मैत्रेयव्याकरण (अन्य संस्करण) · श्लोक 1-20
आर्य मैत्रेयव्याकरणं
नमः आर्यमैत्रेयाय ।
शारिपुत्रो महाप्रज्ञः धर्मसेनापतिबिभुः ।
लोकानामनुकम्पाय शास्तारं पर्यपृच्छत
सूत्रान्तरे पुरा ऽख्यातं यं लोकनायकस्य च ।
बुद्धस्यानागतस्य हि मैत्रेयनाम शासनं
व्याख्याहि तद्वलं चापि ऋद्धिं सर्वार्थवर्धनं ।
श्रोतुमिच्छाम एव च नायकस्य नरोत्तम
तच्छ्रुत्वा भगवानाह शृणु नरवरस्य त्वं ।
तस्य मैत्रेयबुद्धस्य विभवं व्याकृतं मया
शुक्ष्यन्ति च तदार्नवाः समन्तात् बहुयोजनाः ।
प्रतिपाद्या भविष्यन्ति मार्गाश्च चक्रवर्तिनः
जम्बुद्वीपं समन्ततः आयतनं तदाहि च ।
आवासं सर्वभूतानां दशसहस्रयोजनम्
नरास्तद्देशिकाश्च हि भविष्यन्ति शुभङ्कराः ।
अहिंसकाश्च निर्दण्ड्याः सुसमृद्धाश्च सुभगाः
निष्कण्टकश्च भूस्थलं समतलं हि श्यामलं ।
उन्नमावनमश्रितं मृदुतूल ऽपिचोपमं
गन्धशालि जनिष्यते कृष्टिमृते च मधुरं ।
नानावर्णाभिलङ्कृता भविष्यन्ति चैलद्रुमाः
द्रुमाश्च क्रोशविस्तृता पत्रपुष्पफलानताः ।
सहस्राशीतिमात्रश्च आयुस्तदा भविष्यति
वर्णवन्तः भविष्यन्ति बलवन्तो महाकायाः ।
सत्त्वाः दक्षाश्च निष्क्लेशा निर्दोषा दिर्घजीविनः
रोगत्रयं भविष्यति कामोजरा ऽग्निमान्द्यञ्च ।
पञ्चशततमे वर्षे परिणीता च दारिका
तदा केतुमती नाम पुरी तत्र भविष्यति ।
सत्त्वानाञ्च निवासनं प्राणिनां हितकारिणां
दीर्घा द्वादशयौजन सप्त विस्तारशो ह्यसौ ।
नगरं पुण्यवच्च तत् विशुद्धञ्च मनोरमं
सप्तरत्नमयाः प्रांशुप्राकाराः क्रोशविस्तृताः ।
नानारत्नविभूषितगोपुरतोरणान्यपि
इष्टकैर्निमिताश्च ते रत्नमयैर्भविष्यन्ति ।
पद्मोत्पलसमाच्छनाः परिखा हंसशोभिता
मालैर्हि परिवेष्टितं सप्ततालैस्ममन्ततः ।
चतूरत्नमयास्तालाः किङ्किनीजालशोभिताः
तत्तालेभ्योनिलाज्जातः शब्दश्चैव मनोरमः ।
सुमधुरो यथा तूर्यं तच्च पञ्चाङ्गसंयुतं
नगरे ऽस्मिन् नराश्च ये विश्रामसुखकामिनः ।
प्रहृष्टाभिरभिष्यन्ते तालशब्दैश्च ते तदा
नगरमपि तत्कृतमुत्पलकुमुदाकीर्णं ।
तडागोपवनोद्यानं त्रयमेतद्भविष्यति
मूल पाठ: Maitreyavyākaraṇa · Edition: N. Dutt: Gilgit Manuscripts, Vol IV. Delhi : Sri Satguru Publications, 1984, 185-214. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0