भाषा

ENहिગુ
ग्रंथ पाठ

मैत्रेयव्याकरण (अन्य संस्करण) · श्लोक 41-60

41

ततस्तूर्य सहस्रेषु वाद्यमानेषु तत्पुरं ।
प्रविष्टमात्रे मैत्रेये पुष्पवर्षं पतिष्यति

42

दृष्टैवं पुत्रं सुब्रह्मा द्वात्रिंशद्वरलक्षणम् ।
प्रत्यवीक्षाथ मन्त्रेषु तदा प्रीतो भविष्यति

43

गतिद्वयं कुमारस्य यथा मन्त्रेषु दृश्यते ।
नराधिपश्चक्रवर्त्ती बुद्धो वा द्विपदोत्तमः

44

स च यौवनसंप्राप्तो मैत्रेयः पुरुषोत्तमः ।
चिन्तयिष्यति धर्मात्मा दुःखिता खल्वियं प्रजाः

45

ब्रह्मखरो महाघोषो हेमवर्णो महाद्युतिः ।
विशालवक्षः पीनांसः पद्मपत्रनिभेक्षणः

46

हस्तः पञ्चाशदुच्छ्राय तस्य कायो भविष्यति ।
विसृतश्च ततो ऽर्द्धेण शुभवर्णसमुच्छ्रयः

47

अशीतिभिश्चतुर्भिश्च सहस्रैः संपुरस्कृतः ।
मानवानां स मैत्रेयो मन्त्रानध्यापयिष्यति

48

अथ शंखो नरपतिः यूपमुच्छ्रापयिष्यति ।
तिर्यञ्च षोडशव्यामं ऊर्द्ध्व व्यामसहस्रकम्

49

स तं यूपं नरपतिर्नानारत्नविभूषितं ।
प्रदास्यति द्विजातिभ्यो यज्ञं कृत्वा पुरःसरं

50

तञ्च रत्नमयं यूपं दत्तमात्रं मनोरमं ।
ब्राह्मणाणां सहस्राणि विकिरिष्यन्ति तत्क्षणात्

51

यूपस्यतस्य मैत्रेयो दृष्ट्वा चैतामनित्यतां ।
कृतस्रं विचिन्त्य संसारं प्रव्रज्यां रोचयिष्यति

52

यत्वहं प्रव्रजित्वेह स्पृशेयममृतं पदं ।
विमोचयेयं जनतां व्याधिमृत्युजराभयात्

53

अशीतिभिः सहस्रैस्स चतुर्भिश्च पुरस्कृतः ।
निष्क्रमिष्यति मैत्रेयः प्रव्रज्यामग्रपुग्दलः

54

नागवृक्षस्तदा तस्य बोधिवृक्षो भविष्यति ।
पञ्चाशद्योजनान्यस्य शाखा ऊर्द्धं समुच्छ्रिताः

55

निषद्य तस्य चाधस्तान्मैत्रेयः पुरुषोत्तमः ।
अनुत्तरां शिवां बोधिं समवाप्स्यति नायकः

56

यस्यामेव च रात्रौ स प्रव्रज्यां निष्क्रमिष्यति ।
तस्यां एव च रात्रौ हि परां बोधिमवाप्स्यति

57

अष्टाङ्गोपेतया वाचा ततः स पुरुषोत्तमः ।
देशयिष्यति सद्धर्मं सर्वदुःखापहं शिवम्

58

प्रसन्नां जनतां दृष्ट्वा सत्यानि कथयिष्यति ।
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमं

59

आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनं ।
तं चापि धर्मं संश्रुत्य प्रतिपत्स्यन्ति शासने

60

उद्याने पुष्पसंच्छन्ने सन्निपातो भविष्यति ।
पूर्णं च योजनशतं पर्षत्तस्य भविष्यति

मूल पाठ: Maitreyavyākaraṇa · Edition: N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 185-214. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc