भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण · श्लोक 45-64

45

ब्रह्मस्वरो महावेगो हेमवर्णो महाद्युतिः
विशालचक्षुः पीनाङ्गः पद्मपत्त्रनिभेदेक्षणः ॥

46

उच्छ्रयेण हस्ताशीतिः कायस् तस्य भविष्यति
विस्तारं विंशतिर् हस्ता ततो ऽर्धम् मुखमण्डलम् ॥

47

अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः
माणवानां स मैत्रेयो मन्त्रान् अध्यापयिष्यति ॥

48

ततः शङ्खो महाराजो यूपम् उच्छ्रापयिष्यति
षोडशव्यामविस्तारम् ऊर्ध्वव्यामसहस्रकम् ॥

49

स तं यूपं नरपतिर् नानारत्नविभूषितम्
सप्तरत्नसमाकीर्णं ब्राह्मणेभ्यः प्रदास्यति ॥

50

तच् च रत्नमयं यूपं दत्तमात्रं मनोरमम्
ब्राह्मणानां सहस्राणि विकरिष्यन्ति तत्क्षणात् ॥

51

तस्य यूपस्य मैत्रेयो दृष्ट्वा चैनाम् अनित्यताम्
कृत्स्नं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति ॥

52

यत्व् अहं प्रव्रजित्वेह स्पृशेयम् अमृतं पदम्
विमोचयेयं जनतां व्याधिमृत्युजराभयात् ॥

53

अशीतिभिश् चतुर्भिश् च सहस्रैः संपुरस्कृतः
निःक्रमिष्यति मैत्रेयः प्रव्रज्यार्थम् अग्रपुद्गलः ॥

54

नागवृक्षस् तदा तस्य बोधिवृक्षो भविष्यति
पञ्चाशद्योजनास् तस्य ऊर्ध्वं शाखाः भविष्यन्ति
षट्क्रोशविटपाद्यानि विधूतानि समन्ततः ॥

55

तस्य मूले निषण्णो ऽसौ मैत्रेयो द्विपदोत्तमः
अनुत्तरां च संबोधिं प्राप्स्यते नात्र संशयः ॥

56

अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः
देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम् ॥

57

दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम्
आर्याष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥

58

प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति
तथास्य धर्मं संश्रुत्वा प्रतिपद्यन्ति शासने ॥

59

सुपुष्पिते च उद्याने सन्निपातो भविष्यति
संपूर्णं योजनशतं पर्षत् तस्य भविष्यति ॥

60

ततः श्रुत्वा नरपतिः शंखो नाम महायशाः
दत्त्वा दानम् असंख्येयं प्रव्रज्यां रोचयिष्यति ॥

61

अशीतिभिश् चतुर्भिश् च सहस्रैः स पुरस्कृतः
नराधिपो ऽपि निष्क्रम्य प्रव्रज्याम् उपयास्यति ॥

62

तेनैव च प्रमाणेन मानवानां पुरस्कृतः
मैत्रेयस्य पिता चैव प्रव्रज्याम् उपयास्यति ॥

63

ततो गृहपतिस् तत्र सुधनो नाम विश्रुतः
प्रव्रजिष्यति धर्मात्मा सहस्रैः परिवारितः ॥

64

स्त्रीरत्नम् अथ शंखस्य विशाखा नाम विश्रुता
अशीतिभिश् चतुर्भिश् च सहस्रैः सा पुरस्कृता
नारीणां सह निष्क्रम्य प्रव्रज्याम् उपयास्यति ॥

मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc