भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण · श्लोक 31-50

31

(दश मासांश् च) निखिलान् धारयित्वा महाद्युतिम्
सुपुष्पिते ऽस्मिन् उद्याने मैत्रेयजननी ततः ॥

32

न निषण्णा निपन्ना वा स्थिता सा धर्मचारिणी
द्रुमस्य शाखाम् आलम्ब्य मैत्रेयं जनयिष्यति ॥

33

अलिप्तो गर्भपङ्केन कुशेशयम् इवाम्बुना
त्रैधातुकम् इदं सर्वं प्रभया पूरयिष्यति ॥

34

प्रीतो ऽथ तं सहस्राक्षो देवराजा शचीपतिः
जायमानं ग्रहीता स मैत्रेयं द्विपदोत्तमम् ॥

35

पदानि जातमात्रश् च सप्तासौ प्रक्रमिष्यति
पदे पदे निधनं च पद्मं पद्मं भविष्यति ॥

36

दिशश् चतस्रश् चोद्वीक्ष्य वाचं प्रव्याहरिष्यति
इयं मे पश्चिमा जातिर् नास्ति भूयः पुनर्भवः
न पुनर् अभ्यागमिष्यामि निर्वास्यामि निरास्रवः ॥

37

संसारार्णवमग्नानां सत्त्वानां दुःखभागिनाम्
तृष्णाबन्धनबद्धानां करिष्यामि विमोचनम् ॥

38

श्वेतं चास्य सुराश् छत्त्रं धारयिष्यन्ति मूर्धनि
शीतोष्णवारिधाराभ्यां नागेन्द्रौ स्नापयिष्यतः ॥

39

प्रतिगृह्य च तं धात्री द्वात्रिंशद्वरलक्षणम्
श्रिया ज्वलन्तं मैत्रेयं मात्रे समुपनेष्यति ॥

40

मनोरमां च शिविकां नानारत्नविभुषिताम्
आरूढां पुत्रसहितां वहिष्यन्ति च देवता ॥

41

ततस् तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम्
प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति ॥

42

दृष्ट्वैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम्
प्रत्यवीक्षाथ मन्त्रेषु तदा प्रीतो भविष्यति ॥

43

गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते
नराधिपश् चक्रवर्ती बुद्धो वा द्वीपदोत्तमः ॥

44

स च यौवनसंप्राप्तो मैत्रेयाः पुरुषोत्तमः
चिन्तयिष्यति धर्मात्मा दुःखिता खल्व् इयां प्रजाः ॥

45

ब्रह्मस्वरो महाघोषो हेमवर्णो महाद्युतिः
विशालवक्षाः पीनाङ्सः पद्मपत्त्रनिभेक्षणः ॥

46

हस्तः पञ्चाशद् उच्छ्राय तस्य कायो भविष्यति
विसृतश् च ततो ऽर्द्धेन शुभवर्णसमुच्छ्रयः ॥

47

अशीतिभिश् चतुर्भिश् च सहस्रैः संपुरस्कृतः
माणवानां स मैत्रेयो मन्त्रान् अध्यापयिष्यति ॥

48

अथ शङ्खो नरपतिः यूपम् उच्छ्रापयिष्यति
तिर्यञ् च षोडशव्यामम् ऊर्ध्वं व्यामसहस्रकम् ॥

49

स तं यूपं नरपतिर् नानारत्नविभूषितम्
प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरःसरम्
सप्तरत्नमयं यूपं ब्राह्मणेभ्यः प्रदास्यति ॥

50

तं च रत्नमयं यूपं दत्तमात्रं मनोरमम्
ब्राह्मणानां सहस्राणि विकिरिष्यन्ति तत्क्षणात् ॥

मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc