसो नराः
शास्तुः पूजां करिष्यन्ति देवपुत्रा महर्द्धिकाः ॥

मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc