मैत्रेयव्याकरण (अन्य संस्करण) · श्लोक 81-100
तृतीयः सन्निपातोस्य श्रावकाणां भविष्यति ।
पूर्णाः द्वाविंशति कोट्यः शान्तानां शान्तचेतसां
धर्मचक्रं प्रवर्त्याथ विनीय सुरमानुषान् ।
सार्धं श्रावकसंघेण पुरे पिण्डं चरिष्यति
ततः प्रविशतस्तस्यां रम्यां केतुमतीं पुरीं ।
मान्दारकाणि पुष्पाणि पतिष्यन्ति पुरोत्तमे ॥
देवताः प्रकिरिष्यन्ति तस्मिन् पुरगते मुनौ
चत्वारश्च महाराजा शक्रश्च त्रिदशाधिपः ।
ब्रह्मा देवगणैः सार्धं पूजां तस्य करिष्यति
उत्पलं कुमुदं पद्मं पुण्डरीकं सुगन्धिकं ।
अगुरुं चन्दनं चापि दिव्यं माल्यं पतिष्यति
चैलक्षेपं करिष्यन्ति देवपुत्रा महर्द्धिकाः ।
तं लोकनाथमुद्वीक्षप प्रविशन्तं पुरोत्तमम्
दिव्यश्च तूर्यनिर्घोषो दिव्यं माल्यं पतिष्यति ।
देवता प्रकिरिष्यन्ति तस्मिन् पुरगते मुनौ
ये तु केतुमतीं केचित् वासयष्यन्ति मानुषाः ।
तेपि तं पूजयिष्यन्ति प्रविशन्तं पुरोत्तमम्
पथि भूम्यास्तरं तत्र मृदुतूलपिचोपमम् ।
विचित्रञ्च शुभं माल्यं विकिरिष्यन्ति ते तदा
छत्रध्वजपताकभिरर्चयिष्यन्ति मानुषाः ।
शुभैश्च तूर्यनिर्घोषैः प्रसन्नमनसो नराः
तं च शक्रः सहस्राक्षो देवराजः शचीपतिः ।
प्रहृष्टः प्राञ्जलिर्भूत्वा मैत्रेयं स्तोष्यते जिनम्
नमस्ते पुरुषाजन्य नमस्ते पुरुषोत्तम ।
अनुकम्पस्व जनतां भगवन्नग्रपुग्दल
महर्द्धिको देवपुत्रस्तस्य मारो भविष्यति ।
स चापि प्राञ्जलिर्भूत्वा स्तोष्यते लोकनायकम्
शुद्धावास सहस्रैश्च बहुभिः परिवारितः ।
प्रवेक्ष्यते च मैत्रेयो लोकनाथो विनायकः
ब्राह्मणपरिवारेण ब्रह्मा चापि गिरास्फुटम् ।
कथयिष्यति सद्धर्मं ब्राह्मं घोषमुदीरयन्
आकीर्णा पृथिवी सर्वा अर्हद्भिश्च भविष्यति ।
क्षीणाश्रवैर्वान्तदोषैः प्रहीणभवबन्धनैः
हृष्टा देवमनुष्याश्च गन्धर्वा यक्षराक्षसाः ।
शास्तुः पूजां करिष्यन्ति नागाश्चापि महर्द्धिकाः
ते वै नूनं भविष्यन्ति च्यानघाच्छिन्नसंशयाः ।
उत्क्षिप्तपरिखाः धीरा अनादाना निरुत्सकाः ॥
ब्रह्मचर्यञ्चरिष्यन्ति मैत्रेयस्यानुशासने
ते ऽपि नूनं भविष्यन्ति अममा अपरिग्रहाः ।
अजातरूपरजता अनिकेता असंस्तवाः ।
ब्रह्मचर्यञ्चरिष्यन्ति ये मैत्रेयानुशासने
ते वै पारं गमिष्यन्ति छित्वा जालमेव भुजात् ।
ध्यानानि चोपसंपद्य प्रीतिसौख्यसमन्विताः ।
ब्रह्मचर्यञ्चरिष्यन्ति मैत्रेयस्यानुशासने
मूल पाठ: Maitreyavyākaraṇa · Edition: N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 185-214. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0