मैत्रेयव्याकरण (अन्य संस्करण) · श्लोक 61-80
श्रुत्वा नरपति राजा शङ्खो नाम महायशाः ।
दत्वा दानमसंख्येयं प्रव्रज्यां निष्क्रमिष्यति
अशीतिभिश्चतुर्भिश्च सहस्रैः परिवारितः ।
नराधिपो विनिष्क्रम्य प्रव्रज्यामुपयास्यति
अनेनैव प्रमाणेन मानवानां पुरस्कृतः ।
मैत्रेयस्य पिता तत्र प्रव्रज्यां निष्क्रमिष्यति
ततो गृहपतिस्तत्र सुधनो नाम विश्रुतः ।
प्रव्रजिष्यति शुद्धात्मा मैत्रेयस्यानुशासने
स्त्रीरत्नमथ शङ्खस्य विशाखा नाम विश्रुता ।
अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरष्कृता ॥
नारीणामभिनिष्क्रम्य प्रव्रज्यां रोचयिष्यति
प्राणिनः तत्र समये सहस्राणि शतानि च ।
प्रव्रज्यामुपयास्यन्ति मैत्रेयस्यानुशासने
सुपुष्पिते ऽस्मिन्नुद्याने सन्निपातो भविष्यति ।
समन्ततो योजनशतं पर्षत् तस्य भविष्यति
ततः कारुणिकः शास्ता मैत्रेयः पुरुषोत्तमः ।
समितिं व्यवलोक्याथ इममर्थं प्रवक्षयति
सर्वेते शाक्यसिंहेन गुणिश्रेष्ठेण त्रायिना ।
अर्थतो लोकनाथेन दृष्ट्वा सद्धर्मधातुना ।
रोपिता मोक्षमार्गेण विक्षिप्ता मम शासने
छत्रध्वजपताकाभिर्गन्धमाल्यविलेपनैः ।
कृत्वा स्तूपेषु सत्कारं आगता हि ममान्तिकम्
संघे दत्वा च दानानि चीवरं पानभोजनं ।
विविधं ग्लानभैषज्यं आगता हि ममान्तिकम्
कुंकुमोदकसेकं च चन्दनेनानुलेपनं ।
दत्वा शाक्यमुनेः स्तूपेष्वागता हि ममान्तिकम्
शिक्षापदानि चाधाय शाक्यसिंहस्य शासने ।
परिपालय यथाभूतं आगता हि ममान्तिकम्
उपोषधं उपोष्येह आर्यमष्टाङ्गिकं शुभं ।
चतुर्दशीं पञ्चदशीं पक्षस्येहाष्टमीं तथा ।
प्रातिहारिकपक्षं चाष्यष्टाङ्गं सुसमाहितं
शीलानि च समादाय संप्राप्तानि च शासनम् ।
बुद्धं धर्में च संघं च सत्त्वास्ते शासनं गताः ॥
कृत्वा च कुशलं कर्म मच्छासनमुपागताः
तेनैते प्रेषिताः सत्त्वा प्रतिष्टाश्च मयाप्यमी ।
गणिश्रेष्ठेण मुनिना परीता भूरिमेधसा
प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति ।
श्रुत्वा च ते ततो धर्मं प्राप्स्यन्ति पदमुत्तमम्
प्रातिहार्यत्रयेणासौ श्रावकान्विनयिष्यति ।
सर्वेते आस्रवास्तत्र क्षिपयिष्यन्ति सुरताः
प्रथमः सन्निपातोस्य श्रावकाणां भविष्यति ।
पूर्णाः षण्णवतिकोट्यः श्रावकाणां भवच्छिदां
द्वितीयः सन्निपातोस्य श्रावकाणां भविष्यति ।
पूर्णाश्चतुर्नवति कोट्यः शान्तानां भूरिमेधसां
मूल पाठ: Maitreyavyākaraṇa · Edition: N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 185-214. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0