मैत्रेयव्याकरण (अन्य संस्करण) · श्लोक 21-40
शङ्खोनाम नृपस्तत्र महातेजा भविष्यति ।
चतुर्द्वीर्पाधिपेश्वरश्चक्रवर्त्ती महाबलः
सप्तरत्नसमन्वितश्चतुरङ्गबलाधिपः ।
सहस्रं हि जनिष्यन्ते पुत्रास्तदास्य भूपतेः
पृथिवीं सागरान्ताञ्च स परिपालयिष्यति ।
यथाधर्मदण्डेण नराधिपो हि तद्यथा
चतुर्महानिधिस्तदा शङ्खाख्यस्य च भूपतेः ।
रत्नानां शतकोटीनां राज्ञस्तदा हि लोक्यते
पिङ्गलश्च कलिङ्गेषु मिथिलायाम् च पाण्डुकः ।
एलपत्रश्च गान्धारे शंखो वाराणसीपुरे
चतुर्भिरेभिनिधिभिस्स राजा सुसमन्वितः ।
भविष्यति महावीरः शतपुण्यबलोदितः
ब्राह्मणस्तस्य राज्ञाश्च सुब्रह्मणः पुरोहितः ।
बहुश्रुतश्चतुर्वेदस्तस्योपाध्यायो भविष्यति
अध्यापको मन्त्रधरः स्मृतिमान् वेदपारगः ।
कैटभे सनिघण्टे च पदव्याकरणे तथा
तदा ब्रह्मावती नाम तस्य भार्या भविष्यति ।
दर्शनीया प्रासादिका अभिरूपा यशस्विनी
तुषितेभ्यश्चयवित्वा तु मैत्रेयो ह्यग्रपुग्दलः ।
तस्याः कुक्षौ स नियतं प्रतिसन्धिं ग्रहीष्यति
दशमासांश्च निखिलां धारयित्वा महाद्यूतिं ।
सुपुष्पितेस्मिन्नुद्याने मैत्रेयजननी ततः
न निषण्णा निपन्ना वा स्थिता सा धर्मचारिणी ।
द्रुमस्य शाखामालम्व्य मैत्रेयं जनयिष्यति
निष्क्रमिष्यति पार्श्वेन दक्षिणेन नरोत्तमः ।
अभ्रकूटाद्यथा सूर्यो निर्गतश्च प्रभाव्यते ॥ म्व्या_32* ॥
अलिप्तो गर्भपङ्केन कुशेशयमिवाम्वुना ।
त्रैधातुकमिदं सर्वं प्रभया पूरयिष्यति
प्रीतो ऽथ तं सहस्राक्षो देवराजा शचीपतिः ।
जायमानं ग्रहीता च मैत्रेयं द्विपदोत्तमम्
पदानि जातमात्रश्च सप्तासौ प्रकमिष्यति ।
पदे पदे निधानञ्च पद्मं पद्मं भविष्यति
दिशश्चतस्रश्चोद्वीक्ष्य वाचं प्रव्याहरिष्यति ।
इयं मे पश्चिमा जाति नास्ति भूयः पुनर्भवः ।
न पुनरभा गमिष्यामि निर्वास्यामि निरास्रवः
संसारार्णवमग्नानां सत्त्वानां दुःखभागिनां ।
तृष्णाबन्धनबद्धानां करिष्यामि विमोचनम्
श्वेतं चास्य सुराश्छत्रं धारयिष्यन्ति मूर्धनि ।
शीतोष्णवारिधाराभ्यां नागेन्द्रौ स्नापयिष्यतः
प्रतिगृह्य च तं धात्री द्वात्रिंशद्वरलक्षणम् ।
श्रिया ज्वलन्तं मैत्रेयं मात्रे समुपनेष्यति
मनोरमां च शिविकां नानारत्नविभूषितां ।
आरूढां पुत्रसहितां वहिष्यन्ति च देवता
मूल पाठ: Maitreyavyākaraṇa · Edition: N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 185-214. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0