भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण (अन्य संस्करण) · श्लोक 101-108

101

षष्ठिं वर्ष सहस्राणि मैत्रेयो द्विपदोत्तमः ।
देशयिष्यति सद्धर्मं शास्ता लोकानुकम्पया

102

शतानि च सहस्राणि प्राणिणां स विनायकः ।
विनीय धर्मकायेन ततो निर्वाणमेष्यति

103

तस्मिंश्च निर्वृते धीरे मैत्रेये द्विपदोत्तमे ।
दशवर्षसहस्राणि सद्धर्मं स्थास्यति क्षितौ

104

प्रसादयति चित्तानि तस्माच्छाक्यमुनौ जिने ।
ततोदृक्षथ मैत्रेयं संबुद्धं द्विपदोत्तमम्

105

तस्माद्धर्मे च बुद्धे च संघे चापि गणोत्तमे ।
प्रसादयति चित्तानि भविष्यति महर्द्धिकं

106

तं तादृशं कारुणिकं मैत्रेयं द्विपदोत्तमं ।
आराधयित्वा कालेन ततो निर्वाणमेष्यथ

107

इदमाश्चर्यकं श्रुत्वा दृष्ट्वा च विभवानल्पिकां ।
को विद्वान्न प्रसीदेत अपि कृष्णासु जातिषु

108

तस्मादिहात्मकामेन माहात्मयमभिकांक्षताः ।
सद्धर्मो गुरुकर्त्तव्यः स्मरता बुद्धशासनम्

मूल पाठ: Maitreyavyākaraṇa · Edition: N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 185-214. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc