मैत्रेयव्याकरण · श्लोक 25-44
पिङ्गलश् च कलिङ्गेषु मिथिलायाम् च पाण्डुकः
एलापत्रश् च गान्धारे शंखो वाराणसीपुरे ॥
चतुर्भिर् एभिर् निधिभिः स राजा सुसमन्वितः
भविष्यति महावीरः शतपुण्यफलार्पितः ॥
ब्राह्मणस् तस्य राज्ञो ऽथ सुब्रह्मा नाम्ना पुरोहितः
बहुश्रुतश् चतुर्वेदी उपध्यायो भविष्यति ॥
अध्यापको मन्त्रधरः स्मृतिवान् वेदपारगः
कैटाभे च स निर्घण्टे पदव्याकरणे तथा ॥
तस्य ब्रह्मवती नाम तदा भार्या भविष्यति
दर्शनीया प्रासादिका अभिरूपा यशस्विनी ॥
तुषितेभ्यस् ततश् च्युत्वा मैत्रेयो ह्य् अग्रपुद्गलः
तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहिष्यति ॥
दश मासांश् च निखिलान् धारयित्वा महाद्युतिम्
सुपुष्पिते च उद्याने गत्वा मैत्रेयमातरः ॥
न निषण्णा निपन्ना वा स्थिता सा ब्रह्मचारिणी
द्रुमस्य शाखाम् आलम्ब्य मैत्रेयं जनयिष्यति ॥
निष्क्रमिष्यति पार्श्वेन दक्षिणाङ्गे नरोत्तमः
अभ्रकूटाद् यथा सूर्यो निर्गतश् च प्रभायते ॥
करिष्यते समालोकं सनरामरवन्दितः
अलिप्तो गर्भपङ्केन पद्मं चैव यथाम्भुवा
त्रैधातुकम् इदं सर्वं प्रभया पूरयिष्यति ॥
पदे पदे निधानं च पद्मं पद्मं भविष्यति
दिशश् चतस्रो उद्वीक्ष्य वाचं प्रव्याहरिष्यति
इयं मे पश्चिमा जातिर् नास्ति भूयः पुनर्भवः ॥
न पुनर् आगमिष्यामि निर्वास्यामि निराश्रवः
शीतोष्णवारिधाराभिः स्नापयिष्यन्ति पुन्नगाः ॥
दिव्यासुराणि पुष्पाणि पतिष्यन्ति नभस्तलात्
श्वेतं तस्य सुराश् छत्त्रं धारयिष्यन्ति मूर्धनि ॥
हृष्टश् चैव सहस्राक्षो देवराजः शचीपतिः
प्रग्रहीष्यति कुमारं तं द्वात्रिंशलक्ष्णान्वितम्
श्रिया ज्वलन्तं मैत्रेयं मातुर् हस्ते प्रदास्यति ॥
मनोरमां च शिविकां नानारत्नविभुषिताम्
आरूढां पुत्रसहितां वहिष्यन्ति च देवताः ॥
ततस् तूर्यसहस्रेषु वाद्यमानेषु तत्पुरम्
प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति ॥
तस्मिंश् च दिवसे नार्यो गुर्विण्यः प्रसविष्यन्ति
सर्वास् ता जनयिष्यन्ति पुत्रान् क्षेमेण स्वस्तिना ॥
दृष्ट्वैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम्
प्रत्यवेक्ष्य सुमन्त्रेण ततः प्रीतो भविष्यति ॥
गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते
नराधिपश् चक्रवर्ती बुद्धो वा द्वीपदोत्तमः ॥
स च यौवनसंप्राप्तो मैत्रेयो ह्य् अग्रपुद्गलः
चिन्तयिष्यति धर्मात्मा दुःखिता खल्व् इयं प्रजा ॥
मूल पाठ: Maitreyavyākaraṇa · Edition: 1. Gilgit Manuscript (incomplete), ed. Majumder (= MvyG), 2. Calcutta Manuscript (incomplete), ed. Lévi (= MvyC), 3. Kathmandu Manuscript (complete), ed. Ishigami (= MvyK) · Data entry Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0