भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण · श्लोक 85-100

85

स च शक्रः सहस्राक्षो देवराजो महाद्युतिः
प्रहृष्टः प्राञ्जलिं कृत्वा स्तोष्यते लोकनायकम् ॥

86

नमस् ते पुरुषसिंह नमस् ते पुरुषोत्तम
अनुकम्पस्व जनतां भगवन्न् अग्रपुद्गल ॥

87

महर्द्धिको देवपुत्रस् तस्य मारो भविष्यति
स चैव प्राञ्जलिं भूत्वा स्तोष्यते लोकनायकम् ॥

88

शुद्धावाससहस्रैश् च बहुभिः परिवारितः
प्रवेक्षते केतुमतीं मैत्रेयो लोकनन्दनः ॥

89

ब्राह्मणपरिवारेण ब्रह्मा चैव पुरस्कृतः
कथयिष्यति सद्धर्मं ब्रह्मघोषम् उदीरयन् ॥

90

आकीर्णा पृथिवी सर्वा अर्हद्भिश् च भविष्यति
क्षीणास्रवैर् वान्तदोषैः प्रहीणभवबन्धनैः ॥

91

हृष्टा देवमनुष्याश् च गन्धर्वा यक्षराक्षसाः
शास्तुः पूजां करिष्यन्ति नागाश् चापि महर्द्धिकाः ॥

92

ते वै नूनं भविष्यन्ति अखिलाश् छिन्नसंशयाः
छिन्नस्रोता अनादाता उत्तीर्ना भवसागरात्
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥

93

ते वै नूनं भविष्यन्ति अममा अपरिग्रहाः
अजातरूपरजता अनिकेता असंभवाः
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥

94

ते वै नूनं भविष्यन्ति छिन्नजालम् अशक्तिकाः
ध्यानान्य् उपसंपाद्य प्रीतिसौख्यसमन्विताः
ब्रह्मचर्यं चरिष्यन्ति मैत्रेयस्यानुशसने ॥

95

षष्टिवर्षसहस्राणि मैत्रेयो द्विपदोत्तमः
देशयिष्यति सद्धर्मं सर्वभूतानुकम्पकः ॥

96

शतलक्षसहस्राणि प्राणिनं स विनायकः
विनयित्वा च सद्धर्मे ततो निर्वाणम् एष्यति ॥

97

परिनिर्वृतस्य तस्यैव मैत्रेयस्य महामुनेः
दशवर्षसहस्राणि सद्धर्मः स्थास्यते तदा ॥

98

प्रसादयिष्यथ चित्तानि तस्मिं शाक्यमुनौ जिने
ततो द्रक्ष्यथ मैत्रेयं संबुद्धं द्विपदोत्तमम् ॥

99

इदम् आश्चर्यकं श्रुत्वा इमाम् ऋद्धिम् अनुत्तमाम्
को विद्वान् न प्रसीदेत अपि कृष्णाभिजातिकः ॥

100

तस्माद् इहात्मकामेन माहात्म्यम् अभिकांक्षता
सद्धर्मो गुरुकर्तव्यः स्मरतां बुद्धशासनम् ॥

मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc